॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
सारकाण्डम्
॥ द्वितीयः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीशिव उवाच - एतस्मिन् अंतरे भूमिः दशास्यादि प्रपीडिता । ब्रह्मणा प्रार्थयामास विष्णुं सोऽपि तदाऽब्रवीत् ॥ १ ॥ भूम्यां अवतरिष्यामि भवंतु कपयः सुराः । गंधर्वी दुंदुभीनाम्नी भूम्याः कार्यार्थ सिद्धये ॥ २ ॥ मंथराऽग्रे भवत्वद्धा राज्यविघार्थसिद्धये । पश्चात् पुनर्द्वापरांते कुब्जात्वं कंसमंदिरे ॥ ३ ॥ अथ विष्णुः चैत्रमासि नवम्यां मधगे रवौ । सूतिकागृहमध्येऽथ कौसल्यायां पुरोऽभवत् । चतुर्भुजः पीतवासा मेघश्यामो महाद्युतिः ॥ ४ ॥ साऽपि दृष्ट्वा बालभावं प्रार्थयामास तं हरिम् । ततो जातस्तदा बालः क्षणात् रुक्मविभूषितः ॥ ५ ॥ हेमवर्णः कंजनेत्रः चंद्रास्यस्तपनप्रभः । ततः सुमित्रापुरतः शेषोऽभूत् बालरूपधृक् ॥ ६ ॥ आविर्भूतौ द्वौ यमलौ कैकेय्याः शंखचक्रके । एवं ते जनिता बालाः चत्वारः समये शुभे ॥ ७ ॥ देवदुंदुभयओ नेदुः पुष्पवृष्टिः शुभाऽपतत् । जातकर्मादि संस्कारान् गुरुणा नृपतिस्तदा ॥ ८ ॥ कारयामास विधिवत् अनृतुर्वारयोषितः । ज्येष्ठं रामं तु कौसल्या तनयं प्राह वै गुरुः ॥ ९ ॥ सुमित्रातनयं नाम्ना लक्ष्मणं गुरुरब्रवीत् । ततो भरतशत्रुघ नामनी प्राह वै गुरुः ॥ १० ॥ रमणात् राम एवासौ लक्षणैर्लक्ष्मणस्त्विति । भरणात् भरतश्चेति शत्रुघ्नः शत्रुतर्जनात् ॥ ११ ॥ अथ ववृधिरे सर्वे लक्ष्मणो राघवेण हि । शत्रुघ्नो भरतेनापि चकार क्रीडनादिकम् ॥ १२ ॥ रुक्मकंकणर्मजीर नूपुरैस्ते विभूषिताः । केयूर रशनाहार कुण्डलैः अतिशोभिताः ॥ १३ ॥ श्रृंखलाबद्धरुक्मादि निर्मितेषु वरेषु च । दोलकेषु च ते सर्वे दोलिता रेजिरे सुखम् ॥ १४ ॥ भाले स्वर्णमयाश्वत्थ पर्णान्यतिमहांति च । मुक्ताफलप्रलंबीनि शोभयंति स्म बालकान् ॥ १५ ॥ कंठे रत्नमणिव्रात मध्यद्वीपिनखांचिताः । कर्णयोः स्वर्णसंपन्न रत्नार्जुनसुतालकाः ॥ १६ ॥ सिंजानमणिमंजीर कटिसूत्रांगदैर्युताः । स्मितवक्त्राल्पदशना इंद्रनीलमणिप्रभा ॥ १७ ॥ अंगने रिंगमाणश्च संस्कारैः संस्कृताः शुभाः । ते तातं रंजयामासुः मातृँश्चापि विशेषतः ॥ १८ ॥ कौसल्या नृपतिश्चापि नानावस्त्रैः सुभूषणैः । शोभयामासुतुर्बालान् नानाव्याघ्रनखादिभिः ॥ १९ ॥ रामः स्वपितरं दृष्ट्वा भोजनस्थ त्वरान्वितः । दुद्राव कवलं पात्रात् गृहित्वा स पुनर्बहिः ॥ २० ॥ कौसल्या बालकं धर्तुं दुद्राव नृपनोदिता । न तस्याः करगश्चासीद् योग्गिनामप्यगोचरः ॥ २१ ॥ परिवृत्य स्वयं रामः करेण मृदुलेन च । कौसल्यास्ये नृपास्येऽपि कवलौ अकरोन्मुदा ॥ २२ ॥ एवं नानाकौतुकैश्च रंजयामास राघवः । नानाशिशु कीडनकैः चेष्टितैः मुग्धभाषितैः ॥ २३ ॥ बालकृत्रिमयुद्धैश्च गमनैर्मुखचुंबनैः । पितरौ निजचारित्रैः वाहन आरोहणादिभिः ॥ २४ ॥ ततस्ते बालकाः सर्वे वस्त्रालंकारभूषिताः । सभायां पितरं नत्वा तस्थुः सिंहासनोपरि ॥ २५ ॥ अत्र पित्रोपनीतास्ते गुरुणा मुनिभिर्मुदा । गर्भात्संवत्सरे षष्ठे जन्मतः पंचमे समे ॥ २६ ॥ ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पंचमे । राज्ञो बालार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे ॥ २७ ॥ विद्वद्भिश्चोपनयनं एवं शास्त्रेषु निर्णयः । गुरोराश्यात् सुमुहुर्ते वेदान् सांगांश्चतुर्विधान् ॥ २८ ॥ चक्रुर्मुखोद्गतानेव बालाः शास्त्रादिकान्यपि । ब्रह्मचर्यसमाप्तौ ते तीर्थानि जग्मुरादरात् ॥ २९ ॥ सेनया मंत्रिसहिता वसिष्ठेन समन्विताः । षण्मासैः पुनरागत्य साकेतं विविशुर्मुदा ॥ ३० ॥ एवं ते मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः । पितरं रंजयामासु पौरान् जानपदानपि ॥ ३१ ॥ इति श्री शतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे द्वितीयः सर्गः ॥ २ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |