॥ अद्भुत रामायणम् ॥
अष्टमः सर्गः
सीतोत्पत्तिवर्णनम् -
यथा सा शोणितोद्भूता राक्षसीगर्भ सम्भवा ।
यथा भूमितलोत्पन्ना जानकी च यथा हि सा ॥ १ ॥
सीता तच्छृणु विप्रेन्द्र वर्णयामि तवानघ ।
दशास्यो रावणो नाम तपस्तप्तुं मनो दधे ॥ २ ॥
त्रैलोक्यस्याधिपत्याय अजरामरणाय च ।
बहुवर्षं तपस्तप्त्वा ज्वलनार्कसमोऽज्वलत् ॥ ३ ॥
तत्तेजसा जगत्सर्वं दह्यमानं यदाभवत् ।
तमुवाच तदा ब्रह्मा समागत्य सुरैर्वृतः ॥ ४ ॥
पौलस्त्य विरमाद्य त्वं तपसो मम वाक्यतः ।
तपसोग्रेण महता लोका भस्मीकृता इव ॥ ५ ॥
वरं ददामि ते वत्स यत्ते मनसि वर्तते ।
तपोधन लभस्वाद्य वरदान्मत्त ईप्सितम् ॥ ६ ॥
न्यवारयत चक्षूंषि सूर्यबिम्बावलोकनात् ।
प्रणिपत्य जगन्नाथं वरं वव्रे स रावणः ॥ ७ ॥
देहि सर्वामरत्वं मे वरदोऽसि यदि प्रभुः ।
तदाकर्ण्य वचो ब्रह्मा पुनः प्राह स रावणम् ॥ ८ ॥
नहि सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।
ततः स रावणः प्राह कूटवादी हि राक्षसः ॥ ९ ॥
न सुरा नासुरा यक्षाः पिशाचोरगराक्षसाः ।
विद्याधराः किन्नरा वा तथैवाप्सरसां गणाः ॥ १० ॥
न हन्युर्मां कथं चित्तद्देहि मे वरमुत्तमम् ।
अन्यच्च ते वृणे ब्रह्मंस्तच्छृणुष्व पितामह ॥ ११ ॥
आत्मनो दुहिता मोहदात्यर्थं प्रार्थिता भवेत् ।
तदा मृत्युर्मम भवेद्यदि कन्या न कांक्षति ॥ १२ ॥
तथेत्युक्त्वा जगामाशु ब्रह्मा लोकपितामहः ।
नरान्नाजीगणद्रक्षां मत्वा तांस्त्तृणवद्द्विज ॥ १३ ॥
ब्रह्मदत्तवरो राजा रावणो वरदर्पितः ।
त्रैलोक्यजयसर्वस्वं प्राप्तवान्बाहुवीर्यतः ॥ १४ ॥
एकदा रावणो राजा दण्डकारण्यमागतः ।
तत्रर्षिनग्निकल्पांश्च दृष्ट्वा मनस्यचिन्तयत् ॥ १५ ॥
एतान्न जित्वा हि कथं त्रिलोकीजयभागहम् ।
एषां वधेन च श्रेयो न पश्यामि महात्मानाम् ॥ १६ ॥
दुरात्मा स विचिन्त्यैतत्प्राह तान्यमुनिपुङ्गन्वान् ।
अहं सर्वस्य जगतः शास्ता च जयभागहम् ॥ १७ ॥
भवतां जयमाकांक्षे जयं दत्त द्विजर्षभाः ।
इत्युक्त्वा स शराग्रेण क्षताच्छोणितमङ्गतः ॥ १८ ॥
बलादाकृष्य तेषां वै कललेऽस्थापयत्प्रभुः ।
तत्र गृत्समदो नाम शतपुत्रपिता द्विजः ॥ १९ ॥
दुहित्रर्थे भार्यया स प्रार्थितो भगवान्मुनिः ।
लक्ष्मीर्मे दुहिता भूयादित्यसौ कलशे विभुः ॥ २० ॥
दुग्धं चाहरहस्तत्र कुशाग्रेण समन्त्रतः ।
स्थापयत्येष नियतस्तदहर्निर्ययौ वनम् ॥ २१ ॥
तद्दिने दैवयोगेन कलशे तत्र रावणः ।
मुनीनां शोणितं स्थाप्य गृहीत्वा स्वगृहं ययौ ॥ २२ ॥
भार्यां मन्दोदरीं प्राह कलशं रक्ष सुन्दरि ।
विषादप्यधिकं विद्धि शोणितं कलशे स्थितम् ॥ २३ ॥
न देयं नापि वा भक्ष्यं मुनीनां शोणितं त्विदम् ।
त्रेलोक्यजयलाभेन रावणो लोकरावणः ॥ २४ ॥
देवदानवयक्षाणां गन्धर्वाणां च कन्यकाः ।
आहृत्य रमयामास मन्दरे सह्यपर्वते ॥ २५ ॥
हिमवन्मेरुविन्ध्याद्रौ रमणीयवने तथा ।
मन्दोदरी तथा दृष्ट्वा पतिं सा हि मनस्विनी ॥ २६ ॥
आत्मानं गर्हयामास भर्तुः स्नेहमपश्यती ।
धिग्जीवितं हि नारीणां यौवनं कुलमेव च ॥ २७ ॥
वञ्चिताः पतिना याः स्युस्तस्मान्मे मरणं वरम् ।
पुरा रावणसन्दिष्टं शोणितं क्ष्वेडतोऽधिकम् ॥ २८ ॥
पपौ मरणमाकाङ्क्ष्य पतिना वञ्चिता सती ।
लक्ष्मीशरणदुग्धेन मिश्रिताच्छोणिताद्भुतम् ॥ २९ ॥
सद्यो रावणाकान्ताया गर्भो ज्वलनसन्निभः
ततो विस्मयमापन्ना सा हि मन्दोरी शुभा ॥ ३० ॥
पीतं विषाधिकं रक्तं गर्भस्तेनाभवन्मम ।
इति सञ्चिन्तयामास भर्ता विप्रेषितो मम ॥ ३१ ॥
कामिनीभिः क्रीडतः स कामी भर्ता हि रावणः ।
सम्वत्सरमिमं भर्त्रा सह मे वसतिर्नहि ॥ ३२ ॥
कि वक्तव्यं मया साध्व्या गर्भिण्या भर्तृ संसदि ।
चिन्तया दग्धगात्रीव तीर्थसेवन छद्मना ॥ ३३ ॥
विमानवरमारुह्य कुरुक्षेत्रं जगाम सा ।
तत्र गर्भं विनिष्कृष्य निचखान भुवस्तले ॥ ३४ ॥
स्नात्वा सरस्वतीतोये पुनरायात्स्वमालयम् ।
न चोदितं तत्कस्मैचिद्रहः कार्यं सुगोपितम् ॥ ३५ ॥
कालेन कियता ब्रह्मञ्जनकर्षिर्महामनाः ।
कुरुक्षेत्रं समासाद्य जाङ्गले यज्ञमावहन् ॥ ३६ ॥
स्वर्णलाङ्गलमादाय यज्ञभूमिं चखान सः ।
स्वर्णलाङ्गलसीतान्तः कन्यैका प्रोत्थिताभवत् ॥ ३७ ॥
पुष्पवृष्टिश्च महती पपात कन्यकोपरि ।
तद्दृष्ट्वा महदाश्चर्यं राजा विस्मयमागतः ॥ ३८ ॥
कर्तव्य मूढतामाप ततः खेऽभूत्सरस्वती ।
राजन्गृहाण कन्यां त्वं पालयैनां महाप्रभाम् ॥ ३९ ॥
ज्वलनार्कसमां दिव्यां महत्कार्यं तवालये ।
भविष्यति महाभाग क्षेमं च जगतोऽनया ॥ ४० ॥
यज्ञः सम्पाद्यतां राजन्नायं विघ्नस्तवानघ ।
नामास्याः किल सीतेति सीताया उत्थिता यतः ॥ ४१ ॥
कल्पयेनां दुहितरमित्युक्त्वावाक्तिरोहिता ।
तच्छ्रुत्वा प्रीतिमान् राजा यज्ञं कृत्वा महाधनम् ॥ ४२ ॥
जगाम सीतामादाय महर्षिभ्यश्च तां ददौ ।
एतत्ते कथितं विप्र सीताजन्मैककारणम् ।
श्रुत्वैतत्सर्वपापेभ्यो मुक्तो भवति मानवः ॥ ४३ ॥
जनकदुहितृजन्म श्रावयित्वा तु श्रुत्वा
न पुनरिह जन्म प्राप्नुयात्पुण्यवांश्च ।
दशरथसुतकान्ता तस्य गेहं कदाचित्
द्विसृजति नहि सर्वैः पातकैर्मुच्यते च ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
अद्भुतोत्तरकाण्डे श्रीसीतोत्पत्तिर्नामऽष्टमः सर्गः ॥ ८ ॥
GO TOP
|