॥ अद्‌भुत रामायणम् ॥

षष्ठः सर्गः

हरिमित्रोपाख्यानम् -

तस्मिन्क्षणे समारब्धो मधुराक्षरपेशलैः ।
महामहोत्सवस्तत्र कौशिकप्रीतयेऽद्‌भुतः ॥ १ ॥
विपञ्चीगुणतत्त्वज्ञैर्वाद्यविद्याविशारदैः ।
ततस्तच्छ्रवणायालं चेटीकोटिसमावृता ॥ २ ॥
गायमाना समायाता लक्ष्मीर्विष्णुपरिग्रहः ।
वृता सहस्रकोटिभिर्वेत्रपाणिभिराशुगैः ॥ ३ ॥
ब्रह्मादिसुरसंघानां घनं दृष्ट्वा समागमम् ।
चेटीगणाधिपा रुष्टा भुशुण्डीपरिघान्विताः ॥ ४ ॥
ब्रह्मादींस्तर्जयन्त्यस्तान्मुनींश्चापि समन्ततः ।
उत्सार्य दूरं संहृष्टा विष्ठिताः पर्वतोपमाः ॥ ५ ॥
सर्वे बहिर्विनिर्याताः सार्द्धं वै ब्रह्मणा सुराः ।
युक्तमित्येव भाषन्तः प्रभोरग्रे वयं तु के ॥ ६ ॥
तस्थुः प्राञ्जलयः सर्वे त्रिदशागतमन्यवः ।
तस्मिन्क्षणे समाहूतस्तुम्बुरुर्मानपूर्वकम् ॥ ७ ॥
प्रविवेश समीपं वै देव्या देवस्य चैव हि ।
तत्रासीनो यथायोगं नानामूर्च्छाक्षरान्वितम् ॥ ८ ॥
जगौ कलपदं हृष्टो विपञ्चीं चाप्यवादयत् ।
विष्णुना कौशिकप्रीत्यै प्रत्युक्तो गायकोत्तमः ॥ ९ ॥
नानारत्‍नसमायुक्च्तैर्दिव्यैराभरणोत्तमैः ।
दिव्यमाल्यैश्च वसनैः पूजितो विष्णुमन्दिरात् ॥ १० ॥
निर्गतस्तुम्बुरुर्हृष्टो जगाम स यथागतम् ।
ब्रह्माद्यास्त्रिदशाः सर्वे मुनयश्च यथागतम् ॥ ११ ॥
जग्मुर्विष्णुं प्रणम्योच्चैर्जयेति भाषिणस्ततः ।
नारदोऽथ मुनिर्दृष्ट्वा तुम्बुरोः सत्क्रियां हरेः ॥ १२ ॥
शोकाविष्टेन मनसा संतप्तहृदयेक्षणः ।
चिन्तामापेदिवांस्तत्र शोकमूर्च्छाकुलान्तरः ॥ १३ ॥
ततः क्रोधेन महता जज्वाल मुनिपुङ्गवः ।
लक्ष्मीं शशाप सहसा तद्दासीभिस्तिरस्कृतः ॥ १४ ॥
यदहं राक्षसं भावं गृहीत्वा विष्णु कान्तया ।
चेटीभिर्वारितो दूरं वेत्राघातेन ताडितः ॥ १५ ॥
तस्मात्सञ्जायतां लक्ष्मी रक्षसो गर्भसम्भवा ।
यतोऽहं बहिराक्षिप्तश्चेटीभिः सावहेलनम् ॥ १६ ॥
हेलया राक्षसी च त्वां बहिः क्षेप्यति भूतले ।
इत्युक्ते नारदेनाथ चकम्पे भुवनत्रयम् ॥ १७ ॥
हाहाकारं ततस्चक्रुर्देवगंधर्वदानवाः ।
नारदो विललापाथ धिग्धिङ्‌मामिति च ब्रुवन् ॥ १८ ॥
नारायणसमायोगो महालक्ष्मीसमीपतः ।
अहो तुम्बुरुणा प्राप्तोधिङ्‌मां मूढमचेतनम् ॥ १९ ॥
योऽयं हरेः सन्निकासाद्‌दूतैर्निर्वासितः कथम् ।
जीवन्यास्यामि कुत्राहं किं मे तुम्बुरुणा कृतम् ॥ २० ॥
रोदमानो मुहुविद्वान्धिङ्‌मामिति च चिन्तयन् ।
ततो नारायणो लक्ष्म्याः शापं श्रुत्वा सुदारुणम् ॥ २१ ॥
लक्ष्म्या सह हृषीकेश आजगाम यतो मुनिः ।
रमा प्रसाद्य तं विप्रं प्रत्युवाच कृताञ्जलिः ॥ २२ ॥
यदुक्तं भवता मह्यं तत्तथा न तदन्यथा ।
तत्र किंचित्प्रार्थयामि मुने तत्कृपया कुरु ॥ २३ ॥
आरण्यानां मुनीनां वै स्तोकं स्तोकं च शोणितम् ।
कलसापूरितं भक्षेद्‌राक्षसी या च कामतः ॥ २४ ॥
तस्या गर्भे भविष्यामि तच्छोणितसमुद्‌भवा ।
इत्युक्तं रमयाचिन्त्य सम्भवान्नो भवेदिति ॥ २५ ॥
नारदस्तु तथेत्याह अस्याः सर्वं हि दारुणम् ।
ततो नारायणो देवः प्रोक्तवान्नारदं मुनिम् ॥ २६ ॥
नाहं दानैर्न तपसा नेज्यया नापि तीर्थतः ।
सन्तुष्यामि द्विजश्रेष्ठ यथा नाम्नां प्रकीर्तनात् ॥ २७ ॥
गानेन नामगुणयोर्मम सायुज्यमाप्नुयात् ।
निदर्शनं कौशिकोऽत्र गानान्मल्लोकमाप्तवान् ॥ २८ ॥
मूर्च्छनादियुतं गानं नाम्नामति मम प्रियम् ।
तुम्बुरुस्तत्प्रभावेण प्रियस्त्वत्तोपि मे द्विज ॥ २९ ॥
मूर्छनातालयोगेन गानेन त्वं तथा भव ।
उलूकं पश्य गत्वा त्वं यदि गाने मतिस्तव ॥ ३० ॥
मानसोत्तरशैले तु गानबन्धुरिति स्मृतः ।
तद्‌गच्छ शीघ्रं शैलेन्द्रं गानवांस्त्वं भविष्यसि ॥ ३१ ॥
इत्युक्तो विस्मयाविष्टो नारदो वाग्विदां वरः ।
मानसोत्तरशैले तु गानबन्धुं जगाम वै ॥ ३२ ॥
गन्धर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः ।
समासीनास्तु परितो गानबन्धुश्च मध्यतः ॥ ३३ ॥
गानशिक्षासमापन्नाः शिक्षिता स्तेन पक्षिणा ।
स्निग्धकण्ठस्वरास्तत्र समासीना मुदान्विताः ॥ ३४ ॥
ततो नारदमालोक्य गानबन्धुरुवाच ह ।
प्रणिपत्य यथा न्यायं स्वागतेनाभ्यपूजयेत् ॥ ३५ ॥
किमर्थं भगवन्नत्र चागतोऽसि महाद्युते ।
किं कार्यं हि महाब्रह्मन्ब्रूहि किं करवाणि ते ॥ ३६ ॥
तच्छ्रुत्वा नारदो धीमान्प्रत्युवाच सपक्षिणम् ।
उलूकेन्द्र महाप्राज्ञ शृणु सर्वं यथातथम् ॥ ३७ ॥
मम वृत्तं प्रवक्ष्यामि तच्च भूतं महाद्‌भुतम् ।
वैकुण्ठनगरेब्रह्मन्नारायणसमीपगम् ॥ ३८॥
मां विनिर्धूय संहृष्टं समाहूय च तुम्बुरुम् ।
लक्ष्मीसमन्वितो विष्णुरशृणोद्‌गानमुत्तमम् ॥ ३९ ॥
ब्रह्मादयो वयं सर्वे निरस्ताः स्थानतश्च्युताः ।
कौशिकाद्याः समासीना गानयोगेन वै हरिम् ॥ ४० ॥
समाराध्यैव सम्प्राप्ता गाणपत्यं यथासुखम् ।
तेनाहमतिदुःखार्तो यत्तप्तं तु मया तपः ॥ ४१ ॥
यद्दत्तं यद्धुतं चैव यच्चापि श्रुतमेव हि ।
यदधीतं च गानस्य कलां नार्हति षोडशीम् ॥४२॥
विष्णोर्माहात्म्ययुक्तस्य गानयोगस्य वै ततः ।
पश्चात्तापं च मे दृष्ट्वा मां च नारायणोऽब्रवीत् ॥४३॥
उलूकं गच्छ देवर्षे गानबन्धुं मतिर्यदि ।
गाने स वर्तते व्रह्मंस्तत्र त्वं गानमाप्स्यसि ॥४४॥
इत्यहं प्रेषितस्तेन त्वत्समीपमिहागतः ।
किं करिष्यामि शिष्योऽहं तव मां पालयाव्यय ॥४५॥
नारदं प्राह धर्मात्मा गानबन्धुर्महायशाः ।
शृणु नारद यद्वृत्तं पुरा मम महामते ॥४६॥
अत्याश्चर्यसमायुक्तं सर्वपापहरं शुभम् ।
भुवनेश इति ख्यातो राजाभूद्धार्मिकः पुरा ॥४७॥
अश्वमेधसहस्रैश्च वाजपेयायुतेन च ।
अन्यैश्च विविधैर्यज्ञैरिष्टवान् भूरिदक्षिणैः ॥४८॥
गवां कोट्यर्बुदं चैव सुवर्णस्य तथैव च ।
वाससां रथनागानां कन्याश्वानां तथैव च ॥४९॥
दत्वा स राजा विप्रेभ्यो मेदिनीं पर्यपालयत् ।
न्यवारयत्स्वके राज्ये गानयोगेन केशवम् ॥५०॥
अन्यं वा गानयोगेन गायेद्यदि स मे भवेत् ।
स वध्यः स्वात्मना तस्माद्वेदैरीड्यः परः पुमान् ॥५१॥
म ब्राह्मणैश्च गातव्यं महद्भिर्वेदमुत्तमम् ।
गानयोगेन सर्वत्र स्त्रियो गायन्तु मां सदा ॥५२॥
सूतमागधसङ्घाश्च गीतं मे कारयन्तु वै ।
इत्याज्ञाप्य महातेजा राजायं वै पर्यपालयत् ॥५३॥
तस्य राज्ञः पुराभ्याशे हरिमित्र इति स्मृतः ।
ब्राह्मणो विष्णुभक्तश्च सर्वद्वन्द्वविवर्जितः ॥५४॥
नदीपुलिनमासाद्य प्रतिमाञ्च हरेः शुभाम् ।
समभ्यर्च्य यथाशास्त्रं घृतदध्युत्तरं वहु ॥५५॥
मिष्ठान्नं पायसं दत्वा हरेरावेद्य धूपकम् ।
प्रणिपत्य यथान्यायं तत्र विन्यस्तमानसः ॥५६॥
अगायत हरिं तत्र तालवीणालयान्वितम् ।
अतीव स्नेहसंयुक्तस्तद्गीतेनान्तरात्मना ॥५७॥
ततो राज्ञः समादेशाद्‌ भटास्तस्य समागताः ।
तदर्चनादि सकलं निर्धूय च समन्ततः ॥ ५८ ॥
ब्राह्मणं च गृहीत्वा ते राज्ञे सम्यङ्न्यवेदयन् ।
ततो राजा द्विजश्रेष्ठं परिभर्त्स्य सुदुर्मनाः ॥ ५९ ॥
राज्यान्निर्वासयामास हृत्वा सर्वधनादिकम् ।
प्रतिमां च हरेश्चैव नापश्यत्स यदृच्छया ॥ ६० ॥
ततः कालेन महता कालधर्ममुपेयिवान् ।
लोकान्तरमनुप्राप्य उलूकं देहमाश्रितः ॥ ६१ ॥
सर्वत्र गच्छमानोऽपि भक्ष्यं किंचिन्न चाप्तवान् ।
क्षुधार्तश्च सदा खिन्नो यममाह सुदुःखितः ॥ ६२ ॥
क्षुत्पीडा वर्तते देव दुर्गतस्य सदा मम ।
मया पापं कृतं किं वा किं करिष्यामि वै यम ॥ ६३ ॥
ततस्तं धर्मराट् प्राह धर्माधर्मप्रदर्शकः ।
त्वया हि सुमहत्पापं कृतमज्ञानतो नृप ॥ ६४ ॥
हरिमित्रं प्रति तदा वासुदेवपरायणम् ।
हरिमित्रे कृतं पापं वासुदेवार्चनादिषु ॥ ६५ ॥
तेन पापेन सम्प्राप्तः क्षुद्‌बोधस्त्वां सदा नृप ।
दानयज्ञादिकं सर्वं प्रनष्टं ते नराधिप ॥ ६६ ॥
गीतनाट्यलयोपेतं गायमानं सदा हरिम् ।
हरिमित्रं समाहूय हृतवानसि तद्धनम् ॥ ६७ ॥
उपहारादिकं सर्व वासुदेवस्य सन्निधौ ।
तव भृत्याः समाहृत्य पापं चक्रुस्तवाज्ञया ॥ ६८ ॥
हरे कीर्तिं विना चान्यद् ब्राह्मणेन नृपोत्तम ।
न गेययोगे मन्तव्यं तस्मात्पापं त्वया कृतम् ॥ ६९ ॥
नष्टं ते स्वर्गलोकाद्यं गच्छ पर्वतकोटरम् ।
पूर्वोत्सृष्टं स्वदेहं ते खाद नित्यं निकृत्य वै ॥ ७० ॥
तस्मिन्क्षीणे त्विमं देहं खाद नित्यं क्षुधान्वितः ।
महानिरयसंस्थस्त्वं यावन्मन्वन्तरं भवेत् ॥ ७१ ॥
मन्वन्तरे ततोऽतीते भूम्यां त्वं श्वा भविष्यसि ।
ततःकालेन कियता मानुष्यमनुलप्स्यसे ॥ ७२ ॥
एवमुक्त्वा यमौ विद्वांस्तत्रैवान्तरधीयत ।
सोऽहं नारद भूपालः पुरेदानीमुलूकताम् ॥ ७३ ॥
लब्धवान्कर्मदोषेण हरिमित्रकृतेन वै ।
ततो मानसशैलेऽहं कोटरे ह्यवसं मुने ॥ ७४ ॥
पूर्वो मृतकदेहो मे भक्षणाय ह्युपस्थितः ।
क्षुधान्वितोऽहं तं देहं खादितुं ह्युपचक्रमे ॥ ७५ ॥
तत्क्षणं दैवयोगेन हरिमित्रो महायशाः ।
विमानेनार्कवर्णेन स्तूयमानोऽप्सरागणैः ॥ ७६ ॥
विष्णुदूतैः परिवृतः पथा तेनागतो नृप ।
विष्णुभक्तो महातेजाः पथि मां दृष्टवान्प्रभुः ॥ ७७ ॥
भुवनेशशरीरं तद्ददर्शोलूक सन्निधौ ।
पृष्टोऽहं तेन दयया शवसन्निधिसंस्थितः ॥ ७८ ॥
भुवनेशस्य नृपतेर्देहोऽयं दृश्यते खग ।
उलूकत्वं च किमिदं खादितुं चोद्यतो भवान् ॥ ७९ ॥
तच्छ्रुत्वा हरिमित्राय प्रणम्य विनयान्वितः ।
कृताञ्जलिपुटोभूत्वा बहुमानपुरःसरम् ॥ ८० ॥
तत्सर्वं पूर्ववृत्तान्तं नारदास्मै न्यवेदयम् ।
पुरापराधं त्वयि यत्तस्य पापोऽयमागतः ॥ ८१ ॥
यावन्मन्वतरं विप्र खादिष्यामि शवं त्विमम् ।
ततः श्वाहं भविष्यामि भविष्यामि ततो नरः ॥ ८२ ॥
एतऽऽदाकर्ण्य करुणो हरिमित्रमहायशाः ।
कृपया मां समाचष्ट शृणुलूक महीपते ॥ ८३ ॥
मयि त्वयापराधं यत्तत्सर्वं क्षान्तवानमहम् ।
शवो ह्यदर्शनं यातु न च श्वा त्वं भविष्यसि ॥ ८४ ॥
त्वामद्य गानयोगश्च प्राप्नोतु मत्प्रसादतः ।
स्तुहि विष्णुं च गानेन जिह्वा स्पष्टा च जायताम् ॥ ८५ ॥
सुरविद्याधराणां च गन्धर्वाप्सरसां तथा ।
गानाचार्यो भवेथास्वं भक्ष्यभोज्यसमन्वितः ॥ ८६ ॥
ततः कतिपयाहोभिः सर्वं भद्रं भविष्यति ।
हरिमित्रवचस्तच्च विष्णुदूतोपबृंहितम् ॥ ८७ ॥
सर्वं निरयसंघं मे क्षणादेव व्यनाशयत् ।
प्रकृत्या विष्णुभक्तानामीदृशी करुणा द्विज ॥ ८८ ॥
कृतापराधलोकानामपि दुखं व्यपोहति ।
अमृतस्यन्दि वचनमुक्त्वा स प्रययो हरिम् ॥ ८९ ॥
सर्वं ते कथितं येन गानाचार्योऽहमुत्तमः ।
प्राप्स्यामि हरिमेतेन हरिमित्रप्रसादतः ॥ ९० ॥
नारदैतदनुवर्णितं मया पूर्वजन्मचरितं महाद्‌भुतम् ।
यः शृणोति हरिमेत्य चेतसा स प्रयाति भवनं गदाभृतः ॥ ९१ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
नारदोलूकसम्वादे हरिमित्रोपाख्यानं नाम षष्ठः सर्गः ॥ ६ ॥

GO TOP