॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
सारकाण्डम्
॥ एकादशः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
अथ ते राक्षसाः सर्वे द्वारेभ्यः क्रोधमूर्च्छिताः । निर्गत्य भिंदिपालैश्च खड्गैः शूलैः परश्वधैः ॥ १ ॥ कुन्तैः शरैः शतघ्नीभिः संक्रमैः शक्तिभिर्दृढम् । निजघ्नुर्वानरानीकं महाकाया महाबलाः ॥ २ ॥ राक्षसांश्च तदा जघ्नुः वानरा जितकाशिनः । वृक्षैर्ग्रावैः पर्वतैश्च मुष्टिभिः करताडनैः ॥ ३ ॥ ते हयैश्च गजैश्चैव रथैः कांचनसन्निभैः । रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश ॥ ४ ॥ एवं परस्परं चक्रुः युद्धं वानरराक्षसाः । नलो जघान धूम्राक्षं वज्रदंष्टं स मारुतिः ॥ ५ ॥ नरांतकं स तारेयं सुषेणस्तं महोदरम् । चतुर्थांशावशेषेण निहतं राक्षसं बलम् ॥ ६ ॥ तदांगदाद्याश्चत्वारो महावाद्यमहोत्सवैः । प्रणेमू राममागत्य जयघोषप्रपूरिताः ॥ ७ ॥ स्वसैन्यं निहतं दृष्ट्वा मेघनादो ययौ तदा । सर्पास्त्राद्व्याकुलं रामं चकार बंधुवानरैः ॥ ८ ॥ रामः सस्मार तार्क्ष्यं स तार्क्ष्यः सार्पं न्यवारयत् । ततः स्वस्थो ब्रह्मवरात् अंतर्धानं गतोऽसुरः ॥ ९ ॥ सर्वास्त्रकुशली व्योम्नि ब्रह्मास्त्रेण समन्ततः । ववर्ष शरजालानि ब्रह्मास्त्रं मानयंस्तदा ॥ १० ॥ क्षणं तूष्णीमुवासाथ रामः स बंधुवानरैः । ततः स्वस्थो रघुश्रेष्ठो ददर्श पतितं बलम् ॥ ११ ॥ मूर्छागतं ब्रह्मपाशैः तदा लक्ष्मणमब्रवीत् । चापमानय सौमित्रे ब्रह्मास्त्रेणासुरान् क्षणात् ॥ १२ ॥ भस्मीकरोनितत् श्रुत्वा लंकां इंद्रजय्यो ययौ । विलपतौ ससान्निद्ये यत्र वायुजराक्षसौ ॥ १३ ॥ वरदानात् ब्रह्मणस्तौ दृष्ट्वा रामः स जीवितौ । तौ उवाच रघुश्रेष्ठो युवाभ्यां बांधवान रणे ॥ १४ ॥ गत्वाऽस्ति जीवितश्चेद्धि वाच्यतर्हि गिरा मम । उपायं चिंतयस्वाद्य वानराणां सुजीवने ॥ १५ ॥ तद् रामवचनंश्रुत्वा तौ विभीषणमारुती । निशीथे तौ विचिन्वंतौ जांबवंतं प्रजग्मतुः ॥ १६ ॥ उल्मूकहस्तौ तं द्ह्ष्ट्वा प्रोचतू राघवेरितम् । जांबवानपि तां राम-गिरं श्रुत्वाऽतिहर्षितः ॥ १७ ॥ निमीलिताक्षः प्रोवाच कौ युवां वायुजो रणे । चेदस्ति जीवितस्तर्हि जीवयिष्यति वानरान् ॥ १८ ॥ तदा विभीषणः प्राह त्वया त्यक्त्वांगदादिकान् । पृच्छ्यतेऽद्य कथं वायु-पुत्रस्य परमादरात् ॥ १९ ॥ तदा विभीषणं प्राह जांबवान् ऋक्षसत्तमः । रुद्रावतारः संजज्ञे वायुपुत्रः प्रतापवान् ॥ २० ॥ न ज्ञेयः अपिरेवात्र तस्मात्त त्वं विलोकय । तदाऽब्रवीत् जांबवम्तं नत्वा स वायुनंदनः ॥ २१ ॥ यं त्वं पृच्छसि सोऽद्याहं जीवितोऽस्मद्य मारुतिः । विभीषणो द्वितीयोऽयं यस्त्वया परिभाषते ॥ २२ ॥ तदा स जांबवांस्तुष्टो मारुतिं वाक्यमब्रवीत् । गत्वा क्षीरनिधिं वेगात् द्रोणाद्रिं त्वं समानय ॥ २३ ॥ तथेत्युक्त्वा त्वरन् गत्वा गंधर्वैर्गोपितं नगम् । कामधेन्वा स्वीयधर्म नेत्रलेपात् प्रदर्शितम् ॥ २४ ॥ उत्पाट्य पुष्पवत् भूत्वा आनयामास कपिर्जवात् । पर्वतोद्भववल्लीनां अवघ्रायामृतोपमम् ॥ २५ ॥ सुगंधं जीवयिष्यंति राक्षसाश्चेति शंकया । निहतान् राक्षसान् सर्वान् तदा तार्क्ष्यविभीषणौ ॥ २६ ॥ चिक्षिपतुः सागरे तान् राघवस्याज्ञया क्षणात् । तदानीं तं गिरिं दृष्ट्वा सुषेणः स भिषग्वरः ॥ २७ ॥ पर्वतोद्भववल्लीभिः जीवयामास तान कपीन् । ततः शाखामृगाः सर्वे समुत्तस्थुर्विजृम्भिताः ॥ २८ ॥ द्रोणाचलं यथास्थाने स्थापयामास मारुतिः । कुवेरार्पितदिव्यांभः प्रमृज्य नयनेषु च ॥ २९ ॥ अंतर्हितानां रामाद्या दर्शनं प्रापुराहवे । ततः संप्रेषयामास रावणः स्वीयमंत्रिणः ॥ ३० ॥ अतिनादः प्रहस्तश्च महानाददरीमुखां । देवशत्रुर्निकुंभश्च देवांतकनरान्तकौ ॥ ३१ ॥ सारणाद्या बलैरन्ये युयुधुर्वानरैः सह । तान् सर्वान् अंगदाद्यास्ते हत्वा तस्थुर्विगर्जिताः ॥ ३२ ॥ तदा कुंभनिकुंभौ द्वौ कुंभकर्णसुतोत्तमौ । रावणः प्रेषयामास युद्धार्थं तौ प्रजग्मतुः ॥ ३३ ॥ तदा कुंभ जम्बवता निहतश्च रणाजिरे । अंगदेन निकुंभश्च हतः श्रुत्वा दशाननः ॥ ३४ ॥ अतिकायं स्वीयपुत्रं प्रेषयामास संगरम् । अतिकायेन सौमित्रिः कृत्वा संगरमुल्बणम् ॥ ३५ ॥ शरेण पातयामास लंकायां तत् शिरो महत् । तदा ययौ रावणः स स्वयं युद्धाय वेगतः ॥ ३६ ॥ सुहृन्मित्रजनैर्युक्तो वेष्टितः पुरवासिभिः । रणे विभीषणं दृष्त्वा कोपाच्छक्तिं मुमोच सः ॥ ३७ ॥ पृष्ठे विभीषण कृत्वा ययावग्रे स लक्ष्मणः । हृदि संताडितः शक्त्या पपात भुवि लक्ष्मण ॥ ३८ ॥ लक्ष्मणे नगरीं नेतुं तं ययौ स दशाननः । न चचाल भुजस्तस्य सौमित्रेः शेषरूपिणः ॥ ३९ ॥ तं नेतुकामं हनुमान् हृदि मुष्ट्या व्यताडयत् । तेन मुष्टिप्रहारेण पपात रुधिरं वमन् ॥ ४० ॥ आनयामास सौमित्रिं मारुतिः कपिवाहिनीम् । रथारूप्ढो रावणोऽपि विव्याध मारुतिं शरैः ॥ ४१ ॥ ततं क्रुद्धेन रामेण बाणेन हृदि तादितः । साश्वध्वजं रथं सूतः राघवो धनुरोजसा ॥ ४२ ॥ छत्रं पताकां तरसा चिच्छेद शितसायकैः । अर्धचंद्रेण चिच्छेद तत्किरीटं रविप्रभम् ॥ ४३ ॥ ततस्तं व्याकुलं दृष्ट्वा रामो रावणमब्रवीत् । गच्छाद्य लंकां आश्वस्तः श्वस्त्वं पश्य बलं मम ॥ ४४ ॥ ततो लज्जानतशिरा ययौ लंकां दशाननः । रामोऽपिलक्ष्मण दृष्ट्वा मूर्च्छितं प्राह मारुतिम् ॥ ४४५ ॥ द्रोणाचलं समानीयजीवयेनं तथा कपीन् । तथेति स ययौ वगात् तज्ज्ञात्वा स दशाननः ॥ ४६ ॥ प्रार्थयित्वा कालनेमिं तद्विघ्नार्थमदोदयत् । स गत्वा हिमवत्पार्श्वे तपोवनमकल्पयत् ॥ ४७ ॥ तत्र शिष्यैः परिवृतो मुनिवेषधरः स्थितः । मारुतिश्चाश्रमं दृष्ट्वा जलं पातुं विवेश तम् ॥ ४८ ॥ मुनिना मानितश्चापि जलकुंभः प्रदर्शितः । मारुतिः प्राह तृप्तिर्मे नैवानेन भवियति ॥ ४९ ॥ तं पुनः प्राह स मुनिः तटाकं निकटस्थितम् । गच्छाक्षिणी पिधाय त्वं जलं पिब यथासुखम् ॥ ५० ॥ आगच्छाशु पुनश्चात्र सुखं तिष्ठ ममान्तिकम् । जानामि ज्ञानदृष्ट्याऽहं लक्ष्मणश्चोत्थितस्त्विति ॥ ५१ ॥ गृहाण मंत्रान् मत्तस्त्वं यैश्च पश्यसि तं गिरिम् । गोपितं त्वद्य गंधर्वैः यं तं त्वं नेतुमिच्छसि ॥ ५२ ॥ प्लवंगानां जीवनार्थं लंकायां वेगतः कपे । मत्तस्त्वं लब्धविद्यः सन् ददस्व गुरुदक्षिणाम् ॥ ५३ ॥ तथेति मारुतित्गत्वा कासारं अपिबज्जलम् । पिधाय नेत्रे तावत् तं अग्रसन् मकरी तदा ॥ ५४ ॥ सोऽपि तां दारयामास धृत्वास्ये सा ममार ह । ततोऽन्तरिक्षे सा प्राह दिव्यरूपा तु मारुतिम् ॥ ५५ ॥ पुराऽहं मुनिना स्पृश्या प्रार्थिता न रतिर्मया । दत्ता शप्ताऽस्मि त्वत्तो मे निष्कृतिस्तेन कीर्तिता ॥ ५६ ॥ धान्यमालीति विख्याताऽऽप्सराः पूर्वं भवांतरे । आश्रमे यस्त्वया दृष्टः कालनेमिर्महासुरः ॥ ५७ ॥ रावणप्रेषितो मार्गे स्थितस्तं जहि वेगतः । तथेति मारुतिर्गत्वा मुनिं प्राह त्वरान्वितः ॥ ५८ ॥ मुष्टिं बद्ध्वा दृढां घोरां गृहाण गुरुदक्षिणाम् । इत्युक्त्वा ताडयामास हृदि तं मुष्टिना तदा ॥ ५९ ॥ पपात भुवि रक्तं स वमन् प्राणान् जहौ क्षणात् । ततः क्षीरनिधिं गत्वा जित्वा गंधर्वसत्तमान् ॥ ६० ॥ द्रोणाचलं गृहित्वा स यावत् गच्छति मारुतिः । विहायसाऽतिवेगेन लंकां तावच्च वै पथि ॥ ६१ ॥ भरतेन शरं मुक्त्वा पर्वतो भुवि पातितः । भरतं मारुतिर्दृष्ट्वा रामोऽयमिति विह्वलः ॥ ६२ ॥ उवाच मधुरं वाक्यं कथमत्र समागतअः । जितः किं रावणेन त्वं रणं त्यक्त्वा पलायितः ॥ ६३ ॥ एवमुक्तोऽपि भरतः पुनस्तं मारुतिं वरम् । मत्वाऽयं राक्षसश्चेति संदधे निशितं शरम् ॥ ६४ ॥ बाणहस्तं तमालोक्य भुभुक्कारं विधाय सः । नैवायं राघवश्चेति मत्वा ध्यात्वा क्षणं हृदि ॥ ६५ ॥ भरतं मारुतिः प्राह रामदूतोऽद्य मे बलम् । पश्यसि त्वं तद्गिरं तां श्रुत्वा तं भरतोऽब्रवीत् ॥ ६६ ॥ बंधुना मम रामेण कुतो वद समागमः । तव जातं सविस्तारं दंडकारण्यवासिना ॥ ६७ ॥ ततस्तं मारुतिर्वृत्तं संश्राव्य राघवस्य तु । भरतेनेषुणा दत्तं गिरिं धृत्वा ययौ पुनः ॥ ६८ ॥ लंकां गत्वा स वल्लीभिः जीवयामास लक्ष्मणम् । वानरांश्च भरतस्य रामं वृत्तं न्यवेदयत् ॥ ६९ ॥ पुतर्नीत्वा यथास्थानं तं संस्थाप्य महाचलम् । लक्ष्मणो जीवितश्चेति संश्राव्य भरतं पुनः ॥ ७० ॥ यथावाकाशमार्गेण लंकां गन्तुं मनो दधे । नृपानाकारयामास साकेतं भरतोऽपि सः ॥ ७१ ॥ साहायार्थं राघवस्य लंकां गन्तुं मनो दधे । ततः समायामासीनो रावणः प्राह राक्षसान् ॥ ७२ ॥ गच्छध्वं त्वरितं दूताः पताले तौ महाबलौ । ऐरावणो महानुग्रः तथा मैरावणो महान् ॥ ७३ ॥ तयोर्मे कथनीयं हि युद्धवृत्तं वयस्ययोः । तथेति ते गता दूताः तौ तद्वृत्तं न्यवेदयन् ॥ ७४ ॥ तौ श्रुत्वा विह्वलात्मानौ लंकायां समवस्थितौ । रामं च लक्ष्मणं हंतुं निशायां तौ समागतौ ॥ ७५ ॥ ददर्शतुस्तौ पुच्छस्य परिघ हि हनूमतः । कपीनां तत्र सेनायाः तदाकाशान् महाबलौ ॥ ७६ ॥ निपेततुः कपीनां तु सेनायां रामलक्ष्मणौ । किंचित् विनिद्रितौ दृष्ट्वा शिलायां संगरश्रमात् ॥ ७७ ॥ निन्युतुस्तौ शिलां शीघ्रं पातालं निजमंदिरम् । एतस्मिन् अंतरे दृष्ट्वा सेनायां रामलक्ष्मणौ ॥ ७८ ॥ मारुतिः पादमार्गेण तयोः पातालमाययौ । एतस्मिन् अंतरे मार्गे लंकादक्षिणदिक् तटे ॥ ७९ ॥ निकुंभिलायां स्व पतिं कपोती प्राह गुर्विणी । नाथाद्य नरमांसं मे भोक्तुं स्पृहयते मनः ॥ ८० ॥ स प्राहाद्य समानीतौ वर्तेते रामलक्ष्मणौ । रसातलं हि दैत्याभ्यां देव्यग्रेतौ वधिष्यतः ॥ ८१ ॥ अथ श्वस्तद्वधे जाते मांसमानीय तेऽर्पये । तद्वाक्यं मारुतिः श्रुत्वा किंचित् तोषयुतो ययौ ॥ ८२ ॥ तावत् ददर्श तद्द्वारि संस्थितं मकरध्वजम् । स धृत्वा तं हनूमन्तं पप्रच्छ मकरध्वजः ॥ ८३ ॥ कस्त्वं कुतः समायातः स्ववृत्तं प्राह मारुतिः । रामदूतस्तु लंकायाः आनीतौ रामलक्ष्मणौ ॥ ८४ ॥ निद्रितौ निशि दैत्याभ्यां अत्र पातालमद्य हि । तयोः शोधार्थमायातः चेत्त्वं वेत्सि वदस्व तौ ॥ ८५ ॥ तन्मारुतिवचः श्रुत्वा तं प्राह मकरध्वजः । पिताम मे वर्तते तत्र क्षेमेणांजनिसंभवः ॥ ८६ ॥ तत् श्रुत्वा चकितः प्राह हनुमान् मकरध्वजम् । हनूमतः कुतः पत्नी सोऽब्रवीत् मारुतिं पुनः ॥ ८७ ॥ लंकादाहं पुरा कृत्वा सागरे शीतलं कृतम् । यदा पुच्छं मारुतिना तदा तद्धूमपूरितात् ॥ ८८ ॥ कंठाच्छ्लेष्मा बहिस्त्यक्तः सागरे सोऽपतत् तदा । मकर्या भक्षितः सोऽपि तस्यां जातः सुतोऽस्म्यहम् ॥ ८९ ॥ तत् श्रुत्वा मारुतिः प्राह सोऽयमेव न संशयः । तदा ननाम पितरं तथा वृत्तं न्यवेदयत् ॥ ९० ॥ कामाक्ष्याश्च बलिं कर्तुं निश्चितौ पूर्वमेव हि । तौ आनेतुं यदोद्युक्तौ लंकां गत्वा सुरोत्तमौ ॥ ९१ ॥ श्वः कामाक्ष्याः पुरः कर्तुं तयोर्दानं विनिश्चितम् । गच्छ देवालये गत्वा तत्र स्थित्वा हरस्व तौ ॥ ९२ ॥ ततः स मारुतिर्गत्वा त्रसरेणुस्वरूपधृक् । देवालय प्रविश्याथ कपाटानि बबंध सः ॥ ९३ ॥ तावत् दैत्यौ समायातौ पूजार्थं द्वारि संस्थितौ । शनैर्देव्याः स्वरेणैव मारुतिस्तौ वचोऽब्रवीत् ॥ ९४ ॥ पूजा कार्या गवाक्षेण सजीवौ रामलक्ष्मणौ । वनोद्भवैः फलैः पुष्पादिभिः सम्यक् प्रपूजितौ ॥ ९५ ॥ धृतकोदण्डतूणिरौ वन्यपुश्पश्च शोभितौ । देवालयस्य किंचिद्धि द्वारमुद्धाट्य वै शनैः ॥ ९६ ॥ मत्तुष्ट्यर्थं प्रेषणीयावत्र मामद्य मानवौ । येन केन प्रकारेण यो मामद्य प्रपश्यति ॥ ९७ ॥ भविष्यति निश्चयेन सोऽन्धो नास्त्येव संशयः । तद्देव्या वचनं श्रुत्वा तुष्टां ज्ञात्वाऽम्बिकां मुदा ॥ ९८ ॥ ततस्तं पूजनं दैत्यौ पवाक्षेणैव चक्रतुः । पक्वान्नपायसादीनां राशींस्तौ प्रमुमोचतुः ॥ ९९ ॥ पंचामृतघटांश्चापि कोटिशस्तौ मुमोचतुः । कोटिशः फलभारैश्च गवाक्षेण मुमोचतुः ॥ १०० ॥ तत्सर्वं भक्षयित्वा स मारुतिः प्राह तौ पुनः । किं दत्तं ग्रासमात्रं मे भोजनं क्षिधिताऽस्म्यहम् ॥ १ ॥ तद्देवया वचनं श्रुत्वा तौ दैत्यावतिस्मितौ । दूतैर्विलुंठ्य हट्टांश्च तथा स्वीयपुरौकसाम् ॥ २ ॥ भक्षणीयपदार्थांस्तौ गिरीनिव मुनोचतुः । राजगृहादिषु स्वेषु यद्यद्वस्त्वस्ति संचितम् ॥ ३ ॥ तच्चापि दूतैरानीय देव्यै शीघ्रं मुमोचतुः । तदा कोलाहलश्चासीत् प्रतिगेहे पुरौकसा ॥ ४ ॥ नासीच्छेषं बालकानां भक्ष्यवस्त्वण्वपि क्वचित् । ततस्तौ वन्यपुष्पाद्यैः भूषितौ रामलक्ष्मणौ ॥ ५ ॥ धृतकोदंडतूणीरौ द्वारेणैवार्पितौ श्रियै । तौ दृष्ट्वा मारुतिर्नत्वा आलिंग्य रामलक्ष्मणौ ॥ ६ ॥ कपाटानि तदोद्धाट्य दैत्ययोः स व्यतर्जयत् । ततो रामो लक्श्मणेन वहिर्देवालयात् तदा ॥ ७ ॥ निर्गत्य शरजालैस्तौ जघान क्षणमात्रतः । सेवकान् सुहृदादींश्च तयोर्बाणैर्जघान सः ॥ ८ ॥ पुनस्तौ जीवितौ दैत्यौ पुनस्तेन निपातितौ । शतवारं हतौ एवं नासीम्मृत्युस्तयोस्तदा ॥ ९ ॥ ततोऽतिविस्मितो भूत्वा त्वरन्गत्वा स मारुतिः । इतस्ततो भ्रमन्पुर्यां नारीं रहसि संस्थिताम् ॥ ११० ॥ ऐरावणभोगपत्नीं पप्रच्छ मरणं तयोः । सा प्राह नागकन्याऽहं बलेनानेन धर्षिता ॥ ११ ॥ मैरावणोऽपि मां नित्यं दुष्टबुद्ध्याऽत्र पश्यति । उभाभ्यामपि च क्रीडां दातुं नास्ति बलं मयि ॥ १२ ॥ मित्रं त्वेको रिपुस्त्वेकः त्विति दुःखं तयोर्मम । अतस्तयोर्वधे तुष्टिः मम चापि भविष्यति ॥ १३ ॥ मारुति यदि रामो त्वां स्वस्त्रियं हि करिष्यति । तर्ह्यहः कथयाम्यद्य तयोर्मृत्युर्यतो भवेत् ॥ १४ ॥ तत् श्रुत्वा मारुतिः प्राह यदि श्रीरामभारतः । न भविष्यति भग्नस्ते मंचकस्तर्हि ते पतिः ॥ १५ ॥ भविष्यति रामचंद्रः तथेत्युक्त्वा तमाह सा । भ्रमरानेकदा पूर्वं बालैः कंटकतोपितान् ॥ १६ ॥ मोचयामासतुस्तौ हि तेन तुष्टाश्च षट्पदाः । तौ ऊचुस्ते युवाभ्यां हि मरणाद् रक्षिता वयम् ॥ १७ ॥ यथा तथा युवां चाभि रक्षामो मरणाद्वयम् । इत्युक्त्वा ते स्थिताश्चात्र ते नीत्वाऽमृतमुत्तमम् ॥ १८ ॥ तद् रक्तबिंदून् स्पृष्ट्वा ते प्रकुर्वंति सजीवितौ । भ्रमरास्ते तयोर्निद्रा स्थाने संत्यधुना कपे ॥ १९ ॥ कोटिशस्तान् मर्द्दयस्व सोऽपि तान् मर्द्दयत्क्षणात् । तत्रैकं शरणं प्राप्तं भ्रमरं पाह मारुतिः ॥ १२० ॥ कुरु मंचकगर्भं त्वं गजभुक्तकपित्थवत् । ऐरावणभोगपत्न्याः षट्पदोऽपि तथाऽकरोत् ॥ २१ ॥ ततो निहत्य तौ दैत्यौ पुनर्बाणै रघूद्वहः । अभिषिच्य तयोः स्थाने राज्ये तं मकरध्वजम् ॥ २२ ॥ यावद्गंतुं मनश्चक्रे तावन् मारुतिनाऽर्थितः । नागकन्यागृहं गत्वा नानाचित्रविचित्रितम् ॥ २३ ॥ दृष्ट्वा तां चारुवदनां वस्त्रालंकारमण्डिताम् । धृत्वा करेण तद्धस्तं किंचित् कृत्वा स्मिताननम् ॥ २४ ॥ चकार मंचकं भग्नं स्वभारेण रघूत्तमः । ततस्तया प्रार्थितः स रामस्तां पुनरब्रवीत् ॥ २५ ॥ त्यक्त्वा देहं भुवं गत्वा भूत्वा ब्राह्मणकन्यका । तपस्तप्त्वा चिरं कालं तृतीये त्वं तु जन्मनि ॥ २६ ॥ द्वापरे द्वारकायां हि मम पत्नी भविष्यसि । तद् रामवचनं श्रुत्वा रामाग्रेऽग्निं प्रविश्य सा ॥ २७ ॥ कन्याकुमारी नामासीत् द्विजकन्याऽब्धिरोधसि । मारुतेः स्कंधसंस्थोऊभूत् तदा रामो मुदान्वितः ॥ २८ ॥ राज्ये कृत्वा मंत्रिणं स्वं लक्ष्मणं मकरध्वजः अकरोत्तं स्कंधसंस्थं शेषं ब्रह्माण्डधारकम् ॥ २९ ॥ ततः क्षणात् जग्मतुस्तौ लंकां श्रीरामलक्ष्मणौ । श्रीरामलक्ष्मणौ दृष्ट्वा सुग्रीवाद्याश्च वानराः ॥ १३० ॥ तावालिंग्य मुहुर्नत्वा बभूवुस्तोषपूरिताः । रामोऽपि सकलं वृत्तं सुग्रीवादीन्न्यवेदयत् ॥ ३१ ॥ दैत्यौ रामेण निहतौ श्रुत्वा सदसि रावणः । राक्षसांश्चकितः प्राह पूर्ववृत्तः भयान्वितः ॥ ३२ ॥ मानुषेणैव मृत्युर्मे ह्याह पूर्वं पितामहः । अतो नारायणः साक्षात् मानुषोऽभून्न संशयः ॥ ३३ ॥ रामो दाशरथिर्भूत्वा मां हंतुं समुप्[अस्थितः । यदाऽनरण्यः पूर्वं हि स हतो दीक्षितो मया ॥ ३४ ॥ शप्तश्चाहं तदा तेन सूर्यवंशओद्भवेन हि । उत्पत्स्यते च मद्वंशे परमात्मा सनातनः ॥ ३५ ॥ स एव त्वां पुत्रपौत्रैः बांधवैर्निहनिष्यति । इत्युक्त्वा स ययौ नाकं सोऽधुना समयो मम ॥ ३६ ॥ समागतो राघवो मां समरे स हनिष्यति । विबोध्य कुंभकर्णं तं आनयध्वं त्वरान्विताः ॥ ३७ ॥ ततस्ते तां गुहां गत्वा तच्छ्वासेन विकर्षिताः । यातायाते प्रचक्रुस्ते कुंभकर्णोदरे मुहुः ॥ ३८ ॥ तदैकत्र बाहुपाशैर्बलं कृत्वाऽथ राक्षसाः । गत्वा तदंतिकं भीत्या निजघ्नुस्तं द्रुमैः पदैः ॥ ३९ ॥ शिलाभिस्ताडयामासुः चाश्वैरुष्टैर्व्यचूर्णयन् । काष्ठभारैर्महादाहं देहे चक्रुर्नृपाज्ञया ॥ १४० ॥ तदा प्रबुद्धश्चोत्थाय सूकरान् महिषान् वरान् । कोटिशः स्वमुखे क्षिप्त्वा जलवापीर्विशोष्य सः ॥ ४१ ॥ गत्वा नत्वा राक्षसेंद्रं बोधयामास रावणम् । एकदाऽहं वनं गत्वा दृष्ट्वा तं नारदं मुनिम् ॥ ४२ ॥ पृष्टवाँस्त्वं कुत्र यासि कुतश्चागमनं कृतम् । स मां प्राह देवलोकात् अयोध्यां प्रति गम्यते ॥ ४३ ॥ रावणादीन् रणे हंतुं विष्णुर्जातोऽत्र मानुषः । देववाक्यात् त्वरयितुः राम गच्छाम्यहं जवात् ॥ ४४ ॥ इत्युक्त्वा मां गतः सोऽथ प्रेषयामास राघाम् । इति श्रुतं मया पूर्वं तवाग्रे तन्निवेदितम् ॥ ४५ ॥ अतोऽपर्याद्य रामाय सीतां सख्यं कुरु प्रभो । इति तद्वचनं श्रुत्वा रावणस्तं वचोऽब्रवीत् ॥ ४६ ॥ निद्राव्याप्तेऽक्षिणी तेऽद्य गच्छ निद्रां सुखं कुरु । तद्बंधोः क्रूरवचनं श्रुत्वा नत्वाऽथ रावणम् ॥ ४७ ॥ जवाद्ययौ स युद्धाय उल्लंघ्य प्रासादमुत्तमम् । कुंभकर्णं तत्र दृष्ट्वा कृपणा भयविह्वलाः ॥ ४८ ॥ चक्रुः पलायनं सर्वे रामपार्श्वमुपागताः । कुंभकर्णं तत्र दृष्ट्वा प्रणनाम विभीषणः ॥ ४९ ॥ उवाच प्रणतो भूत्वा मया राजाऽतिबोधितः । सीतां रामाय देहीति तेन धिग्धिक्कृतस्त्वहम् ॥ १५० ॥ तत् श्रुत्वाऽहं राघवस्य सेवां कर्तुमुपागतः । तत् श्रुत्वा बंधुवचनं कुंभकर्णस्तमब्रवीत् ॥ ५१ ॥ सम्यक्कृतः त्वया वत्स मदग्रे मा स्थिरो भव । युद्धे स्वीयः परो वाऽत्र ज्ञायते न मयाऽद्य हि ॥ ५२ ॥ ततो बंधुं नमस्कृत्य रामपार्श्वमुपाययौ । कुंभकर्णोऽपि हस्ताभ्यां पादाभ्यां पेशयन् हरीन् ॥ ५३ ॥ चचार वानरीं सेनां तत्र दृष्ट्वा कपीश्वरम् । त्रिशूलेनाथ तं भित्त्वा आनयामास पुरीं तु सः ॥ ५४ ॥ मार्गे स्वस्थः स सुग्रीवः कर्णौ घ्राणं रिपोर्नखैः । छित्वा ययौ राघवेंद्रं सोऽपि पौरैर्विलज्जितः ॥ ५५ ॥ ताडयामास तान् बाणैः निवार्य रघुनंदनः । वायवास्त्रेण चिच्छेद तद्धस्तौ सायुधौ क्षणात् ॥ ५७ ॥ छिन्नबाहुमथायांतं नदंतं वीक्ष्य राघव । द्वावर्द्धचंद्रौ निशितौ आदायास्य पदद्वयम् ॥ ५८ ॥ चिच्छेद पतितौ पादौ लंकाद्वारि महास्वनौ । निकृत्तहस्तपादोऽपि कुंभकर्णोऽतिभीषणः ॥ ५९ ॥ अभिदुद्राव विनदन् राहुश्चंद्रमसं यथा ॥ १६० ॥ अपूरयच्छिताग्रैश्च सायकैस्तद् रघुत्तमः । शरपूरितवक्त्रोऽसौ चुक्रोशातिभयंकरः ॥ ६१ ॥ अथ सूर्यप्रतीकाशं ऐंद्रं शरमनुत्तमम् । मुमोच तेन चिच्छेद कुंभकर्णशिरो महत् ॥ ६२ ॥ तथा खे देववाद्यानि नेदुः कुसुमवृष्टिभिः । ववर्षुरमरा रामं तुष्टुवुर्विविधैः स्तवैः ॥ ६३ ॥ पितृव्यं निहतं श्रुत्वा पितरं चातिविह्वलम् । रावणिः सांत्वयामास त्वं मे पश्याद्य वै बलम् ॥ ६४ ॥ इत्युक्त्वा त्वरितं गत्वा मेधनादो निकुंभिलाम् । रक्तमाल्यांबरधरो हननायोपचक्रमे ॥ ६५ ॥ रक्षार्थं दिव्यशस्त्रार्थं जयार्थं अभिचारकैः । योगिनीवटाधोभूम्यां फ़ुहायां संस्थितो रहः ॥ ६६ ॥ तोयानिलानलव्याघ्र सर्पराक्षसकंटकैः । आत्मनः परितः कृत्वा परिधीन् सप्त दुर्गमान् ॥ ६७ ॥ होमकुण्डोर्ध्वतः सर्पं बद्ध्वा कृष्णमधोमुखम् । रक्तपुष्पांबरधरो रक्तचंदनलेपितः ॥ ६८ ॥ रक्तपुष्पाक्षता गुञ्जा सर्षपश्चन्दनेक्षुभिः । खदिराम्र पलाशोदुम्बरभल्लातकास्थिभिः ॥ ६९ ॥ समिद्भिर्माषमांसादि भल्लातकफलैरपि । अर्कनिंबबीजपूर कृष्णधत्तूररोचनैः ॥ १७० ॥ अपामार्गबदरिका नलदालकबंधुकैः । नरमुंड समांसैश्च बिभीतकफलादिभिः ॥ ७१ ॥ सर्पषडैश्च मण्डूकैः त्वग् दंतस्नायुलोमभिः । नानावनचराणां च मांसैरपि समंत्रकम् ॥ ७२ ॥ इत्थं चकार होमं स निमील्य नयने रहः । विभीषणोऽपि तं दृष्ट्वा होमधूम्रं भयावहम् ॥ ७३ ॥ प्राह रामाय सकलं होमारंभं दुरात्मनः । समाप्यते चेत् होमोऽयं मेघनादस्य दुर्मतेः ॥ ७४ ॥ स चाजय्यो बवेत् राम मेघनादः सुरासुरैः । अतः शीघ्रं लक्ष्मणेन घातयिष्यामि रावणिम् ॥ ७५ ॥ यस्तु द्वादश वर्षाणि निद्राहारविवर्जितः । तेनैव मृत्युर्निर्दिष्टो ब्रह्मणाऽस्य दुरात्मनः ॥ ७६ ॥ लक्ष्मणोऽयं यदाऽयोध्या पुर्यास्त्वामनुनिर्गतः । तदादि निद्राहारादीन् न प्राप्तः स रघूत्तमः ॥ ७७ ॥ सेवार्थं तव राजेंद्र ज्ञातं सर्वमिदं मया । ततो रामाज्ञया गत्वा लक्ष्मणेन विभीषणः ॥ ७८ ॥ हनुमत्प्रमुखैः वीरैः यूथपैः सर्वतो वृतः । लक्ष्मणं दर्शयामास होमस्थानं निकुंभिलाम् ॥ ७९ ॥ अंगदस्कंधमारुह्य वह्न्यस्त्रेणाथ कंटकान् । ज्वालयामास सौमित्रिः जघान राक्षाञ्छरैः ॥ १८० ॥ गारुडास्त्रेण सर्पांश्च पर्वतास्त्रेण दंष्ट्रिणः । अनलं शांतमकरोत् पर्जन्यास्त्रेण लक्ष्मणः ॥ ८१ ॥ प्राशयामास हनुमान् अनिलं क्षणमात्रतः । जलं संशोषयामास वायव्यास्त्रेण लक्ष्मणः ॥ ८२ ॥ परिघेष्वपि नष्टेषु तत्रादृष्ट्वा रिपोः स्थलम् । ययौ उत्पाटितुं क्रोधात् हनुमान् योगिनीवटम् ॥ ८३ ॥ तदातां दर्शयामास वटस्थां योगिनीगुहाम् । गुहापिधानपाषाणं हनुमान् पादघट्टनैः ॥ ८४ ॥ चूर्णीकृत्य गुहासंस्थं मेघनादं व्यतर्जयत् । तदा स मेघनादोऽपि त्यक्त्वा होमं त्वरान्वितः ॥ ८५ ॥ क्रोधाविष्टो रथे स्थित्वा ययौ लक्ष्मणसंमुखम् । शस्त्रैरस्त्रैः पर्वताद्यैः मर्मभिद्भिर्निजोक्तिभिः ॥ ८६ ॥ चकार लक्ष्मणेनैव युद्धं तत्तारकामयम् । सौमित्रिरपि बाणौघैः रथमश्वान् धनुर्ध्वजम् ॥ ८७ ॥ तद्दृढं कवचं सूतं बिभेद क्षणमात्रतः । ततः सोऽन्येन धनुषा मुक्त्वा बाणान् सहस्रशः ॥ ८८ ॥ पद्भ्यां एवास्थितो भूम्यां चिच्छेद कवचं रिपोः । तदा क्रुद्धः स सौमित्रिः बाणेनेंद्रजितञ्च हि ॥ ८९ ॥ सशरं दक्षिणभुजं पातयामास तद्गृहे । तदा स वामहस्तेन मेघनादोऽतिविह्वलः ॥ १९० ॥ दुद्राव लक्ष्मणं हंतुं धृत्वा शूलमनुत्तमम् । तं चापि मार्गणेनैव सशूलं वामसत्करम् ॥ ९१ ॥ मेघनादस्य शुमित्रिः छित्वा रावणसन्निधौ । पातयामास लंकायां तदद्भुतं इवाभवत् ॥ ९२ ॥ तदा व्यादाय स्वमुखं रावणिर्लक्ष्मणं ययौ । लक्ष्मणोऽपि शरं दिव्यं रामनामांकितं शुभम् ॥ ९३ ॥ मुमोच रघ्वीरस्य कृत्वा चिंतनमादरात् । स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ॥ ९४ ॥ प्रमथ्येंद्रजितः कायात् पातयामास तच्छिरः । ततः प्रमुदिता देवाः सौमित्रिं परितुष्टुवुः ॥ ९५ ॥ पुष्पाणि विकिरंतो वै चक्रुर्नीरांजनं मुहुः । गतश्रमः स सौमित्रिः शंखमापूरयत् रणे ॥ ९६ ॥ श्रुत्वा सीता शंखनादं त्रिजटां प्रेष्य सादरम् । शुश्राव सकलं वृत्तं तद्वाक्यात्प्रतुतोष सा ॥ ९७ ॥ ततस्तन्मेघनादस्य शिरः संगृह्य मारुतिः । राघवाय दर्शयितुं त्वरयामास लक्ष्मणम् ॥ ९८ ॥ नत्वा तं दर्शयामास मेघनादस्य तच्छिरः । तद्दृष्ट्वाऽऽलिंग्य सौमित्रिं रामस्तुष्टोऽभवत्तदा ॥ २०० ॥ रावणोऽपि भुजं दृष्ट्वा श्रुत्वा पुत्रवधं तथा । पपात पुत्रदुःखेन सभायां मूर्छितो भुवि ॥ १ ॥ क्रोधात् स खड्गमुद्यम्य ययौ हंतुं विदेहजाम् । सुपार्ह्श्वो नाम मेधावी मंत्री तं संन्यवारयत् ॥ २ ॥ सखड्गं तत्करं धृत्वा स्वहस्ते स त्वरान्वितः । उवाच नीतिसंयुक्तं वचनं रावणं तदा ॥ ३ ॥ कथं नाम दशग्रीव कोपात् स्त्रीवधमिच्छसि । अस्माभिः सहितो युद्धे हत्वा रामं सलक्ष्मणम् ॥ ४ ॥ प्राप्स्यसे जानकीं शीघ्रं इत्युक्तः स न्यवर्तत । सुलोचनाऽपि काम्तस्य भुजं केयूरभूषितम् ॥ ५ ॥ दृष्ट्वा समार्गणं स्वीय पुरतः पतितं भुवि । तदा विलापं अकरोत् स्मृत्वा तत्पौरुषाणि सा ॥ ६ ॥ भुजोऽपि सांत्वयन् तांस लेख्य भूम्यां शरेण हि । स्वलोहिताक्षरैः प्राह माखेदं भज भामिनि ॥ ७ ॥ साक्षातशेष शराघातईः हतोऽहं मुक्तिमागतः । त्वं चापि गत्वा श्रीरामं नत्वा याचस्व मच्छिरः ॥ ८ ॥ तत्त्वां दास्यति रामोपि तेनाग्निं विश्य याहि माम् । सुलोचना पठित्वा सा लिखितान्यरक्षराणि हि ॥ ९ ॥ तुष्ता पृष्ट्वा रावणाय मंदोदर्यै विभूषिता । ययौ रामं शिबिकया तां ड्रुष्ट्वा वानरोत्तमाः ॥ २१० ॥ सीतेयं रावणेनाद्य भयार् रामं विसर्जिता । इति मत्वा दुद्रुवुस्ते सीताया दर्शनेच्छया ॥ ११ ॥ शिबिकां वेष्टयामासुः ज्ञात्वा तां तु सुलोचनाम् । शिबिकावाहकास्येन आययुः श्रीराघवं पुनः ॥ १२ ॥ सुलोचनाऽपि श्रीरामं ननाम शिरसा मुहुः । भर्तृ शिरः कांक्षमाणां तां रामो वाक्यमब्रवीत् ॥ १३ ॥ कृपया तव भर्तारं करोम्यद्य सजीवितम् । मा विशस्वाद्य वह्निंत्वं रोचते चेत् वदस्व माम् ॥ १४ ॥ तदा सा प्राह श्रीरामं पुनः सौमित्रिहस्ततः । कुतो भवेत् तन्मरणं मोक्षदं जीवयस्व मा ॥ १५ ॥ इत्युक्त्वा राघवं दत्त्वा सस्मितं कपिवाक्यतः । कृत्वा शिरः पतेस्तत्र लब्ध्वा सा भर्तृसच्छिरः ॥ १६ ॥ लंकायास्तौ समानीय भुजौ गत्वा निकुम्भिलाम् । भर्तृदेहेन संयोज्य विवेशाग्निं यथाविधि ॥ १७ ॥ सुलोचना दिव्य देहा वैकुण्ठं पतिना ययौ । रावणोऽपि सुहृन्मित्रैः पुनर्योद्धुं ययौ रणम् ॥ १८ ॥ ततो रामेण निहताः सर्वे ते राक्षसा युधि । लंकायां रावणं क्षिप्तः शरेण राघवेण सः ॥ १९ ॥ ततः कृत्वा रामशिरः कृत्रिमं मयहस्ततः । ययौ सीतां दर्शयितुं रावणोऽशोककाननम् ॥ २२० ॥ एतस्मिन् अंतरे ब्रह्मा बोधयामास जानकीम् । कृतमस्ति रावनेन कृत्रिमं रामसच्छिरः ॥ २१ ॥ तद्दृष्ट्वा मा भजस्वाद्य खेदं त्वमधुनाऽबले । इति संबोध्य तां सीतां ब्रह्माऽन्तर्धानमाययौ ॥ २२ ॥ राववोऽपि समागत्य दर्शयामास तत् शिरः । सीतां प्राह हतो रामः त्वधुना त्वं भजस्व माम् ॥ २३ ॥ तदा साऽधोमुखी प्राह तवैवाहं शिरांसि हि । रामबाणैश्च पश्यामि पतितानि रणांगणे ॥ २४ ॥ इति तद्वाक्यश्राघात ताडितः स दशाननः । ययौ तूष्णीं स्वयं गेहं लज्जयाऽवनतस्तदा ॥ २५ ॥ अथ रामाज्ञया सर्वे लंकां प्रासादमंडिताम् । ईषिकाचूडहस्तास्ते वानराः कोटिशः क्षणात् ॥ २६ ॥ ज्वालयामासु सर्वत्र तत्त्वा वह्निं मुहुर्मुहुः । तदा कोलाहलश्चासीत् लंकादाहे पुरा यथा ॥ २७ ॥ दग्धां स्वनगरीं दृष्ट्वा स्वगृहाण्यपि रावणः । दृष्ट्वा दग्धानि कपिभिः मेघास्त्रं ससृजे जवात् ॥ २८ ॥ तेनासीदनलः शांतः तद्दृष्ट्वा कपयो ययुः । ततः स रावणः शुक्र वचनात् रहसि स्थिताम् ॥ २९ ॥ गुहां प्रविश्य चैकांते मौनी होमं प्रचक्रमे । लंकाद्वारकपाटादि बद्ध्वा सर्वत्र यत्नतः ॥ २३० ॥ होमद्रव्याणि संगृह्य यान्युक्तानि मया पुरा । रक्तावगाहितो मुण्डमाली प्रेतासनस्थितः ॥ ३१ ॥ परिस्तीर्याथ शस्त्राणि होमकुण्डसमंततः । आदशाहबालकानां शिरोभिर्मांसलोहितैः ॥ ३२ ॥ एवं स रिपुघातार्थं चकार हवनं रहः । उत्थितं धूम्रमालोक्य रामं प्राह विभीषणः ॥ ३३ ॥ यदि होमसमाप्तिः स्यात् तदाऽजेयो भवेदयम् । ततो रामो हरीन् सर्वान् प्रेषयामास सादरम् ॥ ३४ ॥ प्राकारं लंघयित्वा ते गत्वा रावणमंदिरम् । हत्वा राक्षसवृन्दं तद् गुहारक्षणतत्परम् ॥ ३५ ॥ न ददृशुर्गुहाद्वारं यत्र होमं चकार सः । ततश्च सरमानाम प्रभाते करसंज्ञया ॥ ३६ ॥ विभीषणस्य भार्या तान् होमस्थानमासूचयत् । गुहापिधानपाषाणान् अंगदः पदघट्टनैः ॥ ३७ ॥ चूर्णयित्वा रावणश्च ताडयामास मुष्टिना । वानरास्तेऽपि तं वृक्षैः ताडयामासुरादरात् ॥ ३८ ॥ तद्वत्ते वानरा दृष्ट्वा तूष्णीमेव स्थितं रिपुम् । समानयन् केशपाशे धृत्वा मंदोदरीं शुभाम् ॥ ३९ ॥ विलपंतीं मुक्तनीवीं विह्वलां हृतकंचुकीम् । दृष्ट्वा त्यक्त्वा तदा होमं उदतिष्ठत्त्वरान्वितः ॥ २४० ॥ ततस्ते वानराः सर्वे ययुः श्रीराघवांतिकम् । ततो मंदोदरी प्राह कुरु त्वं वचनं मम ॥ ४१ ॥ तत्त्वा सीतां राघवाय राज्ये कृत्वा विभीषणम् । तपश्चर्यां मयारऽण्ये कर्तुमर्हसि वै सुखम् ॥ ४२ ॥ तत्तस्या वचनं श्रुत्वा तां स प्राह दशाननः । रामो विष्णुश्च मा सीता जानामि प्राणवल्लभे ॥ २४३ ॥ रामहस्ताद् वधं लब्धुं हृता सीता पुरा मया । रामहस्तात्यक्तदेहो गच्छामि परमं पदम् ॥ ४४ ॥ त्वया कार्या क्रिया मे हि प्रविशस्वानलं ततः । ततः सुखं मया मुक्ता गमिष्यामि परं पदम् ॥ ४५ ॥ इत्युक्त्वा प्रययौ योद्धुं रथे स्थित्वा त्वरान्वितः । राजद्वाराद् विनिर्गच्छन् अग्रे मुण्डी विलोकितः ॥ ४६ ॥ मुकुट पतितश्चित्रः संविग्नो रावणो हृदि । ततो ययौ रणभुवं ववर्ष निशितैः शरैः ॥ ४७ ॥ विधाय कृत्रिमां सीतां मयेन स दशाननः । पश्यतां वानराणां च स्वरथे तां जघान वै ॥ ४८ ॥ दिव्येन शितखड्गेन दृष्ट्वा ते तु प्लवंगमाः । हाहेत्युक्त्वा दुःखितास्ते ययू रामं निवेदितुम् ॥ ४९ ॥ तावद्वेधाः समागत्य रामादीन् प्राह सादरम् । कृत्रिमेयं हता सीता मा खेदं भजताद्य हि ॥ २५० ॥ ततोऽन्त्र्धानं अगमत् विधि तेऽपि प्लवंगमाः । रामाद्या ब्रह्मवाक्येन तुष्टा युद्धाय निर्ययुः ॥ ५१ ॥ तदा स मातलिः शीघ्रं देवेंद्रवचनाद् रथम् । शस्त्रास्त्रवाजिसहितं अशनिध्वजशोभितम् ॥ ५२ ॥ वरच्छत्रसमायुक्त्वं राघवाग्रे न्यवेदयत् । तमारुह्य तदा रामः चकार कदनं महत् ॥ ५३ ॥ आग्नेयेन तदाग्नेयं दैवं दैवेन राघवः । अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ ५४ ॥ ततस्तु ससृजे घोरं राक्षसं सार्पमस्त्रवित् । रामः सर्पांस्ततो दृष्ट्वा सौपर्णास्त्रं मुमोच सः ॥ ५५ ॥ अस्त्रैः प्रतिहते युद्धे रामेण दशकंधरः । पार्जन्यं ससृजे घोरं वायव्यास्त्रेण राहवः ॥ ५६ ॥ तदस्त्रं विनिवार्यासो वह्न्यस्त्रं ससृजे पुनः । पर्जन्यास्त्रेण पौलस्त्यः चकार विफलं तदा ॥ ५७ ॥ नागानामयुतं तुरंगनियतुं सार्धं रथानां शतं । पत्तीनां शतकोटिनाशसमये त्वेका कबंधा नृतिः । एवं कोटिकबंध नर्तनविधौ एका ध्वनि किंकिणेः । विंशत्ताः प्रहरार्धतो रघुपतेः कोदंडघंटारणे ॥ ५८ ॥ तदा खे कौतुकं द्रष्टुं समाजग्मुः सुरा मुदा । गंधर्वाः किन्नरा यक्षा विमानशतसंस्थिताः ॥ ५९ ॥ तदाऽशनिध्वजं रम्यं बाणैश्चिच्छेद रावणः । तं दृष्ट्वा रामचंद्रोऽपि ध्वजहीनं रथं निजम् ॥ २६० ॥ मारुतिं प्राह वेगेन क्षणं तिष्ठ ध्वजोपरि । तथेत्युक्त्वा मारुतिः स तालमुत्पाट्य वेगतः ॥ ६१ ॥ गत्वा रामरथे दिव्ये तस्मिन्तस्थौ स्वयं मुदा । तं मारुतिध्वजं दृष्ट्वा रावणः समरांगणे ॥ ६२ ॥ तालं छत्रं मातलिन तुरगान्वायुनंदनम् । ऐन्द्रं धनुः तच्चिच्छेद नवबाणैस्त्वरान्वितः ॥ ६३ ॥ वातात्मजमातलिनौ मूर्च्छितौ पतितौ भुवि । क्षणमात्रेण स्वस्थोऽभूत् तदा स वायुनंदनः ॥ ६४ ॥ तदा रामो वायुपुत्र स्कन्धे स्थित्वा रणाजिरे । चकार तुमुलं युद्धं रावणेन भयावहम् ॥ ६५ ॥ रावणः परिघेणेव संताड्य मारुतिं हृदि । चकार मूर्च्छित वेगात् पपात स पुनर्भुवि ॥ ६६ ॥ तदा सस्मार रामोऽपि स्वरतह्ं समरांगणे । तवद्रथः क्षणादेवाययौ खादग्रतः स्थितः ॥ ६७ ॥ दारुकः सारथिर्यत्र यत्र शस्त्राण्यनेकशः । गदा पद्मं तु यत्रास्ति सर्वदा गरुडो ध्वजे ॥ ६८ ॥ यस्मिन्च्छैव्यश्च सुग्रीवः तथा चैव बलाहकः । मेघपुष्पश्च चत्वारो वायुवेगा हयोत्तमाः ॥ ६९ ॥ यत्र छत्रं वरं दिव्यं हेमदण्डं विराजते । चामरे द्वे शुभे यत्र शाङ्र्ग स्वं धनुराददे ॥ २७० ॥ ततो रामः शरैस्तीक्ष्णैः दशास्यस्य रथं क्षणात् । चकार चूर्णं साश्वं तं रावणं चाप्यतर्जयत् ॥ ७१ ॥ तदाऽन्यररथमारूढो रावणो राघवं ययौ । ततो रामः शरैस्तीक्ष्णैः दशानन शिरांसि सः ॥ ७२ ॥ चिच्छेद तानि गगने गत्वा तोषयुतानि हि । रामहस्तान्मृतिर्जाताऽस्माकं चेति विचिंत्य च ॥ ७३ ॥ वंदनं कर्तुकामानि गगनाच्च रणाजिरे । सस्मितानि पतन्ति स्म राघवस्य पदोपरि ॥ ७४ ॥ रामः शिरांसि दृष्ट्वाऽथ विदीर्णास्यानि खात्पुनः । मां हन्तुं प्रदवंतीति मत्वा भीत्या व्यताडयत् ॥ ७५ ॥ शरौघैः शतशः शीघ्रं तदद्भुतं इवाभवत् । शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसाम् ॥ ७६ ॥ शतमूर्ध्नो रावणस्य चैकोत्तरसहस्रकम् । छिन्नं तत्कल्पभेदेन वदंतीत्यपि केचन ॥ ७७ ॥ दृष्ट्वा तु रावणस्यान्तं विभीषणमतेन सः । नाभिदेशेऽमृतं तस्य कुण्डलाकार संस्थितम् ॥ ७८ ॥ पावकास्त्रेण तच्छीघ्रं शोषयामास राघवः । ततं शिरांसि वाहून् चिच्छेद रावणस्य सः ॥ ७९ ॥ एकेन मुख्यशिरसा बाहुभ्यां रावणो बभौ । तयोर्युद्धं अभूत् घोरं तुमुलं रोमहर्षणम् ॥ २८० ॥ ततो दारुकवाक्येन मर्मदेशे व्यताडयत् । ब्रह्मास्त्रेण रघुश्रेष्ठः समरे दशकंधरम् ॥ ८१ ॥ स शरो हृदयं भित्त्वा हत्वा तं तु दशाननम् । रामतूणीरमाविश्य मेने स कृतक्टुत्यताम् ॥ ८२ ॥ रावणस्य च देहोत्थं ज्योतिरादित्यवत्स्फुरत् । प्रविवेश रघुश्रेष्ठं देवानां पश्यतां सताम् ॥ ८३ ॥ तदा देवास्तुष्टवुस्तं ववर्षुः पुष्पवृष्टिभिः । नेदुःखे देववाद्यानि ननृतुश्चाप्सरोगणाः ॥ ८४ ॥ तदा मंदोदरी भर्त्रा सह देहं विसृज्य सा । ययौ वैकुण्ठभवनं रावणेन मुदान्विता ॥ ८५ ॥ ततो विभीषणेनैव रामो रावणसत्क्रियाम् । कारयित्वा लक्ष्मणेन लंकायां तं विभीषणम् ॥ ८६ ॥ नीत्वाऽभिषेचयित्वाऽथ न्यासभूतां तदंतिके । वायुपुत्रकृतां लंकां मोचयामास राक्षसात् ॥ ८७ ॥ विभीषणादिभिः शीघ्रं अशोकं प्रेष्य मारुतिम् । सीतायै सकलं वृत्तं श्रावयामास राघवः ॥ २८८ ॥ इति श्री शतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे एकादशः सर्गः ॥ ११ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |