॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विवाहकाण्डम्

॥ तृतीयः सर्गः ॥
[ चम्पिकासुमतिस्वयंवरवर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


रामदास उवाच
अथान्यां सा सभाग्राच्च सुमतिश्चोत्तरस्थितान् ।
नृपानीशानदिग्भागात्सुनंदा धृतयाष्टका ॥ १ ॥
क्रमेण वर्णयामास शिबिकास्थां सुलोचनाम् ।
बाले शृणुष्व मे वाक्यं पश्यैनं त्वं नृपोत्तमम् ॥ २ ॥
अवस्तिस्थं चोग्रबाहुनामानं च ह्यनुत्तमम् ।
नानेन सदृशः कश्चित्पृथिव्यां वर्तते नृपः ॥ ३ ॥
वरयैनं नृपं माऽग्रे गच्छ त्वं गजगामिनि ।
अस्य त्वं महिषी भूत्वा क्षिप्रानद्याश्च सैकते ॥ ४ ॥
वस्त्रगेहस्थिताऽनेन सुखं क्रीडस्व भामिनि ।
अनुत्तमं चैति वाक्यं द्व्यर्थं सा सुमतिः पुरा ॥ ५ ॥
श्रुत्वा मैनं वरयेति सुनंदाया वचः पुनः ।
श्रुत्वा तां चोदयाभास सा तां नीत्वा नृपांतरम् ॥ ६ ॥
सुनन्दा सुमतिं प्राह पश्यैनं त्वं नृपं परम् ।
अंगनाथाह्वयं श्रेष्ठं विदर्भविषयस्थितम् ॥ ७ ॥
पूर्ववत्त्यज मा बाले वृणीष्वैनं नृपोत्तमम् ।
स्त्रीकामं स्वल्पवयसं भुजकेयूरराजितम् ॥ ८ ॥
अस्य त्वं महिषी भूत्वा पयोष्णीजलवीचिषु ।
सुखं कुरु जलक्रीडां नृपेणानेन भानिनि ॥ ९ ॥
एनं वृणीष्व मां चेति ह्यूपमात्रा सुचोदिता ।
अग्रे गन्तुं सुनन्दां सा चोदयामास सज्ञया ॥ १० ॥
ततोऽन्यं नृपतिं नीत्वा सुनंदा तां वचोऽब्रवीत् ।
पश्यैनं नृपति बाले देशे मागधसंज्ञके ॥ ११ ॥
राज्यं करोत्ययं श्रीमान्नाम्ना ख्यातः परंतपः ।
वरयेनं नृपं माऽग्रे गच्छान्यं पार्थिवोत्तमम् । १२ ॥
अस्य त्वं महिषी भूत्वा तप्त नीर प्रपूरिते ।
ब्रह्मतीर्थे सदा क्रीडां हेमन्ते भज भामिनि ॥ १३ ॥
मैनं नृपं वरयेति शिक्षिता सा सुनन्दया ।
चोदयामास तां वृद्धां सा तां निन्ये नृपांतरम् ॥ १४ ॥
सुनंदा बालिकामाह शृणुष्व मृगलोचने ।
पश्यैनं नृपतिं रम्यं द्राविडे विषये स्थितम् ॥ १५ ॥
कम्बुकंठाह्वयं श्रेष्ठं कांतिपुर्यां निवासिनम् ।
एनं नृपं वृणीष्वाद्य मा व्रजान्यं नृपोत्तमम् ॥ १६ ॥
काञ्चिपुर्यामनेन त्वं सर्वतीर्थमनोरमे ।
क्रीडां भजस्व विस्तीर्णे हेमकञ्जविराजिते ॥ १७ ॥
विष्णुं वरदराजाख्यं शिवमेकाम्बराह्वयम् ।
पूजयस्व सदाऽनेन कम्बुग्रीवनृपेण च ॥ १८ ॥
