॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं
॥ ॥ आनन्दरामायणम् ॥
सारकाण्डम्
॥ प्रथमः सर्गः ॥ ॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीवाल्मीकिः उवाच -
वामे भूमिसुतो पुरस्तु हनुमान् पृष्ठे सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोः वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुदिं रामं भजे श्यामलम् ॥ १ ॥ आदौ रावण मर्दनं द्विजगिरा तीर्थाटनं सीतया साकेते दशवाजिमेधकरणं पत्न्याः विलासाटनम् । स्त्रीपुत्रग्रहणं स्नुषार्थमटनं पृथ्व्याश्च संरक्षणं रामार्चादिनिरूपणं दयितया स्वीयं स्थलारोहणम् ॥ २ ॥ एकदा पार्वती देवी शंकरं प्राह हर्षिता । कैलासवासिनं नत्वा रामभक्त्यैकतत्परा ॥ ३ ॥ पार्वती उवाच - शंभो त्वया पुराणानि कथितानि ममांतिके । रघुनाथस्य चरितं जन्मकर्मसमन्वितम् ॥ ४ ॥ कथयस्वाधुना देव मम प्रीतिविवर्धनम् । आनन्ददायकं कर्म रघुवीरेण यत्कृतम् ॥ ५ ॥ श्रीशिव उवाच - सम्यक् पृष्टं त्वया कान्ते रामचन्द्रकथानकम् । कथयामि सविस्तारं महामंगलकारकम् ॥ ६ ॥ आदिनारायणाद् ब्रह्माऽभून्मरीचिर्विधेः सुतः । मरीचेः कश्यपः पुत्रः तत्सुतः सूर्य उच्यते ॥ ७ ॥ सूर्यपुत्रः श्राद्धदेवो मनुर्वैवस्वतस्त्विति । स एव प्रोच्यते तस्य ईक्ष्वाकुः पुत्रः प्रतापवान् ॥ ८ ॥ इक्ष्वाकोस्तु विकुक्षिर्हि शशादश्च स एव हि । विकुक्षेस्तु ककुत्स्थश्च स एवात्र पुरञ्जयः ॥ ९ ॥ स एवोक्तश्चन्द्रवाहः ककुत्स्थनृपतेः सुतः । अनेनास्तस्य पुत्रोऽभूत् विश्वरन्धिश्च तत्सुतः ॥ १० ॥ चन्द्रश्चन्द्रस्य पुत्रोऽभूत् युवनाश्व प्रतापवान् । शावस्तो युवनाश्वस्य शावस्तस्य सुतो महान् ॥ ११ ॥ बृहदश्व इति ख्यातः तस्माज्जज्ञे नृपोत्तमः । कुवलयाश्वो नृपतिः दृढाश्वस्तत्सुतः स्मृतः ॥ १२ ॥ हर्यश्व इति तत्पुत्रो निकुम्भस्तत्सुतः स्मृतः । युवनाश्वः श्येनजितो युवनाश्वनृपोत्तमात् ॥ १३ ॥ कृताश्वो नृपतिः प्रोक्तः श्येनजित् तत्सुतः स्मृतः । बर्हणाश्वो निकुम्भस्य बर्हणाश्वनृपोत्तमात् ॥ १४ ॥ मान्धाता त्रसद्दस्युर्हि स एव कथितो भुवि । पुरुकुत्सश्च मान्धातुः पुरुकुत्सस्य वै पुनः ॥ १५ ॥ त्रसद्दस्युरिति ख्यातो अनरण्यश्चापि तत्सुतः । अनरण्यस्य हर्यश्वो हर्यश्वस्यारुणः सुतः ॥ १६ ॥ त्रिबन्धनोऽरुणात् जातः त्रिबन्धनसुतो महान् । सत्यव्रतः स एवात्र त्रिशङ्कुारिति वै स्मृतः ॥ १७ ॥ सत्यव्रतस्य पुत्रोऽभूत् हरिश्चन्द्रः प्रतापवान् । रोहितस्तत्सुतः प्रोक्तः तस्माच्च हरितः स्मृतः ॥ १८ ॥ हरितस्य सुतश्चम्पः सुदेवश्चम्पदेहजः । सुदेवाद्विजयः प्रोक्तः तत्पुत्रो भरुकः स्मृतः ॥ १९ ॥ भरुकस्य वृकः पुत्रो वृकपुत्रस्तु बाहुकः । बाहुकात् सगरो जज्ञे असमञ्जझ् सगरात्मजः ॥ २० ॥ असमञ्जसश्च पुत्रोऽभूत् अंशुमान् इति नामतः । तस्य पुत्रो दिलीपस्तु दिलीपाच्च भगीरथः ॥ २१ ॥ भगीराथात् श्रुतो जातः श्रुतान्नाभः क्रकीर्त्यते । नाभस्य सिन्ध्द्वीपश्च ह्ययुताश्च तत्सुतः ॥ २२ ॥ ऋतुपर्णस्त्वयुतायोः सुदासस्तस्य कीर्त्यते । मित्रसहः स एवात्र कल्माषांघ्रि स एव हि ॥ २३ ॥ सुदास्याश्मकः पुत्रो मूलकोऽश्मकदेहजः । स एव नारीकवचो मूलकस्य सुतो महान् ॥ २४ ॥ नाम्ना दशरथः प्रोक्तः तस्य पुत्राः प्रतापवान् । नाम्ना त्वैडविडः प्र्क्तः तस्य विश्वसहः स्मृतः ॥ २५ ॥ तस्य पुत्रस्य खट्वाङ्गः खट्वाङ्गात् दीर्घबाहुकः । दिलीपश्च स एवात्र तस्य पुत्रो रघुः स्मृतः ॥ २६ ॥ रघोः पुत्रो ह्यजः प्रोक्तः तस्मात् दशरथः स्मृतः । राज्ञो दशरथात् जातः श्रीरामं परमेश्वरः ॥ २७ ॥ यस्य नामानि अनन्तानि गृणंति मुनयः सदा । विष्णोरारभ्य कथिता एकषष्टिर्नृपा मया । एकषष्टिर्नृपाश्चाग्रे मध्ये रामो विराजते । तस्य ते चरितं कृत्स्नं संक्षेपाच्च ब्रवीम्यहम् ॥ २९ ॥ इक्ष्वाकुवंशप्रवरः क्षत्रियो लोकविश्रुतः । बलवान् सरयूतीरे अयोध्यायां पार्थिवोत्तमः ॥ ३० ॥ नाम्ना दशरथः श्रीमान् जम्बूद्वीपपतिर्महान् । शशास राज्यं धर्मेण सैन्येन महाताऽवृतः ॥ ३१ ॥ अयोध्यायास्तु सान्निध्ये देशे श्रीकोसलाह्वये । कोसलायां महापुण्यः कोसलाख्यो नृपो महान् ॥ ३२ ॥ तस्यासीत् दुहिता रम्या कौसल्या पतिकामुका । तस्या दशरथेनैव विवाहो निश्चितो मुदा ॥ ३३ ॥ लग्नार्थं तु समानेतुं दूता दशरथं नृपम् । ययुर्विनिश्चयं कृत्वा विवाहदिवसस्य च ॥ ३४ ॥ तथा दशरथश्चापि साकेते सरयूजले । नौकास्थो जलजां क्रीडां चक्रे वै मंत्रिबंधुभिः ॥ ३५ ॥ निशायां सेनया युक्तः स्तुतो मागधबंदिभिः रत्नदीपप्रकाशैश्च ननृतुर्वारयोषितः ॥ ३६ ॥ तस्मिन्काले तु लंकायां विधिं पप्रच्छ रावणः । कस्मान्मे मरणं ब्रह्मन् तत्त्वं मां वक्तुमर्हसि ॥ ३७ ॥ तद् रावणवचः श्रुत्वा कथयामास तं विधिः । कौसल्यायां दशरथात् रामः साक्षात् जनार्दनः ॥ ३८ ॥ चतुर्धा पुत्ररूपेण भूत्वा स निहनिष्यति । पंचमेऽहनि लग्नस्य राज्ञो दशरथस्य हि ॥ ३९ ॥ दिवसो निश्चितो विप्रैः कौसल्याख्येन रावण । तत् विधेर्वचनं श्रुत्वा पुष्पकस्थो दशाननः ॥ ४० ॥ अयोध्यां सत्वरं गत्वा राक्षसैः परिवेष्टितः । नौकास्थं तं दशरथं जित्वा युद्धैः सुदारुणः ॥ ४१ ॥ बभंज निजपादेन तां नौकां सरयूजले । तदा सर्वे मृतास्तत्र सरय्वा निमले जले ॥ ४२ ॥ दशरथसुमंत्रौ द्वौ नैकाखण्डोपरि स्थितौ । शनैः शनैः प्रवाहेण गत्वा भागीरथीं जदीम् ॥ ४३ ॥ ततः समुद्रमध्ये हि जीवितौ ईश्वरेच्छया । रावणः कोसल गत्वा कृत्वा परमसंगरम् ॥ ४४ ॥ कोसलाख्यं नृपं जित्वा कौसल्यां तां जहार सः । ततः प्रमुदितो लंकां ययौ आकाशवर्त्मना ॥ ४५ ॥ दृष्ट्वा तिमिंगिलं मत्स्यं वसंतं लवणार्णवे । चित्ते विचारयामास देवास्ते मम शत्रवः ॥ ४६ ॥ लंकायाश्च हरिष्यन्ति कौसल्यां गुप्तविग्रहाः । अतः तिमिंग्गिलायेमां न्यासभूतां करोम्यहम् ॥ ४७ ॥ ओतो निश्चित्य मनसि पेटिकायां निधाय ताम् । मत्स्यं समर्प्य हृष्टात्मा ययओ लंकाअं दशाननः ॥ ४८ ॥ तिमिंगिलोऽपि तामास्ये घृताब्धौ व्यचरत् सुखम् । अग्रे दृष्ट्वा रिपु स्वीयं तेन युद्धार्थमुद्यतः ॥ ४९ ॥ द्वीपे तां पेटिकां स्थाप्य संग्रामं रिपुणाऽकरोत् । एतस्मिन्नन्तरे नौका खंडं तं द्वीपमागतम् ॥ ५० ॥ तदा तौ मंत्रीनृपती द्वीपं तं आरुरुहतुः । तत्र पेटिकां दृष्ट्वा समुद्ध्याट्यातिविस्मितौ ॥ ५१ ॥ तस्यां दृष्ट्वाऽथ कौसल्यां ज्ञात्वा वृत्तं परस्परम् । तया मुहूर्तसमये द्वीपे दशरथो नृपः ॥ ५२ ॥ गान्धर्वाख्यं विवाहां च चकार मुदिताननः । ततो राजाऽथ कौसल्या सुंत्रो मंत्रिसत्तमः ॥ ५३ ॥
त्रयःस्थित्वा पेटिकायां तद्द्वारं पिदधुः पुनः । तिमिंगलो रिपुं जित्वा चकारास्ये तु पेटिकाम् ॥ ५४ ॥ लांकायां रावणश्चापि समाहूय विधिं पुनः । उवाच प्रहसन् वाक्यं सभायां संस्थितः सुखम् ॥ ५५ ॥ विधे तव मृषा वाक्यं रावनेन मया कृतम् । हतो दशरथस्तोये कौसल्या गोपिता मया ॥ ५६ ॥ तद् रावणवचः श्रुत्वा सभायां पद्मसंभवः । दीर्घस्वरेण प्रोवाच ॐपुण्याहं इति स्फुटम् ॥ ५७ ॥ रावणः संभ्रमात् प्राह किमिदं व्याहृतं त्वया । विधिः प्रोवाच लग्नं तु जातं दशरथस्य हि ॥ ५८ ॥ तदा विधिं मृषा कर्तुं दूतान् संप्रेष्य सादरम् । तिमिंगिलात् समानीय पेटिकां ब्रह्मणोऽन्तिके ॥ ५९ ॥ समुद्ध्ट्य ददर्शासौ तत्र तस्यां दशाननः । तदाऽतिचकित्अः क्रुद्धः तान् हंतुं खड्गमाददे ॥ ६० ॥ तदाऽतिसंभ्रमात् वेधा रावणं वाक्यमब्रवीत् । किं करोषि दशास्य त्वां माऽधुना साहसं कुरु ॥ ६१ ॥ कौसल्यैका स्थापिताऽस्यां पेतिकायां त्वया पुरा । त्रयस्तत्र तु संजाता भविष्यन्त्यत्र कोटिशः ॥ ६२ ॥ भविषति वधस्तेऽद्य रामोऽद्यैव जनिष्यति । साहसं कुरु माऽद्यैव सत्यायुषि दशानन ॥ ६३ ॥ यद् भविष्यं तद्भवतु तदग्रे माऽस्तु सांप्रतम् । एतान् दूतैः प्रेषयाद्य साकेतं त्वं सुखी भव ॥ ६४ ॥ न भविष्यति मद्वाणी मृषा जानीहि निश्चयम् । यद्भाव्यं तद्भवत्येन गहना कर्मणो गतिः ॥ ६५ ॥ तद्विधेर्वचनं सत्यं मत्वा भीतो दशाननः । पेटिकां प्रेषयामास साकेतं स्वभटैर्जवात् ॥ ६६ ॥ साकेते पेटिकां त्यक्त्वा भटास्ते रावनं गताः । अयोध्यायां महानासीत् संभ्रमो नृपदर्शनात् ॥ ६७ ॥ अयोध्यावासिनां नृणां कोसलाधिपतेरपि । ततः पुनर्विवाहस्य संभ्रमं कोसलाधिपः ॥ ६८ ॥ कृत्वा स्वराज्यं जामात्रे ददौ प्रीत्या हि पुत्रिकाम् । तदारभ्य कोसलेन्द्राः प्रोच्यन्ते रविवंशजाः ॥ ६९ ॥ ततो राजा दशरथः सुमित्रां मगधेशजाम् । विवाहेनापरां पत्नीं चकार दयितां प्रियाम् ॥ ७० ॥ कैकेयनृपतेः कन्यां कैकेयीं पद्मलोचनाम् । विवाहेनाकरोत् भार्यां तृतीयां परमादरात् ॥ ७१ ॥ तथाऽन्यानि सप्तशत कलत्राण्यकरोत् नृपः । एवं राजा दशरथः शशास जगतीतलम् ॥ ७२ ॥ दानैः भोगैः दशरथो बभूव जरठो महान् । नाभवत् संततिस्तस्य धार्मिकस्य अवनीपतेः ॥ ७३ ॥ कौसल्या च सुमित्रा च कैकेयी च गिरींद्रजे । एताः कुलीनाः सुभगा रूपयौवनसंयुताः ॥ ७४ ॥ तस्मिन् शासति राज्यं तु स्थितेऽयोध्यापुरि प्रिये । देवानां दानवानां च राज्यार्थं विग्रहो महान् ॥ ७५ ॥ तत्र वागभवच्छ्रेष्ठा यत्रायोध्यापतिर्महान् । जयस्तत्र न संदेहः तां श्रुत्वा पवनो जवात् ॥ ७६ ॥ प्रार्थयामास नृपतिं गत्वा युद्धाय सादरम् । ततो गत्वा दशरथः चकार कदनं महत् ॥ ७७ ॥ एतस्मिन् अंतरे तत्र संग्रामेऽतिभयावहे । भिन्नाक्षं स्वरथं राजा नाविदद्दिष्टसंभ्रमात् ॥ ७८ ॥ राज्ञोऽन्तिके स्थिता सुभ्रूः कैकेयी रणकौतुकम् । पश्यन्ती स्वरथं भिन्नं ददर्श समरांगणे ॥ ७९ ॥ अक्षवत्सा निजं हस्त चकार जयहेतवे । तया तु पूर्वं बाल्यत्वात् मष्यास्यं कस्यचिन्मुनेः ॥ ८० ॥ कृष्णवर्णं कृतं तेन शप्ता तेऽप्यपवादतः । मुखमग्रे निरीक्ष्यन्ति नैव लोकाः कदाचन ॥ ८१ ॥ ततस्तं गन्तुमुद्युक्तं कैकेयी वामहस्ततः । दंडादिकं ददौ तस्य मुनेर्हस्तेऽति भक्तितः ॥ ८२ ॥ तस्यै ददौ वरं विप्रः तव वामकरो वरात् । भविता वज्रकठिनः क्वापि नाहं च ईर्ष्यति ॥ ८३ ॥ कैकेयी तं वरं स्मृत्वा स्वं चकारक्षवत्करम् । अथ जित्वा रणे दैत्यान् दृष्ट्वा तत्कर्म पार्थिवः ॥ ८४ ॥ ददौ वरौ द्वौ तस्यै स न्यासभूतौ कृतौ तया । यदाऽहं याचयिष्यामि तदा त्वं देहि तौ मम ॥ ८५ ॥ तथेत्युक्त्वा नृपः पत्नीं ययौ स्वनगरीं प्रति । एकदा स निशायां तु मृगयायां महावने ॥ ८६ ॥ चकार वारिबंधं च अवधीत् वनचरान् वहन् । एतस्मिन्नन्तरे तत्र अने वाराणसीपथा ॥ ८७ ॥ करंडस्थौ स्वपितरौ स्वस्कन्धे श्रवणो वहन् । काशीं नेतुं ययौ वैश्यो धर्माबाधाभयान्निशि ॥ ८८ ॥ नीरं पातुं शिशो देहि चावयोश्चेति प्रार्थितः । ताभ्यां करंडके न्यस्य तटाके जलसंनिधौ ॥ ८९ ॥ गत्वा जले स्वयं कुम्भं न्युब्जं तस्थौ जले क्षणम् । कुम्भस्य न्युब्जतः शब्दो बभूव करिणो यथा ॥ ९० ॥ वनद्विपो न हंतव्यः चेति हानन्नपि नृपः । वैश्यं राजा द्विपं मत्वा विव्याध स पतत्त्रिणा ॥ ९१ ॥ पपात श्रवणस्तोये हा केनाहं प्रताडितः । ब्रुवतश्चेति तद्वाक्यं श्रुत्वाऽभूत् विह्वलो नृपः ॥ ९२ ॥ गत्वा जलात् बहिर्वेगात् तं कृत्वाऽऽकर्ण्य तद्गिरा । सर्वं वृत्तं विशल्य तं चकार भयविह्वलः ॥ ९३ ॥ तावंधावपि तत्पुत्र वधं श्रुत्वा रुरोदतुः । कारयित्वा नृपतिना चितिं पुत्रसमन्वितौ ॥ ९४ ॥ दशरथाय तौ शापं ददतुः पुत्रदुःखितौ । पुत्रशोकात् आवयोर्हि यथा मृत्युस्तवास्त्विति ॥ ९५ ॥ ययौ नृपोऽपि नगरं गुरुं वृत्तं न्यवेदयत् । वसिष्ठो नृपतेर्दोष शांत्यर्थं तुरगध्वरम् ॥ ९६ ॥ नृपेण कारयामास साकेते सरयूतटे । रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ९७ ॥ शांतां स्वकन्यां प्रायच्छत् तत् राष्ट्रेऽभूत् अवर्षणम् । विभांडकाश्रमं वार नारीः संप्रेष्य तत्सुतम् ॥ ९८ ॥ रोमाअदो मोहयित्वा ऋष्यश्रुंगं समानयत् । वारस्त्रियो वने गत्वा समानिन्युः ऋषेः सुतम् ॥ ९९ ॥ नाट्यसंगीतवादित्रैः विभ्रमालिंगनार्हणैः । तत्प्रतापादभूद्वृष्टिः पुत्रोऽपि नृपतेरभूत् ॥ १०० ॥ ततस्तुष्टो रोअमादः तस्मै शांतां ददौ सुताम् । दशरथोऽपि स्वपुरीं आनयामास तं मुनिम् ॥ १ ॥ स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः । प्रत्यक्षं हि चकाराग्निं यज्ञकुंडात् सपायसम् ॥ २ ॥ आविर्भूत्वा स्वयं वह्निः ददौ राज्ञे सुपायसम् । राज्ञा विभक्तं स्त्रीभ्यस्तत् कैकेया दुष्टभावतः ॥ ३ ॥ अहरत् पायसं हस्तात् गृध्री शापविमोचनम् । सुवर्चलाऽप्सरोमुख्या नृत्यभंगात् स्वयंभुवा ॥ ४ ॥ शप्ता जाता तु सा गृध्री तया वेधाः सुतोषितः । तस्यै तुष्टो विधिः प्राह कैकेयीपायसं यदा ॥ ५ ॥ प्रक्षिपस्यंजनगिरौ तदा ते व्हविता गतिः । अप्सरा त्वं पूर्ववत् च भविष्यसि न संशयः ॥ ६ ॥ तस्मात् सा पायसं नीत्वा अक्षेपदंजनिपर्वते । निजं स्वरूपं सा लब्ध्वा जगाम सुरमंदिरम् ॥ ७ ॥ ततस्ताभ्यां तु कैकेय्यै दत्तं किंचित्तु पायसम् । अथ ता भक्षयामासुः अंतर्गर्भास्तदाऽभावन् ॥ ८ ॥ आसन् तासां दोहदास्ते पुत्राणां भाविकर्मभिः । पुत्राणां भाविकर्माणि विदुस्ते दोहदैर्जनाः ॥ १०९ ॥ इति श्री शतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे प्रथमः सर्गः ॥ १ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |