॥ अद्‌भुत रामायणम् ॥

विंशतितमः

संकुलयुद्धवर्णनम् -

धनूंषि च विधुन्वानस्ततो वैश्रवणानुजः ।
कोऽयं किमर्थमायात इति चिन्तापरोऽभवत् ॥ १ ॥
ततो गगनसम्भूता वाणी तत्र समुद्यत ।
भो रावण महावीर्य रामोऽयं समुपागतः ॥ २ ॥
राघवोऽयमयोध्याया राजा धर्मस्वरूपधृक् ।
लङ्कायां निहतो येन दाराकर्षी तवानुजः ॥ ३ ॥
त्वद्वधार्थमिहायातो विभीषण वसुप्रदः ।
भ्रातृभिर्वानरैर्ऋक्षै राक्षसैर्मानुषैर्युतः ॥ ४ ॥
श्रुत्वा ह्यमानुषं वाक्यं रावणो लोकरावणः ।
क्रोधमाहारयामास द्विगुणं मुनिपुङ्गव ॥ ५ ॥
हन्यतां वध्यतामेष मानुषो रिपुसंज्ञितः ।
मम विश्वजितः साक्षाद्‌रणाय समुपस्थितः ॥ ६ ॥
इत्युक्त्वा बाणजालाति चक्रपर्वत तोमरान् ।
चिक्षेप सहसा रक्षः पुष्पकोपरि सुव्रतः ॥ ७ ॥
राक्षसी सा चमूर्घोरा वानरानृक्षमानुषान् ।
चखाद कांश्चिदपरान्पोथयामास दर्पितान् ॥ ८ ॥
सा च शाखामृगीसेना राघवस्य च मानुषी ।
रावणस्यानुगान्वीराञ्जघान बाणपर्वतैः ॥ ९ ॥
तेऽन्योन्यवधमिच्छन्तो युयुधुः सैनिकोत्तमाः ।
पेतुर्मम्लुश्च मुमुहू राक्षसा वानरा नराः ॥ १० ॥
ततो रामो महाबाहुर्भरतो लक्ष्मणस्तथा ।
शत्रुघ्नो हनुमान्वीरः सुग्रीवो जाम्बवांस्तथा ॥ ११ ॥
अन्ये च नलनीलाद्या विभीषणपुरोगमाः ।
युयुधुस्ते महाघोरं महाघोरे रणाजिरे ॥ १२ ॥
निर्जग्मुश्च विनेदुश्च चिक्रीडुश्चैव राक्षसाः ।
जहृषुश्च महात्मानः संग्रामेष्वनिवर्तिनः ॥ १३ ॥
उत्कृष्टा स्फोटितैर्नादैश्चचालेव च मेदिनी ।
रक्षसां सिंहनादैश्च परिपूर्णं नभः स्थलम् ॥ १४ ॥
ते प्रायुध्यंत मुदिता राक्षसेन्द्रा महाबलाः ।
प्रययुर्वानरानीकं समुद्यतशिलायुधम् ॥ १५ ॥
युयोध राक्षसं सैन्यं नरराक्षसवानरैः ।
हस्त्यश्वरथसम्बाधं किंकिणीशतनादितम् ॥ १६ ॥
नीलजीमूतसङ्काशैः समुद्यतशिलायुधैः ।
दीप्तानल रविप्रख्येनैऋतैः सर्वतो वृतम् ॥ १७ ॥
तद्वीक्ष्य राक्षसबलं संरब्धाश्च प्लवङ्गमाः ।
क्रुद्धं तद्‌राक्षसं सैन्यं जघ्नुर्द्रुमशिलायुधैः ॥ १८ ॥
ते पादपशिलाशैलैस्तां चक्रुर्वृष्टिमुत्तमाम् ।
वृक्षौघैर्वज्रसङ्काशैर्हरयो भीमविक्रमाः ॥ १९ ॥
शिखरैः शिखराभांस्ते यातुधानानमर्दयन् ।
निर्जघ्नुःसमरे क्रुद्धा हरयो राक्षसर्षभान् ॥ २० ॥
केचिद्‌रथगतान्वीरान्गजवाजिस्थितानपि ।
निर्जघ्नुः सहसाऽऽप्लुत्य यातुधानान्प्लवङ्गमाः ॥ २१ ॥
शैलशृङ्गनिभास्ते तु मुष्टिनिष्क्रान्त लोचनाः ।
वेपु पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः ॥ २२ ॥
तत: शूलैश्च वज्रैश्च विमुक्तैर्हरिपुङ्गवैः ।
मुहूर्तेनावृता भूमिरभवच्छोणितप्लुता ॥ २३ ॥
विकीर्णैः पर्वताग्रैश्च रक्षोभिरुपमर्द्दितैः ।
आक्षिप्ता क्षिप्यमाणाश्च भग्नशेषाश्च वानरा: ॥ २४ ॥
रथेन रथिनं चापि राक्षसं राक्षसेन च ।
हयेन च हयं केचित्पिपिषुर्धरणी तले ॥ २५ ॥
वानरान्वानरैरेव जघ्नुर्घोरा हि राक्षसाः ।
राक्षसान् राक्षसैरेव पिपिषुर्वानरा युधि ॥ २६ ॥
आक्षिप्य च शिला जघ्नू राक्षसा वानरांस्तथा ।
तेषामाच्छिद्य शस्त्राणि जघ्नुस्तानपि वानराः ॥ २७ ॥
निर्जघ्नुः शैलशिखरैर्विभिन्नाश्च परस्परम् ।
सिंहनादं विनेदुश्च चणे वानरराक्षसाः ॥ २८ ॥
छिन्नचर्मतनुत्राणा राक्षसा वानरैः कृताः ।
सुस्राव रुधिरं तेभ्यः स्त्रवतः पर्वतादिव ॥ २९ ॥
तस्मिंस्तदा संयति सम्प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।
सुहृष्यमाणेषु च वानरेषु निपात्यमानेषु च राक्षसेषु ॥ ३० ॥
प्रभज्य मानेषु महाबलेपु महर्षयो भूतगणाश्च नेदुः ।
तेनापि सर्वे हरयः प्रहृष्टा विनेदुराक्ष्वेडितसिंहनादैः ॥ ३१ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे संकुलयुद्धवर्णनं नाम वंशतितमः सर्गः ॥ २० ॥

GO TOP