॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यागकाण्डम्

॥ सप्तमः सर्गः ॥
[ ध्वजारोपणव्रतम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
सौत्येऽहन्यवनीपालो याजकान्सदसस्पतीन् ।
अपूजयन्महाभागान् यथावत्सुसमाहितः ॥ १ ॥
अथ चैत्रे सिते पक्षे राजानः प्रतिपत्तिथौ ।
ध्वजानारोपयामासुर्विधिनाऽध्वरमंडपे ॥ २ ॥
श्रीविष्णदास उवाच
आरोपिता ध्वजाः प्रोक्ताः पार्थिवैर्यज्ञमंडपे ।
गुरो तेषां विधानं मां सम्यग्वक्तुं त्वमर्हसि ॥ ३ ॥
श्रीरामदास उवाच
सम्यकप्रश्नः कृतः शिष्य त्वया लोकोपकारकः ।
सावधानमना भूत्वा शृणुष्व त्वं मयोच्यते ॥ ४ ॥
सांवत्सरं व्रतं चेदं नृपैदृष्‍ट‍्वा समागतम् ।
आरोपिता ध्वजाः सर्वैर्यज्ञवाटे तदा मुदा ॥ ५ ॥
नोचेद्विप्णुगृहेष्वारोपणीया ध्वजा नृभिः ।
मधुशुक्लदशम्यां च पुण्यायां प्रतिपत्तिथौ ॥ ६ ॥
अथवा गेपणीयास्ते श्रीरामनवमीदिने ।
मधुशुक्लदशम्यां वा दशम्यामाश्विने सिते ॥ ७ ॥
अथवोर्जप्रतिपदि शुक्लपक्षेऽपि भो द्विज ।
एते काला मया प्रोक्ता व्रतस्यास्य तवाग्रतः ॥ ८ ॥
अधुना संप्रवक्ष्यामि ध्वजारोपणमुत्तम्म् ।
व्रतं पापहरं पुण्यं रामसंतोषकारकम् ॥ ९ ॥
यः कुर्याद्विष्णुभवने ध्वजारोपणसंज्ञितम् ।
सम्पूज्यते विरिंचाद्यैः किमन्यैर्बहुभाषितैः ॥ १० ॥
हेमभारसहस्रं तु यो दद्याच्च कुटुम्बिने ।
तत्फलं समवाप्नोति ध्वजारोपणकर्मणः ॥ ११ ॥
ध्वजारोपणतुल्यं स्यान्न गंगास्नानमुत्तमम् ।
अथवा तुलसीसेवा शिवलिंगप्रपूजनम् ॥ १२ ॥
अहोऽपूर्वमहोऽपर्वूमहोऽपूर्वं महत्तरम् ।
सर्वपापहरं कर्म ध्वजारोपणसंज्ञितम् ॥ १३ ॥
तानि सर्वाणि वक्ष्यामि शृणु त्वं गदतो मम ॥ १४ ॥
अथ चैत्रे सिते पक्षे व्रतं हि प्रतिपत्तिथौ ।
मधुशुलदशम्यां वा नवम्यां राघवस्य वा ॥ १५ ॥
कार्यं वाऽऽश्विनमासस्य दशम्या शुक्लपक्षके ।
ऊर्जशुक्लप्रतिपदि दशम्यां वा विधीयताम् ॥ १६ ॥
अवश्यं चैत्रमासे हि कार्य चैतद्‌व्रतोत्तमम् ।
अतिक्रांते चैत्रमासे कार्यं चेतरपर्वसु ॥ १७ ॥
चैत्रशुक्लप्रतिपदि प्रभाते प्रयतो नरः ।
स्नानं कुर्यात्प्रयत्‍नेन दंतधावनपर्वूकम् ॥ १८ ॥
ततः कृत्वा नित्यकर्म पश्चाद्विष्णुं समर्चयेत् ।
चतुर्भिर्ब्राह्मणैः सार्द्धं कृत्वा च स्वस्तिवाचनम् ॥ १९ ॥
नांदीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ।
ध्वजस्तंभौ च गायत्र्या प्रोक्षयेद्वस्त्रसंयुतौ ॥ २० ॥
पताकयोर्लेखनीयौ वैनतेयाञ्जनीसुतौ ।
सूर्यं चद्रं मारुतिं च वैनतेयं प्रपूजयेत् ॥ २१ ॥
धातारं च विधातारं पूजयेत्कुम्भकद्वये ।
हरिद्राऽक्षतदूर्वाद्यैः शुक्लषुष्पैविशेषतः ॥ २२ ॥
ततो गोचर्ममात्रं तु स्थडिलं चोपलिप्य च ।
आधायाग्निं स्वगृह्योक्त्या घृत भागादिकं क्रमात् ॥ २३ ॥
जुहुयात्पायसेनैव घृतेनाष्टोत्तरं शतम् ।
प्रथमं पौरुषं सूक्तं विष्णोनुकेन मंत्रतः ॥ २४ ॥
ततश्च वैनतेयाय स्वाहेत्यष्टाहुतीस्तदा ।
मारुतेरष्टाहुतीश्च कृत्वा स्वाहेति होमयेत् ॥ २५ ॥
सोमो धेनुं समुच्चार्य जुहुयात्प्रयतस्तदा ।
सौरान् मंत्रान् जपेत्तत्र शांतिसूक्तानि भक्तितः ॥ २६ ॥
रात्रौ जागरणं कुर्यादुपकंठं हरेः शुचिः ।
एवं नवदिनं काय पूजनं परमोत्सवैः ॥ २७ ॥
नवरात्रं जागरणं कुर्यान्नित्यं सुकीर्तनैः ।
ततो दशम्यामुषसि समुत्थाय व्रती शुचिः ॥ २८ ॥
प्रातःस्नात्वा नित्यकर्म समाप्याथ ततः परम् ।
गंधपुष्पादिभिर्देवानर्चयेत्पूर्ववत्क्रमात् ॥ २९ ॥
ततो मंगलवाद्यैश्च शुक्लपीठैश्च शोभनैः ।
नृत्यैश्च स्तोत्रपठनैर्नयेद्विष्ण्वालयं ध्वजम् ॥ ३० ॥
देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः ।
सुस्थिरं स्थापयेच्छिष्य ध्वजस्तंभं सुशोभितम् ॥ ३१ ॥
गंधपुष्पाक्षतैर्दीपैर्दिव्यधूपैर्मनोरमैः ।
भक्ष्यभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ॥ ३२ ॥
आप्रतिपदमारभ्य दशम्यवधि सद्मनि ।
ध्वजयोः पूजनं कृत्वैकादश्यां हरिसद्मनि ॥ ३३ ॥
आरोपणीयौ शिखरे पुरतो वा यथासुखम् ।
अथवा रोपणीयौ हि दशम्यां तौ ध्वजोत्तमौ ॥ ३४ ॥
नवम्यां वा द्वितीयायां चतुर्थ्यामष्टमीदिने ।
षष्ठ्यां वा रोपणीयौ तौ पूर्वं पूज्य यथाविधि ॥ ३५ ॥
व्रतस्य प्रतिपद्येव प्रारंभो नेतरे दिने ।
पूर्वोक्तेषु हरेः कार्या न मासेष्वितरेषु च ॥ ३६ ॥
माघासितचतुर्दश्यामेवं शंभोर्गृहे ध्वजौ ।
नंदीभृंग्यंकितौ कृत्वा रोपणीयौ यथाविधि ॥ ३७ ॥
आश्विनस्य सिताष्टम्यां मधोर्वा गिरिजागृहे ।
नभस्यस्य चतुर्थ्यां हि प्रोक्तो गणपसद्गृहे ॥ ३८ ॥
मार्गशीर्षे शुक्लपष्ठ्यामेव मार्तंडसद्व्यहे ।
एवं हि सर्वदेवानामुत्साहदिवसेष्वपि ॥ ३९ ॥
मधूर्जाश्विनमासेषु विना विष्णोर्न चेतरे ।
एवं देवालये स्थाप्य शोभनौ तौ ध्वजोत्तमौ ॥ ४० ॥
संपूज्य विष्णुं विधिवत् वित्तशाट्यं विना ततः ।
प्रदक्षिणमनुव्रज्य स्तोत्रमेतदुदीरयेत् ॥ ४१ ॥
नमस्ते पुंडरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ ४२ ॥
येनेदमखिलं जातं यस्मिन् सर्वं प्रतिष्ठितम् ।
लयमेष्यति यत्रैतत्तं प्रपन्नोऽस्मि माधवम् ॥ ४३ ॥
न जानंति वरं देवं सर्वे ब्रह्मादयः सुराः ।
योगिनो यं प्रशंसंति तं वंदे ज्ञानरूपिणम् ॥ ४४ ॥
अंतरिक्षं तु यन्नाभिद्यार्मूर्धा यस्य चैव हि ।
पादादभूच्च वै पृथ्वी तं वंदे विश्वरूपिणम् ॥ ४५ ॥
यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृच्छशी ।
ऋक्सामयजुषो येन तं वंदे ब्रह्मरूपिणम् ॥ ४६ ॥
यन्मुखाद्‌ब्राह्मणा जाता यद्‌बाह्वोरभवन्नृपाः ।
वैश्या यस्यारुतो जाताः पद्‌भ्यां शूद्रस्त्वजायत ॥ ४७ ॥
मनसश्चंद्रमा जातो दिनेशश्चक्षुषस्तथा ।
प्राणेभ्यः पवनो जातौ मुखादग्निरजायत ॥ ४८ ॥
पापसंदाहमात्रेण वदंति पुरुषं तु यम् ।
स्वभावविमलं शुद्धं निर्विकारं निरंजनम् ॥ ४९ ॥
क्षीराब्धिशायिनं देवमनंतमपराजितम् ।
सद्भक्तवत्सलं विष्णु भक्तिगम्यं नमाम्यहम् ॥ ५० ॥
पृथिव्यादीनि भूतानि तन्मात्राणींद्रियाणि च ।
सुसूक्ष्माणि च येनासंस्तं वंदे सर्वतोमुखम् ॥ ५१ ॥
यद्‌ब्रह्म परमं धाम सर्वलोकोत्तमोत्तमम् ।
निर्गुणं परमं सूक्ष्मं प्रणतोऽस्मि पुनः पुनः ॥ ५२ ॥
निर्विकारमजं शुद्धं सर्वतो वह्निमीश्वरम् ।
यमामनंति योगींद्राः सर्वकारणकारणम् ॥ ५३ ॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान् व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः ॥ ५४ ॥
निर्गुणः परमानंदः स मे विष्णुः प्रसीदतु ।
हदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् ॥ ५५ ॥
ज्ञानिनां सर्वधर्मस्तु स मे विष्णुः प्रसीदतु ।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पंचभिरेव च ॥ ५६ ॥
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ।
ज्ञानिनां कर्मणां चैव तथा भक्तिमतां नृणाम् ॥ ५७ ॥
गतिदाता विश्वभुग्यः स मे विष्णुः प्रसीदतु ।
जगद्धितार्थं यो देहमदधाल्लीलया हरिः ॥ ५८ ॥
यमर्चयंति विबुधाः स मं विष्णुः प्रसीदतु ।
यमामनंति वे संतः सर्वदाऽऽनंदग्रहम् ॥ ५९ ॥
निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ।
परेशः परमानंदः परात्परतरः प्रभुः ॥ ६० ॥
चिद्‌रूपश्च परिज्ञेयः स मे विष्णुः प्रसीदतु ।
य इदं कीर्तयेन्तित्वं स्तोत्राणामुत्तमोत्तमम् ॥ ६१ ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।
य इदं कीर्तयेद्विष्णुं ब्राह्मणांश्च प्रपजूयेत् ॥ ६२ ॥
आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ।
ब्राह्मणान्भोजयेत्पश्चाद्भक्तितः सत्यभाषणः ॥ ६३ ॥
पुत्रमित्रकलत्राद्यैर्बन्धुभिः सह वाग्यतः ।
कुर्वीत पारणां शिष्य नारायणपरायणः ॥ ६४ ॥
यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् ।
तस्य पुण्यफलं वक्ष्ये शृणुष्व सुसमाहितः ॥ ६५ ॥
वस्त्रं ध्वजस्य संबद्धं यावच्चलति वायुना ।
तावत्स्वपापजालानि नश्यंत्यत्र न संशयः ॥ ६६ ॥
महापातकयुक्तो वा युक्तश्चेत्सर्वपातकैः ।
ध्वजं विष्णुगृहे कृत्वा सर्वपापैः प्रमुच्यते ॥ ६७ ॥
यावद्दिनानि वसति ध्वजो हरिगृहोपरि ।
तावद्युगसहस्राणि हरेः सामीप्यमाप्नुयात् ॥ ६८ ॥
आरोपितं ध्वजं दृष्‍ट‍्वा येऽभिवंदंति धार्मिकाः ।
तेऽपि सद्यो विमुच्यंते ह्युपपातककोटिभिः ॥ ६९ ॥
आरोपितं ध्वजं विष्णगृहे धुन्वन्स्वकं पटम् ।
कर्तुः सर्वाणि पापानि धुनोति निमिषार्धतः ॥ ७० ॥
एवं शिष्य मया प्रोक्तं यथा पृष्टं त्वया मम ।
न्वजारोपणमाहात्म्यं सविधान मनोरमम् ॥ ७१ ॥
समागतां प्रतिपद ज्ञात्वा चैत्रसितां नृपैः ।
आरोपिता ध्वजाः सर्वैर्द्वितीयायां पृथक् पृथक् ॥ ७२ ॥
ज्ञात्वा रामं महाविष्णुं तस्यैवाध्वरमंडपे ।
कृत्वा चैकदिनं स्वस्ववासगेहेषु पूजनम् ॥ ७३ ॥
ध्वजस्य पूजनं गेहे नवरात्रं समाचरेत् ।
यथाशक्त्यनुसारं वा चैकरात्रमथापि वा ॥ ७४ ॥
यज्ञोत्सवदर्शनार्थं कृतमेकदिनं नृपैः ।
चकार राघ्वश्चापि पूर्वमेव ध्वजोत्सवम् ॥ ७५ ॥
माघमासे कृष्णपक्षे चतुर्दश्यां शिवाग्रतः ।
तदा ध्वजैर्महोच्चैस्तैः शुशुभे गगनांगणम् ॥ ७६ ॥
इदं चरित्रं परमं मनोहरं
    श्रीमदूध्वजागेपविधानसंज्ञितम् ।
पठंति शृण्वंति नराः सुपुण्यदं
    भवेच्च तेषां नियतं विचिन्तनम् ॥ ७७ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनंदरामायणे
वाल्मीकीये यागकांडे ध्वजारोपणव्रतं नाम सप्तमः सर्गः ॥ ७ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP