॥ अद्‌भुत रामायणम् ॥

त्रयोदशः सर्गः

भक्तियोगकथनम् -

वक्ष्ये समाहितमनाः शृणुष्व पवनात्मज ।
येनेदं लीयते रूपं येनेदं सम्प्रवर्तते ॥ १ ॥
नाहं तपोभिर्विविधैर्न दानेन नच चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २ ॥
अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोके न जानन्ति प्लवङ्गम ॥ ३ ॥
यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः ।
सोऽहं धाता विधाता च लोकेऽस्मिन्विश्वतोमुखः ॥ ४ ॥
न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः ।
ब्राह्मणा मनवः शक्रा ये चान्ये प्रथितौजसः ॥ ५ ॥
गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्नौ ब्राह्मणा वैदिकैर्मखैः ॥ ६ ॥
सर्वेलोका नमस्यन्ति ब्रह्मलोके पितामहम् ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ७ ॥
अहं हि सर्वयज्ञानां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्तुतः ॥ ८ ॥
मां पश्यन्तीह विद्वान्सो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्ता मामुपासते ॥ ९ ॥
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत्स्थानमानन्दं परमं पदम् ॥ १० ॥
अन्येऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि सङ्गताः ॥ ११ ॥
न मद्‌भक्ता विनश्यन्ते मद्‌भक्ता वीतकल्मषाः ।
आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ १२ ॥
यो वा निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि तं पूजयेद्‌भक्त्या स पूजयति मां सदा ॥ १३ ॥
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ १४ ॥
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विधाय दत्तवान्वेदानशेषानास्यनिःसृतान् ॥ १५ ॥
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकानां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ १६ ॥
अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७ ॥
अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः ।
मायावी मामिका शक्तिर्माया लोकविमोहिनी ॥ १८ ॥
ममैव च पराशक्तिर्या सा विद्येति गीयते ।
नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ १९ ॥
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।
आधारभूतः सर्वेषां निधानममृतस्य च ॥ २० ॥
एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ २१ ॥
तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालात्मा रुद्रकपिणी ॥ २२ ॥
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ।
सर्वेषामेव भक्तानामेष प्रियतरो मम ॥ २३ ॥
यो विज्ञानेन मां नित्यमाराधयति नान्यथा
अन्ये च ये त्रयो भक्ता मदाराधनकांक्षिणः ॥ २४ ॥
तेऽपि मां प्राप्नुवन्त्येव नावर्तते च वै पुनः ।
मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत् ॥ २५ ॥
नाहं प्रेरयिता कीश परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ २६ ॥
पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ।
करोति काले भगवान्महायोगेश्वरः स्वयम् ॥ २७ ॥
योगं सम्प्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।
योगेश्वरोऽसौ भगवान्महादेवो महाप्रभुः ॥ २८ ॥
महत्वात्सर्वसत्त्वानां वरत्वात्परमेश्वरः ।
प्रोच्यते भगवान्ब्रह्मा महान्ब्रह्ममयो यतः ॥ २९ ॥
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ३० ॥
सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
तिष्ठामि सततं योगी यस्तद्वेद स वेदवित् ॥ ३१ ॥
इति गुह्यतमं ज्ञानं सर्ववेदेषु निश्चितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ३२ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे भक्तियोगो नाम त्रयोदशः सर्गः ॥ १३ ॥

GO TOP