वृणीष्वैनं नृपं माऽद्य सामान्यनृपवत्त्यज ।
इति वृद्धावचः श्रत्वाऽग्रे तां गन्तुं प्रचोदयत् ॥ १९ ॥
सुनंदाऽन्यं नृपं नीत्वा सुमतिं वाक्यमब्रवीत् ।
पश्यैनं नृपतिं मुग्धे मत्तमातङ्‌गगामिनि ॥ २० ॥
कर्णाटविषयस्थं त्वं विजयं पार्थिवोत्तमम् ।
कमलास्यं कञ्जहस्तं कमलांघ्रिणमुज्ज्ववलम् ॥ २१ ॥
स्मितास्यं कंजनयनं विजयाख्यपुरस्थितम् ।
शृणुष्व वचनं मेऽद्य वृणीष्वैनं नृपोत्तमम् ॥ २२ ॥
अस्य त्वं महिषी भृत्वा वने कृष्णानदीजले ।
सुखं नृपेण क्रीडस्व मद्वाक्यं शृणु मा व्रज ॥ २३ ॥
मद्वाक्यं शृणु मेत्युक्ता श्रुत्वा वाक्यमनुत्तमम् ।
व्रजेति सूचिता बाला चोदयामास तां पुनः ॥ २४ ॥
एवं नानानृपाणां च वर्णनानि पृथक् पृथक् ।
स्तुतिरूपनिषेधीनि श्रुत्वा द्व्यर्थानि बालिका ॥ २५ ॥
न बबंध मनः कस्मिन्नृपतौ तेषु सा तदा ।
ततस्त। शिबिकासंस्थां सुनंदा च शनैः क्रमात् ॥ २६ ॥
अतिक्रम्य राममंत्रिबालकानपि पूर्ववत् ।
यूपकेतुं शिशुं नीत्वा बालिकां वाक्यमब्रवीत् ॥ २७ ॥
शत्रुघ्नतनयं बालं यूपकेतुं मनोहरम् ।
पितृव्यं रामतनयद्वयवाक्यानुवर्तिनम् ॥ २८ ॥
एनं पश्य वालिके त्वं सावधानमना भव ।
वरयैनं यूपकेतुं माऽग्रे गच्छ नृपात्मजे ॥ २९ ॥
मैनं वरय गच्छाग्रे वृद्धया सेति चोदिता ।
सुनन्दा चोदयामासाग्रे गन्तुं सुमतिः पुनः ॥ ३० ॥
सुबाहुं पुष्करं तक्षमेवं सा सुमतिः शनैः ।
चित्रकेतुमङ्‌गदं च त्यक्त्वा सा त लवं ययौ ॥ ३१ ॥
लवार्पितेक्षणां बालां सुनन्दा वाक्यमब्रवीत् ।
पश्यैनं बालिके बालं लवं श्रीराघवात्मजम् ॥ ३२ ॥
स्त्रीकामं स्वल्पवयसं सीतालालितमुत्तमम् ।
वाल्मीकिकृपया लब्धविद्यं रम्यं कुशानुजम् ॥ ३३ ॥
वृणीष्वैनं सुखेनैव कण्ठेऽस्य मालिकां कुरु ।
कुशांके चंपिकेयं ते स्वसा यद्वत्स्थिताऽद्य हि ॥ ३४ ॥
तथा त्वमपि भो मुग्धे लवांके संस्थिता भव ।
इति तस्या वचः श्रुत्वा सुनन्दायाः स्मितानना ॥ ३५ ॥
लवस्य कण्ठे हर्षेण लज्जयाऽवनतानना ।
सुमतिर्निजबाहुभ्यामर्पयामास मालिकाम् ॥ ३६ ॥
तदा निनेदुर्वाद्यानि जगुस्ते गायकास्तदा ।
ननृतुर्वारनार्यश्च तुष्टुवुर्बन्दिमागधाः ॥ ३७ ॥
भूरिकीर्तिर्नृपस्तुष्टो लवांके सुमतिं तदा ।
शीघ्रं निवेशयामास परिपूर्णमनोरथः ॥ ३८ ॥
तोषमाप रघुश्रेष्ठः सीता प्रासादसंस्थिता ।
जालरध्रैः सपत्नीकं लवं दृष्ट्‍वा तुतोष सा ॥ ३९ ॥
ततः सर्वान्नृपान् पूज्य भूरिकीर्तिनृपोत्तमः ।
प्रार्थयामास विनयवचनैस्तत्पुरतः स्थितः ॥ ४० ॥
विवाहकौतुकं दृष्ट्‍वा भवेद्‌भिर्गम्यतामिति ।
तथेति ते नृपाः प्रोचुर्ययुर्वासस्थलानि हि ॥ ४१ ॥
रामाग्रे संगरं कर्तुमसमर्था गतश्रियः ।
म्लानानना गतोत्साहाः कामबाणप्रपीडिताः ॥ ४२ ॥
रामोऽपि बन्धुभिर्बालैर्ययौ वासस्थल मुदा ।
अथापरे दिने राम भूरिकीर्तिः समाययौ ॥ ४३ ॥
पुरोधसोपविष्टः सन्नत्वा रामं वचोऽब्रवीत् ।
द्रष्टव्यौ लग्नदिवसः सुमुहूर्तः सुखावहः ॥ ४४ ॥
मामंगीकुरु रामाद्य त्वत्पादाश्रयकामुकम् ।
उभयोस्त्वं मण्डपयोः कार्याण्याज्ञापय प्रभो ॥ ४५ ॥
तथेति गघवश्चोक्त्वा वसिष्ठं चोदयत्तदा ।
सोऽपि रामाज्ञया ज्योतिःशास्त्रज्ञः परिवेष्टितः ॥ ४६ ॥
मुहूर्तं कथयामास पञ्चमेऽहनि राघवम् ।
ततस्तुष्टो भूरिकीर्तिर्गणेशं लग्नपत्रिकाम् ॥ ४७ ॥
सम्पूज्य गणकान्सर्वान्पण्डितान्वैदिकादिकान् ।
बंधुपुत्रादिभिः सर्वैः श्रीरामं पूजयत्तदा ॥ ४८ ॥
नत्वा रामं गृहं गत्वा चकार मण्डपादिकम् ।
रामाज्ञया लक्ष्मणोऽपि चकार मण्डपादिकम् ॥ ४९ ॥
तदा वटपुरी रम्या पताकाध्वजतोरणैः ।
पुरुषोत्तमराजधानी रेजे सागररोधसि ॥ ५० ॥
ततो मुहुर्तसमये वधूच्छिष्टां निशां कुशम् ।
लवं च लिप्य तैलाक्तं सीताद्या मातरस्तदा ॥ ५१ ॥
करकुम्भाँश्चतुर्दिक्षु जलपूर्णान्सदीपकान् ।
संस्थाप्य स्नापयामासुर्महावाद्यपुरःसरम् ॥ ५२ ॥
तैलाभ्यंगं निशायुक्तं सीताद्याः स्वीयबालकैः ।
सहैव चक्रुरानन्दपूरिता रुक्मभूषिताः ॥ ५३ ॥
अभ्यंगपूर्वकं सस्नुस्ते रामाद्यास्तदा मुदा ।
समाहूय ततः सीतां मुक्तानां स्यस्तिकोपरि ॥ ५४ ॥
वसिष्ठो मुनिभिर्युक्तः शिशुभ्यां राघवेण हि ।
गणपार्चां कारयित्वा पुण्याहादित्रयं क्रमात् ॥ ५५ ॥
देशाचारान्कुलाचारानिष्टदेवीं प्रपूज्य च ।
करयामास विधिवत्प्रतिष्ठां देवकस्य च ॥ ५६ ॥
तदा जनकनंदिन्या रजनीकुंकुमान्विते ।
विरेजतुः सस्त्रीकदम्बस्थितायाः पदपंकजे ॥ ५७ ॥
सीताद्यास्ताः स्त्रियः सर्वा हुरित्पीतारुणैर्वरैः ।
हेमतंत्वकितैर्वस्त्रैर्विरेजुर्मंडपाङ्‌गणे ॥ ५८ ॥
ततः समाययुः सर्वे मुदा तत्र मुनीश्वराः ।
स्वयंवरोत्सवे पूर्वं नागता ये सहस्रशः ॥ ५९ ॥
श्रुत्वोसाहं विवाहस्य कुशस्य च लवस्य ते ।
तान्सर्वान् रामचन्द्रोऽपि वस्त्राभरणधेनुभिः ॥ ६० ॥
पूजयामास विधिवत् सीतया लक्ष्मणादिभिः ।
भूरिकीर्तिर्नृपैर्युक्तो महावाद्यपुरःसरम् ॥ ६१ ॥
स्वय कुशलवौ गेहं नेतुकामः समाययौ ।
मण्डपे पूजयामास वीरो राज्ञः मुतस्तदा ॥ ६२ ॥
कुशं तथा लवं चापि कनीयान् भूरिकीर्तिजः ।
हेमतंतूद्‌भवैदिव्यैर्वस्त्रैराभरणादिभिः ॥ ६३ ॥
तदा विरेजतुर्बालौ तथा तेऽप्यगदादयः ।
ततम्तौ वारणेन्द्रस्थौ दिव्यचामरवीजितौ ॥ ६ ४ ॥
पश्यतौ नर्तनान्यग्रे वारस्त्रीणां स्मिताननौ ।
शृण्वन्तो वाद्यघोषांश्च वर्णितौ मागधादिभिः ॥ ६५ ॥
सीतादिभिर्वारणीषु संस्थिताभिस्तथा पथि ।
प्रासादोपरि संस्थाभिर्नारीभिः पुष्पवृष्टिभिः ॥ ६६ ॥
हरिद्रापीतधान्यैश्च मांगल्यैर्मौक्तिकैरपि ।
लाजाभिहेर्मपुष्पैश्च वर्षितावीक्षितौ मुहुः ॥ ६७ ॥
जग्मतुर्बालकावेवं पश्यन्तौ कौतुकानि हि ।
ददर्शतुर्वाटिकाश्च पुष्पैर्वृष्टिविनिर्मिताः ॥ ६८ ॥
तथा कृत्रिमवृक्षांश्च पताकाश्च ध्वजांस्तथा ।
तथौषधिभवान्वृक्षान् वह्निस्पर्शविदीपितान् ॥ ६९ ॥
शकटस्थानपधीभिः पूरितान्कृत्रिमान् जनान् ।
तधा व्याघ्रादिकान्हिस्रानोपधीभिः प्रपूरितान् ॥ ७० ॥
तडित्समानान् गगने प्राकारानौषधीभवान् ।
केकिचक्रोपमादींश्च चन्द्रज्योत्स्नास्तु कृत्रिमाः ॥ ७१ ॥
एवं ददर्शतुर्नानाकौतुकानि नृपात्मजौ ।
ततस्तौ भूरिकीर्तेश्च गत्वा मण्डपमुत्तमम् ॥ ।७२ ॥
नानामहोत्सवैर्बालौ चामरच्छत्रमण्डितौ ।
अवरुह्य गजेन्द्राभ्यां तस्थतुर्मण्डपांगणे ॥ ७३ ॥
मधुपर्कविधानानि विष्टरादीनि वै क्रमात् ।
तयोर्गुरू चक्रतुस्तौ ब्राह्मणैः परिवेष्टितौ ॥ ७४ ॥
ततो वध्वोः पूजनं च सीतया रघुनन्दनः ।
चकार गुरुणा युक्तस्तदा स मण्डपांगणे ॥ ७५ ॥
ततो लग्नमुहूर्ते तं कुशं चम्पिकया गुरुः ।
तथा लवं सुमत्यापि पृथग्वेदिकयोस्तदा ॥ ७६ ॥
कृत्वा सुसंस्थितौ चोभौ दंपत्योरन्तरै पटौ ।
धृत्वोभयोः पृथक् चित्रौ नूतनो हेमतंतुजौ ॥ ७७ ॥
नानामंगलघोषांश्च मुनिभिश्चक्रतुर्मुदा ।
आसन्सर्वे जनास्तूष्णीं शृण्वतो मंगलस्वनान् ॥ ७८ ॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे वाल्मीकीये
विवाहकाण्डे चम्पिकासुमतिस्वयंवरवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP