॥ अद्भुत रामायणम् ॥
एकादशः सर्गः
हनूमते श्रीरामकृतं सांख्ययोगवर्णनम् -
रामःप्राह हनूमन्तमात्मानं पुरुषोत्तमः ।
वत्स वत्स हनूमन्स्त्वं भक्तो यत्पृष्टशनसि ॥ १ ॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वावहितो मम ।
अवाच्यमेतद्विज्ञानमात्मगुह्यं सनातनम् ॥ २ ॥
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ।
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ॥ ३ ॥
न संसारं प्रपश्यन्ति पूर्वेऽपि ब्रह्मवादिनः ।
गुह्याद्गुह्यतमं साक्षाद्गोपनीयं प्रयत्नतः ॥ ४ ॥
वंशे भक्तिमतो ह्यस्य भवन्ति ब्रह्मवादिनः ।
आत्मा यः केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः ॥ ५ ॥
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ।
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ॥ ६ ॥
स कालाग्निस्तदव्यक्तं सद्यो वेदयति श्रुतिः ।
तस्माद्विजायते विश्वमत्रैव प्रविलीयते ॥ ७ ॥
मायावी मायया बद्धः करोति विविधास्तनूः ।
न चाप्ययं संसरति न च संसारयेत्प्रभुम् ॥ ८ ॥
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ।
न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च ॥ ९ ॥
न रूपरसगन्धाश्च नाहङ्कर्ता ना वागपि ।
न पाणिपादौ नो पायुर्न चोपस्थं प्लवङ्गम ॥ १० ॥
न कर्ता न च भोक्ता च न च प्रकृतिपूरूषौ ।
न माया नैव च प्राणश्चैतन्यं परमार्थतः ॥ ११ ॥
तथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।
तद्वदेव न सम्बन्धः प्रपञ्चपरमात्मनोः ॥ १२ ॥
छायातरू यथा लोके परस्परविलक्षणौ ।
तद्वत्प्रञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ १३ ॥
यद्यात्मा मलिनोऽवस्थौ विकारी स्यात्स्वभावतः ।
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ १४ ॥
पश्यन्ति मुनयो मुक्ताः स्वात्मानं परमार्थतः ।
विकारहीनं निर्दुःखमानन्दात्मानमव्यययम् ॥ १५ ॥
अहं कर्ता सुखी दुःखी कृशः स्थूलेति या मतिः ।
साप्यहंकृतिसम्बन्धादात्मन्यारोप्यते जनैः ॥ १६ ॥
वदन्ति वेदविद्वान्सः साक्षिणं प्रकृतेः परम् ।
भोक्तारमक्षयं बुद्ध्वा सर्वत्र समवस्थितम् ॥ १७ ॥
तस्मादज्ञान मूलोऽयं संसारः सर्व देहिनाम् ।
अज्ञानादन्यथा ज्ञातं तच्च प्रकृतिसङ्गतम् ॥ १८ ॥
नित्योदितः स्वयंज्योतिः सर्वगः पुरुषः परः ।
अहङ्कारीऽविवेकेन कर्ताहमिति मन्यते ॥ १९ ॥
पश्यन्ति ऋषयो व्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ २० ॥
तेनात्र सङ्गतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।
आत्सानमक्षरं ब्रह्म नावबुद्ध्यन्ति तत्त्वतः ॥ २१ ॥
अनात्मन्यात्मविज्ञानं तस्माद्दुःखः तथेतरत् ।
रागद्वेषादयो दोषाः सर्वभ्रान्तिनिबन्धनाः ॥ २२ ॥
कार्ये ह्यस्य भवेदेषा पुण्यापुण्यमिति श्रुतिः ।
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २३ ॥
नित्य सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २४ ॥
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।
भेदोऽव्यक्तस्वभावेन सा च मायाऽऽत्मसंश्रया ॥ २५ ॥
यथाहि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ।
अन्तःकरणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २६ ॥
यथा स्वप्रभया भाति केवलः स्फटिकोपलः ।
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २७ ॥
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुबुद्धयः ॥ २८ ॥
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।
दृश्यते ह्यर्थरूपेण पुरुषं भ्रान्तदृष्टिभिः ॥ २९ ॥
यथा संलक्ष्यते व्यक्तः केवलः स्फटिको जनैः ।
रक्तिकाव्यवधानेन तद्वत्परमपूरुषः ॥ ३० ॥
तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ ३१ ॥
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ३२ ॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते स्वयम् ॥ ३३ ॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ३४ ॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।
तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ ३५ ॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३६ ॥
यदा पश्यति चात्मायं केवलं परमार्थतः ।
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतः ॥ ३७ ॥
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ ३८ ॥
यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ ३९ ॥
तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः ।
अज्ञानेनावृतं लोकं विज्ञानं तेन मुह्यति ॥ ४० ॥
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
अज्ञानमिति तत्सर्वं विज्ञानमिति मे मतम् ॥ ४१ ॥
एतत्ते परमं सांख्यं भावितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ ४२ ॥
योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रजायते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ ४३ ॥
यदेव योगिनो यान्ति सांख्यं तदभिगम्यते ।
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४४ ॥
अन्ये च योगिनो वत्स ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव सत्त्वात्मैक्यमिति श्रुतिः ॥ ४५ ॥
यत्तत्सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ ४६ ॥
एष आत्माहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ ४७ ॥
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ ४८ ॥
अपाणिपादो जवनो गृहीतो हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः शृणोम्यहम् ॥ ४९ ॥
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ ५० ॥
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ।
यत्र देवा विजानन्ति मोहिता मायया मम ॥ ५१ ॥
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ ५२ ॥
येषां हि न समापन्ना माया वै विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ ५३ ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम ते वत्स एतद्वेदानुशासनम् ॥ ५४ ॥
नापुत्रशिष्ययोगिभ्यो दातव्यं हनुमन्क्वचित् ।
यदुक्तमेतद्विज्ञानं सांख्ययोगसमाश्रयम् ॥ ५५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे सांख्ययोगो नामैकादशः सर्गः ॥ ११ ॥
GO TOP
|