॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
सारकाण्डम्
॥ पंचमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥ धर्मदत्त उवाच - विलयं यांति पापानि तीर्थदानव्रतादिभिः । प्रेतदेहे स्थितायास्ते तेषु नैवाधिकारिता ॥ १ ॥ त्वत् ग्लानिदर्शनात् अस्मात् खिन्नं च मम मानसम् । नैव निर्वृत्तिमायाति त्वां अनुधृत्य दुःखिताम् ॥ २ ॥ पातकं च तवात्युग्रं योनित्रय विपाकजम् । नैवाल्पैअः क्षीयते पुणैः प्रेतत्वं चातिगर्हितम् ॥ ३ ॥ तस्मात् आजन्मजनितं यन्मया कार्तिकव्रतम् । तत्पुण्यस्यार्धभागेन सद्गति त्वं अवाप्नुबि ॥ ४ ॥ कार्तिकव्रतपुण्येन न साम्यं यांति सर्वथा । यज्ञदानानि तीर्थानि व्रतान्यपि ततो ध्रुवम् ॥ ५ ॥ मुद्गल उवाच - इत्युक्त्वा धर्मदत्तोऽसौ यावत् तां अभ्यषेचयत् । तुलसीमिश्रतोयेन श्रावयन् द्वादक्षारम् ॥ ६ ॥ तावत् प्रेतत्व निर्मुक्त्ता ज्वलदग्निशिखोपमा । दिव्यरूपधरा जाता लावण्येन यथोर्वशी ॥ ७ ॥ ततः सा दंडवत् भूमौ प्रणनाम यदा द्विजम् । उवाच सा तदा वाक्यं हर्ष गद्गदभाषिणी ॥ ८ ॥ कलहोवाच - त्वत् प्रसादात् द्विजश्रेष्ठ विमुक्ता निरयादहम् । पापाब्धौ मज्जमानायां त्वं नौभूतोऽसि मे ध्रुवम् ॥ ९ ॥ इत्थं सा वदती विप्रं ददर्शायांतमंबरात् । विमानं सुंदरम् युक्तं विष्णुरूपधरैर्गणैः ॥ १० ॥ अथ सा तत् विमानस्थैः विमाने चाधिरोपिता । पुण्यशीलसुशीलाद्यैः अप्सरोगणसेविता ॥ ११ ॥ तद्विमानं तदाऽपश्यत् धर्मदत्तः सविस्मयः । पपात दंडवत् भूमौ दृष्ट्वा तौ पुण्यरूपिणौ ॥ १२ ॥ पुण्यशीलसुशीलौ च समुत्थाप्यानतं द्विजम् । समभ्यनंदयन् वाणीं प्रोचतुर्धर्मसंयुताम् ॥ १३ ॥ गणावूचतूः - साधु साधु द्विजश्रेष्ठ यस्त्वम् विष्णुरतः सदा । दीनानुकंपी धर्मज्ञो विष्णुव्रतपरायणाः ॥ १४ ॥ आबालत्वात् त्वया ह्येतत् यत्कृतं कार्तिकव्रतम् । तव तस्यार्धदानेन पुण्यं द्वैगुण्यमागतम् ॥ १५ ॥ त्वत् पुण्यसार्धभागेन यदस्याः पूर्वकर्मजम् । जन्मांतरशतोद्भूतम् पापं तद्विलयं गतम् ॥ १६ ॥ स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम् । हरिजागरणाद्यैश्च विमानं इदमागतम् ॥ १७ ॥ वैकुण्ठं नीयते साधो नानाभोगयुता त्वियम् । दीपदानभवैः पुण्यैः तैजसं रूपमाश्रिता ॥ १८ ॥ तुलसीपूजनाद्यैश्च कार्तिकव्रतकैः शुभैः । विष्णुसान्निध्यगा जाता त्वया दतैः कृपानिधे ॥ १९ ॥ त्वमप्यस्य भ्वस्यान्ते भार्यया सह यास्यति । वैकुंठभुवनं विष्णोः सान्निध्यं च सरूपताम् ॥ २० ॥ ते धन्याः कृतपुण्यास्ते तेषां च सफलो भवः । यः भक्त्या आराधितो विष्णु धर्मदत्त त्वया यथा ॥ २१ ॥ सम्यक् आराधितो विष्णुः किं न यच्छति देहिनाम् । औत्तानपादिर्येनैव ध्रुवत्वे स्थापितः पुरा ॥ २२ ॥ यन्नामस्मरणात् एव देहिनो यांति सद्गतिम् । ग्राहगृहीतो नागेंद्रो यन्नामस्मरणात् पुरा ॥ २३ ॥ विमुक्तः संनिधिं प्राप्तो जातोऽयं जयसंज्ञकः । ग्राहोऽयं विजयो नाम्ना श्रीविष्णोश्चिंतनादभूत् ॥ २४ ॥ यतः त्वयाऽर्चितो विष्णुः तत्सान्निध्यं प्रयास्यसि । बहूनि अष्टसहस्राणि भार्याद्वय युतस्य ते ॥ २५ ॥ ततः पुण्ये क्षयं प्राप्ते यदा यास्यसि भूतलम् । सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यति ॥ २६ ॥ नाम्ना दशरथ्स्तत्र भार्याद्वययुतः पुमान् । तृतीयेयं त्वया भार्या पुण्य्स्यैवार्धभागिनी ॥ २७ ॥ कलहा कैकेयी नाम्नी भविष्यति न संशयः । तत्रापि तव सान्निध्यं विष्णुर्दास्यति भूतले ॥ २८ ॥ आत्मानं तव पुत्रत्वं प्रकल्प्यामरकार्यकृत् । रामनाम्ना रावणादीन् हत्वा राज्यं करिष्यति ॥ २९ ॥ तव आजन्म व्रतात् अस्मात् विष्णुसंतुष्टिकारणात् । न यज्ञा न च दानानि न तीर्थानि अधिकानि वै ॥ ३० ॥ अतस्त्वग्रेऽपि धर्मस्य नित्यं विष्णुव्रते स्थितः । त्यक्त मात्सर्य दंभोऽपि भव त्वं समदर्शनः ॥ ३१ ॥ कारित्के माधवे माघे चैत्रे मासचतुष्टये । प्रत्यब्दम् त्वं धर्मदत्त प्रातःस्नायी सदा भव ॥ ३२ ॥ एकादशीव्रते तिष्ठ तुलसीवनपालकः । ब्राह्मणान् अपि गाश्चापि वैष्ण्वांश्च सदा भज ॥ ३३ ॥ मसूरिकाश्चारनालं वृन्ताकादीनि खाद मा । एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ॥ ३४ ॥ प्राप्नोति धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् । पुण्यशीलसुशीलाख्यौ जयश्च विजयस्तथा ॥ ३५ ॥ धन्योऽसि विप्राग्र्य यतस्त्वयैतत् व्रतं कृतं तुष्टिकरं जगद्गुरोः । यदर्धभागात् सफलान् मुरारेः प्रणीयतेऽस्माभिः इयं सलोकताम् ॥ ३६ ॥ मुद्गल उवाच - इत्थं तौ धर्मदत्तं तं उपदिश्य विमानगौ । तया कलहया सार्धं वैकुंठभुवनं गतौ ॥ ३७ ॥ धर्मदत्तोऽप्यसौ राजन् प्रत्यब्दं तद्व्रते स्थितः । देहांते परमं स्थानं भार्याभ्यां अन्वितोऽभ्यगात् ॥ ३८ ॥ बहून्यब्दसहस्राणि स्थित्वा वैकुण्ठसद्मनि । ततः पुण्यक्षये जाते जातोऽसि त्वं नृपो महान् ॥ ३९ ॥ त्रिभिः स्त्रीभिः दशरथ ते विष्णुः पुत्रतां गतः । रामोऽयं लक्ष्मणः शेषो भरतोऽब्जोऽरिशत्रुहा ॥ ४० ॥ एवं सर्वं मयाऽऽख्यातं यथा पृष्टं त्वया मम । धन्यस्त्वं यस्य तनयः साक्षात् नारायणोऽभवत् ॥ ४१ ॥ इत्युक्त्वा नृपतिं पूज्य विससर्ज मुनिस्तदा । आलिंग्य रामं सौमित्रिं मेने च कृतकृत्यताम् ॥ ४२ ॥ तदा राजा स्वसैन्येन महाहर्षसमन्वितः । अयोध्यां अगमत् रम्यां गोपुराट्टालमंडिताम् ॥ ४३ ॥ नृपमगतमाज्ञाय मंत्रिणः पुरवासिनः । पताकातोरणाद्यैश्च दिव्यचंदनसेचनैः ॥ ४४ ॥ नगरीं भूषयित्वा ते नृत्यवाद्यादिमंगलैः । निन्युः कुटुंबसहितं राजानं नगरीं प्रति ॥ ४५ ॥ राममागतमाज्ञाय गोपुराट्टालपंक्तिषु । कट्यां निधाय बालांश्च स्त्रियः स्थित्वा निजैः करैः ॥ ४६ ॥ सुवर्णकुसुमाद्यैश्च ववर्षु पुष्पवृष्टिभिः । काश्चित् मार्गोपति स्थित्वा कुंभदीपादिमंगलैः ॥ ४७ ॥ आर्तिक्याश्च राजानं सरामं शांतिकारकैः । पूजयंति स्म ताः सर्वा राजमार्गे पृथक् पृथक् ॥ ४८ ॥ एवं नानासमुत्साहैः नर्तनैः वारयोषिताम् । दुंदुभीनां निनादैश्च गायकानां च गायनैः ॥ ४९ ॥ सौधोद्भवाक्षैश्च स्त्रीमुक्तपुष्पवृष्टिभिः । ययौ स्वशिबिरं राजा वीज्यमानः सुचामरैः ॥ ५० ॥ ततस्तान् जनकामात्यान् वस्त्रालंकारवाहनैः । सत्कृत्य भोजनाद्यैश्च प्रेषयामास मैथिलम् ॥ ५१ ॥ एवं सर्वेषूत्सवेशु जनको वार्षिकेषु सः । विनाय मिथिलां रामं मातृभिः पार्थिवेन च ॥ ५२ ॥ उत्तरोत्तरतः पूज्य तोषयामास राघवम् । रामोऽपि रमयामास लीलाभिः नृपतिं तदा ॥ ५३ ॥ मासैः षड्भिः जनकजा लघ्वी श्रीराघवान् शुभा । लग्नात्त्वेकादशे वर्षे रजोयुक्ता बभूव ह ॥ ५४ ॥ तद्वार्तां जनकः श्रुत्वा पत्नीभिर्मंत्रिभिः सह । अयोध्यां अगमत् शीघ्रं राजा प्रत्युज्जगाम तम् ॥ ५५ ॥ परस्परं समालिंग्य साकेतमिथिलाधिपौ । नृत्यवाद्यसमुत्साहैः अयोध्यां विविशुः सुखम् ॥ ५६ ॥ ततो महासमुत्साहैः नानामंडपतोरणैः । कदलीस्तंभमालाभिः इक्षुदंडैः सुचामरैः ॥ ५७ ॥ चतुर्द्वारः मण्डपैश्च घंटाघोषैः सदर्पणैः । किंकिणीजालघोषैश्च वितानैर्दीपराजिभिः ॥ ५८ ॥ वसिष्ठो मुनिभिः सार्धं गर्भाधानविधिं शुभम् । कारयामास रामेण सीतायाश्चातिहर्षितः ॥ ५९ ॥ तदा वस्त्रैलंकारैः जनको नृपतिं मुदा । पूजयामास सस्त्रीकं स्नुषापुत्रसमन्वितम् ॥ ६० ॥ मासमेकं अतिक्रम्य ययौ न्स्वनगरीं सुखम् । रामोऽपि सीतया सार्धं नानाभोगान् सुपुष्कलान् ॥ ६१ ॥ बुभुजे हेमरत्नादि निर्मितेषु गृहेषु च । रुक्ममंडनयुक्ताभिः दासीभिः योजितः सुखम् ॥ ६२ ॥ एवं तासां नृपसुत पत्नीनां च पृथक् पृथक् । यथाकाले निधानेषु वाद्यघोषो गृहे गृहे ॥ ६४ ॥ मंगलानि च सर्वत्र न कुत्राप्यस्त्यमंगलम् । न दरिद्री ऋणी नासीत्नाधिव्याधिप्रपीडितः ॥ ६५ ॥ रामादिभिश्चतुर्भितैः बंधुभिः तदनंतरम् । पृथ्ग् गेहे भार्याभिः गार्हस्थ्यं अध्यनुष्ठितम् ॥ ६६ ॥ रामः प्रातः समुत्थाय कृतशौचादिसत्क्रियः । आरुह्य शिबिकां दिव्यां स्नानार्थं सरयूं नदीम् ॥ ६७ ॥ गत्वा कूले वाहनादि विसृज्य रघुनंदनः । गच्छन् तस्यां पावनार्थं सरय्वाः पुलिने मुदा ॥ ६८ ॥ मंत्रिभिः वेष्टितो गत्वा नत्वा तां सरयूनदीम् । स्नात्वा नित्यविधिं कृत्वा ब्राह्मणैः परिवारितः ॥ ६९ ॥ दत्त्वा दानानि अनेकानि गोभूधान्य रसादिभिः । संपूज्य सरयूं पुण्यां ब्राह्मणान् पूज्य सादरम् ॥ ७० ॥ ययौ रथं समारुह्य रुक्मबंधनबंधितम् । रुक्मतंतुरज्जुभिश्च सर्वतः परिवेष्टितम् ॥ ७१ ॥ पट्टकूलादिवसनैः वरैराच्छादितं शुभम् । वाजिवाहं सारथिना सुस्नातेन प्रचोदितम् ॥ ७२ ॥ किंकिणीवरमालाभिः घंटाभिः अतिगर्जितम् । रुक्मदंडधरिः दूतैग्रे दर्शित्सत्पथम् ॥ ७३ ॥ पथि निराजितः स्त्रीभिः वर्षितः पुष्पवृष्टिभिः । प्राप स्वीयं गृहं रामः सूर्यकोटिसमप्रभम् ॥ ७४ ॥ अवरुह्य रथाद् रामः पादयोर्धृत्य पादुके । विवेश सीतासंदत्त पादार्घ्याचमनो गृहम् ॥ ७५ ॥ गत्वाऽग्निहोत्रशालायां सीतयाऽसन संस्थितः । अग्निहोत्रादिविधिना वह्निं हुत्वा ततः परम् ॥ ७६ ॥ स्फटिकस्य च लिंगस्य कर्ममार्गं यथाविधि । लिकानां शिक्षणार्थाय कृत्वा पूजनमुत्तमम् ॥ ७७ ॥ जानक्यादत्त पक्वान्न नैवेद्यादि समर्प्य च । ब्राह्मणान् पूज्य दानादैः तोष्य लब्ध्वा तदाशिषः ॥ ७८ ॥ तुलसीं च गुरुं धेनुं अश्वत्थं मुनिपादपम् । पूजयित्वा रविं देवं ब्रह्मयज्ञं विधाय च ॥ ७९ ॥ गुरोर्मुखाच्च पौराणीं कथां श्रुत्वा तु सीतया । गुरुं पुनः प्रपूज्याअथ बंधिभिः परिवेष्टितः ॥ ८० ॥ प्रार्थितश्च मुहुः पत्न्या ब्राह्मणैः परिवारितः । नारिकेल कपित्थाम्र सुलभाजंबुदाडिमैः ॥ ८१ ॥ खर्जुरिकापनसाद्यैः पक्वान्नैः घृतपाचितैः । उपाहारं सुखं कृत्वा तांबूलं परिगृह्य च ॥ ८२ ॥ दिव्यवस्त्राणि संगृह्य दृष्त्वाऽऽदर्शे निजं मुखम् । निरीक्षितश्च वैदेह्या आरुह्य स्यंदनमुत्तमम् ॥ ८३ ॥ वेष्टितो मंत्रिदूताद्यैः तूर्यध्वनिपुरःसरम् । मातृगेहं ततो गत्वा तां प्रणम्यावनिं गतः ॥ ८४ ॥ सव्या प्रदक्षिणं कृत्वा गत्वा राजगृहं प्रति । सिंहासनस्थं राजानं नत्वा स्थित्वा तदाज्ञया ॥ ८५ ॥ पौरकार्याण्यनेकानि कृत्वा राज्ञा विसर्जितः । ययौ स्यंदनमास्थाय नृपं नत्वा पुनः पुनः ॥ ८६ ॥ तूर्यगीतनिनादैश्च नर्तनैर्वारयोषिताम् । ययौ स्वीयं गृहः रामः स्यंदनाद् अवरुह्य च ॥ ८७ ॥ भूमिजा दत्तपार्घ्या आचमनोयासनादिकम् । गृहित्वा तद्बहिर्गत्वा कृतं तत् तां न्यवेदयत् ॥ ८८ ॥ सर्वं वृत्तं कौतुकेन हास्यगीतादिमंगलैः । रमयित्वा भूमिकन्यां दिव्यवस्त्रादिभूषिताम् ॥ ८९ ॥ ततो मध्याह्नसमये सरय्वां वाऽथ सद्मनि । स्नात्वा माध्याह्निकं कर्म चकार रघुनंदनः ॥ ९० ॥ नित्यं यत्राकरोत्स्नानं सरयूनिर्मले जले । तदाख्ययाऽभवत्तीर्थं रामतीर्थं इति स्फुटम् ॥ ९१ ॥ तद्विख्यातं त्रिभुवने चैत्रमासि विशेषतः । माध्याह्निकं च संपाद्य ब्राह्मणः मंत्रिभिर्जनैः ॥ ९२ ॥ इष्टैः सुवर्णपात्रेषु त्रिपदासु घृतेन च । परिष्कृतेषु जानक्या सीतया गतिलाघवात् ॥ ९३ ॥ क्वणत्कंकणमंजीर किंकिणी नूपुरादिषु । नदस्तु भोजनं चक्रे राघवो हर्षपूरितः ॥ ९४ ॥ करशुद्धिं विधायाथ भुक्त्वा तांबूलमुत्तमम् । ततः शतपदं गत्वा निद्रां कृत्वा तु सीतया ॥ ९५ ॥ पुनर्वस्त्राणि संगृह्य लब्ध्वा शस्त्राणि सादरम् । धनुर्बाणौ करे धृत्वा रथे स्थित्वाऽथ बंधुभिः ॥ ९६ ॥ पुष्पारामोद्याकादीन् दृष्ट्वा तु कौतुकेन च । वाद्यघोषैर्नर्तनाद्यैः गत्वा स्वीयं गृहं पुन्हः ॥ ९७ ॥ सायंसंध्यादि संपाद्य पुनर्हुत्वा सविस्तरम् । शंभुं भक्त्या पुनः पूज्य कृत्वा चैवोपहारकम् ॥ ९८ ॥ रत्नकांचन माणिक्य निर्मिते मंचके वरे । दिव्यप्रासादमध्ये स सीतया रघुनायकः ॥ ९९ ॥ हास्यगीतविनोदाद्यैः निद्रां चक्रे ततः परम् । एव नानासमुत्साहैः निनायार्कसमाः सुखम् ॥ १०० ॥ एकदा राघवं राजा ज्ञात्वा मुद्गलवाक्यतः । वसिष्ठवाक्यतश्चापि चरित्रैश्चाप्यमानुषैः ॥ १ ॥ साक्षात् नारायणं विष्णुं मत्वाहूय रहः स्थितः । पप्रच्छ विनयेनैव हृदि भावं विधाय च ॥ २ ॥ राम नारायणस्तवं हि भूभारहरणाय च । मत्तो जातोऽसीति लोका वदंत्यज्ञानबुद्धयः ॥ ३ ॥ अतः पृच्छामि ते राम मायया मोहितस्तव । किंचित् ज्ञानोपदेशेन नाशयाज्ञानजां मतिम् ॥ ४ ॥ दारापत्यादिगेहेषु स्थिता नैवोपशाम्यति । तत्पितुर्वचनं श्रुत्वा राजानं राघवोऽब्रवीत् ॥ ५ ॥ श्रीराम उवाच - श्रुणु राजन् प्रवक्ष्यामि तव ज्ञानार्थमुत्तमम् । श्रृणोतु मम मातेयं कौसल्याऽपि तव प्रिया ॥ ६ ॥ नश्वरं भासते चैतत्विश्वं मायोद्भवं नृप । यथा शुक्तौ रौप्यभाव्सः काचभूम्यां जलस्य च ॥ ७ ॥ यथा रज्जौ सर्पभासो मृगत्ओये जलस्पृहा । तद्वदात्मनि भासोऽयं कल्प्यते नश्वरोऽबुधैः ॥ ८ ॥ अज्ञानदृष्टिभिर्नित्यं मन्यते न तु पंडितैः । आत्मा शुद्धो निर्व्यलीकः सच्चिदानंदलक्ष्मणः ॥ ९ ॥ यस्यांशांशेन विश्वेशा ब्रह्माद्याः सकला वयम् । स्थित्युत्पत्तिविनाशार्थं नानारूपाणि मायया ॥ ११० ॥ धार्यंते नटवत् राजन् न तेष्वासक्त एव सः । यथा पद्मं न स्पृशति जलं मायां तथा मलः ॥ ११ ॥ आत्मा नित्यो न स्पृशति परमानंदविग्रहः । दीहागारसुतस्त्रीषु मामकेति च या मतिः ॥ १२ ॥ उपसंहृत्य बुद्ध्वा संन्यस्य ब्रह्मणि चिद्घने । यद्यत् किंचित् भासतेऽत्र तत्तन्नारायणात्मकम् ॥ १३ ॥ पश्य त्वं सर्वभावेन मुच्यसे भवसंकटात् । सत्यं शौचं दया शांति क्षमाः चेंद्रियनिग्रहः ॥ १४ ॥ अहिंसा भगवद्भक्ति वेदमार्गानुवर्तनम् । इत्याद्या ये गुणा राजन् तान् भजस्व निरंतरम् ॥ १५ ॥ चौर्यं द्यूतं विवादं च मात्सर्यं दंभमेव च । क्रौर्यं लोभं भयं द्रोधं शोकं निंद्यप्रवर्तनम् ॥ १६ ॥ वेदप्रियतीनां च साधूनां मानभंजनम् । निंदां पैशुन्यमनिशं त्यज दूरं स्वतो नृप ॥ १७ ॥ पूर्वं त्वया तपस्तप्तं पुत्रत्वं याचितं मम । तस्मात् जातोस्मि त्वत्त्ऽहं कौसल्यायांनृपोत्तम ॥ १८ ॥ यन्मया कथितं चैतत् अज्ञानमलनाशनम् । गोपनीयं प्रयत्नेन कथनीयं न कुत्रचित् ॥ १९ ॥ तद्रामवचनं श्रुत्वा गरमायामलो नृपः । सद्भावपरिपूर्णस्तु रोमांचितवपुर्धरः ॥ १२० ॥ प्रणनाम राघवस्य चरणौ दृढभावतः । ततो रामः पुनः प्राह पितरं निर्मलाशयम् ॥ २१ ॥ नेदं योग्यं त्वया राजन् वंदनादि शिशुं प्रति । मायया नरवेषस्य मम उपहासकारणम् ॥ २२ ॥ मनसैव च मा नित्यं भज भावेन सादरम् । मच्चित्तो मद्गतप्राणो मयि भक्तिं दृढां कुरु ॥ २३ ॥ इत्युक्त्वा पितरौ नत्वा गृहीत्वाज्ञां तयोः प्रभुः । ययौ रथसमारूढः श्रीरामः स्वनिकेतनम् ॥ २४ ॥ कदा मातुर्गृहं गत्वा सीतया भोजनं व्यवधात् । कदा भ्रातृगृहेष्वेव कदा पंक्तौ पितुः स्वयम् ॥ २५ ॥ कदा दशरथं तातं भोजनार्थं निजे गृहे । भार्यापुत्रादिभिर्युक्तं पौरैः विप्रैः समन्वितम् ॥ २६ ॥ मुदा रामः समाहूय भोजयामास सादरम् । श्रीरामदर्शनार्थं ते तपोवननिवासिनः ॥ २७ ॥ अयोध्यानगरीमेत्य द्वारपैरनिशेधिताः । शतशः प्रत्यहं रामं दृष्ट्वा स्तुत्वा पुनः पुनः ॥ २८ ॥ आतिथ्यं रघुनाथस्य गृहीत्वा तुष्टमानसाः । सप्तपंचदिनान्येव स्थित्वा पुण्यकथादिभिः ॥ २९ ॥ रमयित्वा रमानाथं जग्मुः स्वं स्वं वराश्रमम् । यत्र यत्र हि रामस्य प्रीतिं ज्ञात्वा विदेहजा ॥ १३० ॥ तत्तत् चकार साध्वी हास्यक्रीडासनादिकम् । विवाहानन्तरं रामः समा द्वादश सीतया ॥ ३१ ॥ रमयामास साकेते महाक्रीडापुरःसरम् । सहस्रवर्षैः विज्ञेयं श्रेष्ठं वर्षं कृते युगे ॥ ३२ ॥ शतवर्षश्च त्रेतायां द्वापरे दशवर्षजम् । कलेर्मानेन बोद्धव्यं शून्यह्रासात् त्रिविक्रमात् ॥ ३३ ॥ एवं श्रीरामचंद्रेण भोगा भुक्ताः सुरोपमाः । यस्मिन् ऋतौ च यद्द्रव्यं फलपुष्पादिकं शुभम् ॥ ३४ ॥ तत्सर्वं सर्वदैवासीत् रामे साकेतसंस्थिते । अनावृष्टिर्न वै कुत्र तस्कराणां भयं न हि ॥ ३५ ॥ हिंसादीनां भयं नासीत् अयोध्याविषये प्रिये । युधाजित् नाम कैकेयी भ्राता भरतमातुलः ॥ ३६ ॥ निनाय भरतं स्वीय - राज्ये शत्रुघ्नसंयुतम् । कौतुकेन नृपं पृष्ट्वा कैकेयीं प्रणिपत्य च ॥ ३७ ॥ एवं रामस्य मांगल्यं बालत्वेऽपि सुखावहम् । ये श्रृण्वंति नरा भक्त्या न तेषास्त्यमंगलम् ॥ ३८ ॥ एवं यथा त्वया पृष्टं तथा सर्वं मयोदितम् । रामेणाचरितं यच्च नृणां मांगल्यदायकम् ॥ ३९ ॥ एवं गिरींद्रजे प्रोक्तं बाललीलादि कौतुकम् । रामचम्द्रस्य संक्षेपात् त्व प्रीत्यै सुखावहम् ॥ १४० ॥ इति श्री शतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे रामदिनचर्यावर्णनं नाम पंचमः सर्गः ॥ ५ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |