॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
सारकाण्डम्
॥ चतुर्थः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीशिव उवाच - अथ सीतायुतः श्रीमान् रामः साकेतसंस्थितः । बुभुजे विविधान् भोतान् राजसेवापरोऽभवत् ॥ १ ॥ शरत्कालाश्विने मासि जनकेन स्वमंत्रिणः । आह्वानाय च राजानं प्रेषितास्त्वरितं ययुः ॥ २ ॥ तान् आगतान् दशरथः शीघ्रं सत्कुट्य सादरम् । प्रपच्छागमने हेतुं तेऽपि नत्वा तमूचिरे ॥ ३ ॥ दीपावलि उत्सवार्थं त्वं स कुटुंबं समंत्रिणम् । पौरजानपदैः साकं आह्वयामास ते सुहृत् ॥ ४ ॥ तत्तेषां वचनं श्रुत्वा दूतान आज्ञापयन् नृपः । कथ्यतां नगरे राष्ट्रे गमनं मिथिलां प्रति ॥ ५ ॥ सुमुहूर्ते ततो राजा हस्त्यश्व-रथपत्तिभिः । पौरेऐः जानपदैः साकं ययौ करिविराजितः ॥ ६ ॥ राज्ञः पृष्ठे समाजग्मुः गजोपरि विराजिताः । राम-लक्ष्मण-भरत शत्रुघ्नास्ते स्वलंकृताः ॥ ७ ॥ कौसल्याद्या राजदारा स्नुषाभिस्ताः पृथक् पृथक् । रत्नमाणिक्य मुक्तादि शोधितसु वरासु च ॥ ८ ॥ करिणीषु समासीना वेष्टिता वेत्रपाणिभिः । धातृकाभिः स्वदादीभिः ययुः वस्त्रादिभूषिताः ॥ ९ ॥ आपतं नृपतिं श्रुत्वा जनकः पौरवासिभिः । प्रत्युज्जगाम् हर्षेण निनाय नगरीं प्रति ॥ १० ॥ वाद्यघोषनिनादैश्च दुंदुभीनां महस्वनैः । वारांगनानां नृत्याद्यैः गायकानां च गायनैः ॥ ११ ॥ मार्गे मार्गे महासौधा-रूढस्त्रीणं कदंबकैः । पुष्पवृष्तिभि विवर्षाभिः ययौ नृपगृहं नृपः ॥ १२ ॥ ततो गृहाणि रम्याणि पूरितान्यन्नवारिभिः । प्राविवेश नृपश्रेष्ठो जनकेनातिमानितः ॥ १३ ॥ ततो नानासमुत्साहैः मिष्ठानैः नृत्यगायनैः । वस्त्रैराभरणैः सर्वान् जामातॄश्च विशेषतः ॥ १४ ॥ मणिरत्नादिदीपैश्च मुहुर्नीराजनैरपि । जनकः पूजयामास दीपवल्यां महादिने ॥ १५ ॥ दीपोत्सवैः महापुण्यैः बल्लिराज्यं प्रवर्तते । आनंदः सर्वलोकानां मंगलानि गृहे गृहे ॥ १६ ॥ अभ्यंग उद्वर्त्नाद्यैश्च वरपक्वान्नभोजनैः । गो-दासदासीदानैश्च हस्त्यश्व रथपत्तिभिः ॥ १७ ॥ चकार तुष्टान् जामातॄन् जनको नृपतिं तथा । नृपपत्नी स्वदुहितॄर अयोध्यास्थादिकान् क्रमात् ॥ १८ ॥ ततः प्रश्तानं अकरोत् पुरीं दशरथो नृपः । ततो राजा दशरथः सैन्येन परिवेष्टितः ॥ १९ ॥ ययौ शनैः शनैः मार्ग सुहृन्मंत्रिपुरःसरः । एतस्मिन् अंतरे मार्गे सीतार्थं धनुषा पुरा ॥ २० ॥ भग्नमाना नृपतयः पूर्ववैरं अनुस्मरन् । असंख्याताः ससैन्यास्ते रुरुधुर्नृपतिं पति ॥ २१ ॥ तान्दृष्त्वा नृपतींश्चापि किं एतत् इति विह्वलः । मंत्रिभिः मंत्रयामास जनकः स्वजनैरपि ॥ २२ ॥ एतस्नि अंतरे रामः श्रुत्वा चिंतार्णवे निजम् । निमग्नं पितरं शीघ्रं ययौ लक्ष्मणसंयुतः ॥ २३ ॥ नत्वा दशरथं रामः किंचित् नम्र इदं जगौ । तात राजन्न कर्तव्या राजाऽऽलिंग्य रघुत्तमम् ॥ २४ ॥ प्राह षड्वार्षिको बालः त्वं कथं युद्धुमिच्छसि । अरण्ये सकुटुंबोऽहं वेष्टितोऽस्मि नृपाधमैः ॥ २६ ॥ अहमेव गमिष्यामि योद्धुं रक्षस्व वाहिनीम् । तत् तातवचनं श्रुत्वा रामस्तं पुनरब्रात् ॥ २७ ॥ यदा मे कुठितां शक्तिं पश्यसि त्वं रणांगणे । तदा कुरु मे साहाय्यं तवदत्र स्थिरो भव ॥ २८ ॥ स्वां वाहिनीं स्वक्टुंबां तात त्वं रक्ष मद्गिरा । इत्युक्त्वा पितरं नत्वा सज्जीकृत्य शरासनम् ॥ २९ ॥ जगाम रथमारूढो लक्ष्मणोऽपि तमन्वगात् । तौ दृष्ट्वा भरतश्चाथ शत्रुघ्नोऽपि जगाम सः ॥ ३० ॥ तान् दृष्ट्वा दशसाहत्रीं राजसेनामचिदयत् । ततस्ते पार्थिवाः सर्वे रथस्थं तं रघुत्तमम् ॥ ३१ ॥ निरीक्ष्य दर्शयामासुः स्वसेनायां परस्परम् । समागोतोऽयं श्रीरामः स्वपितृस्यन्दनस्थितः ॥ ३२ ॥ एष वै सुमहत् श्रीमान् विटपी संप्रकाशते । विराजत्युज्ज्वलस्कंधः कोविदारध्वजो रथे ॥ ३३ ॥ दशरथाज्ञया तस्य रथे शस्त्रौघपूरिते । ध्वजबद्ध पताकोच्च कोविदारे स्थितस्त्वयम् ॥ ३४ ॥ एवं वदंतः ते सर्वे रथैर्योद्धुं समाययुः । ततोऽभवन् महायुद्धं गोरं तच्च परस्परम् ॥ ३५ ॥ अस्त्रैः शस्त्रैर्भिन्दिपालैः शतघीभिः परश्वधैः । रामस्य सैनिकान् मुक्त्वा राजानो राममन्वयुः ॥ ३६ ॥ ते ववर्षुः महाशस्त्रैः बाणैर्व्याप्य दिगंबरम् । तान् दृष्ट्वा नृपतीन् सर्वान् राममेवाभिसम्मुखान् ॥ ३८ ॥ लक्ष्मणः प्राद्रवच्छीघ्र भरतोऽपि च शत्रुहा । स्वामितारकवत् घोरं आसीत् युद्धं सुदारुणम् ॥ ३८ ॥ तोअतो नृपतयः सर्वे शस्त्रौघैः भरतं तदा । ते विध्वा मूर्च्छितं चक्रुः स्यंदनात् पतितो भुवि ॥ ३९ ॥ भरतं पतितं दृष्ट्वा शत्रुघ्नं विव्यधिः शरैः । तं चापि विरथं कृत्वा दुद्रुवुर्लक्ष्मणं नृपाः ॥ ४० ॥ ववर्षुर्निशितैः बाणैः चक्रुस्तुं व्याकुलं रणे । तथैव राघवं चापि शरैः आच्छादयन् नृपाः ॥ ४१ ॥ ततः श्रीरामचंद्रोऽपि लीलया समरांगणे । पश्यत्सु जालरंध्रैश्च कौसल्याद्यासु मातृषि ॥ ४२ ॥ सीतया भ्रातृपत्नीषु पित्रा मंत्रिकुलेष्वपि । टणत्कृत्य महच्चाप वायव्यास्त्रेण तान् नृपान् ॥ ४३ ॥ शुष्कपर्णवत् उद्धूय प्राक्षिपदब्धिरोधसि । मोहनास्त्रेण शेषान् हि मोहयामास राघवः ॥ ४४ ॥ लुलुण्ठ सकलं सैन्यं हस्त्यश्व रथसंकुलम् । ततो मूर्छितमालोक्य भरतं कैकयी रणे ॥ ४५ ॥ करीण्याःशीघ्रमुत्प्लुत्य शुशोचांके निधाय तम् । ततो दशरथश्चापि कौसल्याद्या नृपस्त्रियः ॥ ४६ ॥ सांत्वयित्वाऽथ तान् रामः सौमित्रिं प्राह वेगतः । इतो विदूरे सौमित्रे मुद्गलस्य तपोनिधेः ॥ ४७ ॥ आश्रमोऽस्ति तत्र त्वं गत्वा वल्लीः शुभावहाः । संजीविन्यादिकाः सर्वां श्रीघ्रमानय लक्ष्मण ॥ ४८ ॥ मुनेस्तपःप्रभावेण बहवः संति तत्र वै । तथेति लक्ष्मणो गत्वा स्यंदनस्थः त्वरान्वितः ॥ ४९ ॥ अवरुह्यः रथाद्वीरः संविविशाश्रमं मुनेः । निवारितः स वटुकैः समाधिविरमे मुनेः ॥ ५० ॥ यांचा कृत्वा शुभा वल्लीः प्राप्स्यसे त्वं न चान्यथा । कालातिक्रमभीत्या स लक्ष्मणोऽपि रघूत्तमम् ॥ ५१ ॥ वृत्तं निवेदयामास पुनस्तं राघवोऽब्रवीत् । निवारयित्वा वटुकान् विना शस्त्रैस्त्वरान्वितः ॥ ५२ ॥ आनय त्वं शुभा वल्लीः मा शंकां च मुनेः कुरु । सोऽपि रामाज्ञया गत्वा निवार्य वटुकान् क्षणात् ॥ ५३ ॥ बलात्कारेण ता वाल्लीः गृहित्वा राममागतः । भरतं जीवयामास विशल्यं कृत्य सानुजम् ॥ ५४ ॥ ततः समुत्थितं दृष्ट्वा कैकेयी भरतं मुदा । संतोषं परमं चक्रे कैकेयी पितरं तदा ॥ ५५ ॥ राघवं सा समालिंग्य भरतं परिषस्वजे । ततो राजाऽतिसंतुष्टः समालिंग्य रघुत्तमम् ॥ ५६ ॥ हर्षान् नानोत्सवान् तत्र चकार गुरुणा द्विजैः । ततस्ते वटवः सर्वे हाहाकृत्य मुनीश्वरम् ॥ ५७ ॥ वृत्तं निवेदयामासुः समाधिविरमे मुनेः । स मुद्गलोऽपि तत् श्रुत्वा विस्मयेनाब्रवीत् वटून् ॥ ५८ ॥ को लक्ष्मणः किमर्थं कस्याज्ञया सोऽहरत् द्रुमं । विदित्वा सकलं वृत्तं आगच्छध्वं त्वरान्विताः ॥ ५९ ॥ तथेति ते दशरथ्ं गत्वा प्रोचुस्त्वरान्विताः । कस्त्वं किमर्थं आनीता वल्ल्यो लक्ष्मणहस्ततः ॥ ६० ॥ तान् दृष्ट्वा क्रोधसंयुक्तान् राजा चिंतातुरोऽब्रवीन् । अहं दशरथो वल्ल्यो भरतार्थं ममाज्ञया ॥ ६१ ॥ आनीता मुनये सर्वे ब्रुवध्वं नतिपूर्वकाः । अहमप्यागमिष्यामि मुनिं सांत्वयितुं जवात् ॥ ६२ ॥ ततस्ते मुनये सर्वं ब्रुवध्वं नृपनामाद्यवर्णयन् । श्रुत्वा रामस्य पितरं क्रोधं संहृत्य वेगतः ॥ ६३ ॥ दर्शनार्थं मतिं चक्रे तावत्दृष्टो नृपः पुरः । बद्ध्वा करसंपुटं तं प्रणमंतं नृपोत्तमम् ॥ ६४ ॥ प्रार्थयन्तं समुत्थाप्य पूजयामास सादरम् । रामाद्या नृपपुत्राश्च कौसल्याद्या नृपस्त्रियः ॥ ६५ ॥ प्रणम्याथ मुनिं स्तुत्वा तस्तुः मुद्गलभार्यया । सुमत्या पूजिताः सर्वा राजदारा विशेषतः ॥ ६६ ॥ ततो दशरथः प्राह मुनिं स्तुत्वा पुनः पुनः । मयाऽपराधितं राज्ञा क्षम्यतां तत्त्वया मुने ॥ ६७ ॥ मुनिर्दशरथं प्राह ह्युपकारो महान् कृतः । नोचेत् कथं दर्शनं मे ध्यानस्थस्य सुतस्य ते ॥ ६८ ॥ श्रीरामस्य ससीतस्य नृवेषस्य हि मायया । इति तस्य वचं श्रुत्वा दृष्ट्वा तुष्टं मुनीश्वरम् ॥ ६९ ॥ उवाच नृपतिर्नत्वा किंचित् प्रष्टुमना मुनिम् । ज्ञात्वा नृपस्य स निः हृद्गतं प्रष्टुकामुकम् ॥ ७० ॥ एकांते तुलसीखंड नीत्वा तं नृपमेव सः । पप्रच्छ कीं ते वांछाऽस्ति वदस्व कथ्यते मया ॥ ७१ ॥ तमब्रवीत् दशरथः श्रीरामस्य हि भावि य । हिताहितं सुविस्तारं ज्ञातुमिच्छे मुनीश्वर ॥ ७२ ॥ नृपस्य वचनं श्रुत्वा राजानं मुनिरब्रवीत् । मुद्गल उवाच - साक्षात् नारायणो विष्णुः सर्वव्यापी जनार्दनः ॥ ७३ ॥ भूभारहरणार्थाय तवापि वरदानतः । अवतीर्णोऽस्ति त्वत्तो हि तव पुण्यमहोदयात् ॥ ७४ ॥ अधर्मस्य विनाशं च वृद्धिं धर्मस्य साअदरम् । निर्दलनं हि दुष्टानां सज्जनानां च पालयम् ॥ ७५ ॥ करिष्यति महानेष तव पुत्रो रघुत्तमः । दशवर्षसहस्राणि दशवर्षशतानि च ॥ ७६ ॥ करिष्यति महद् राज्यं गते त्वयि दिवं नृप । सप्तद्वीप पतिश्चायं भविष्यति नृपो महान् ॥ ७७ ॥ द्वौं तौ पविष्यतः पुत्रौ चतस्रश्च स्नुषास्तथा । चतुर्विंशति पौत्राश्च पौत्र्यस्तु द्वादशैव हि ॥ ७८ ॥ असंख्याताः प्रपौत्राद्या भविष्यन्ति सुतस्य ते । कियत् दिनैरयं वृंदा शापं भोक्तुं हि दंडके ॥ ७९ ॥ गमिष्यति ततः पश्चान् महद्राज्यं करिष्यति । तत्तस्य वचनं श्रुत्वा नृपः प्राह मुनिं पुनः ॥ ८० ॥ दशरथ उवाच - का वृंदा कस्य भार्या सा कथं शप्तो हरिस्तया । तत् सर्वं विस्तरेणैव कथयस्व मुनीश्वर ॥ ८१ ॥ मुद्गल उवाच - पुरा जलंधरेणासीत् युद्धं श्रीशंकरस्य च । वृंदापातिव्रत बलार् रक्षितं विष्णुना तदा ॥ ८२ ॥ ज्ञात्वा तद्दर्शितपथा पार्वत्या धर्षणादिना । जालाम्धरपुरं गत्वा तद्देत्यपुटभेदनम् ॥ ८३ ॥ पातिव्रतस्य भंगाय वृंदायाश्चाकरोन्मतिम् । अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ॥ ८४ ॥ भर्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् । दक्षिणाशागतं मुण्डं तमसाऽप्याऽवृतं तदा ॥ ८५ ॥ ततं प्रबुद्धासा बाला तं स्वप्नं स्वं विचिन्वती । कुत्रापि नालभच्छर्म गोपुराट्टालभूमिषु ॥ ८६ ॥ ततः सखीद्वययुता नगरोद्यानमागता । वनाद्वनांतरं याता ददर्शातीव भीषणौ ॥ ८७ ॥ राक्षसौ सिंहवन्नादौ दंष्ट्रानयनभीषणौ । तौ दृष्ट्वा विह्वलाऽतीव पयालयनपरा तदा ॥ ८८ ॥ ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् । ततस्तत्कठमासम्य निजबाहुलतां भयात् ॥ ८९ ॥ मुनि मां रक्ष शरणं आगतामित्यभाषत । तत्तस्या वचनं श्रुत्वा ध्यानम् मुक्त्वा स वै मुनिः ॥ ९० ॥ उन्मील्य नयने वृंदा हृदि दृष्ट्वाऽब्रवीद्वचः । तिष्ठ त्वं बालिके ह्यत्र मा भयं कुरु सर्वथा ॥ ९१ ॥ इत्युक्त्वा पुरतो दृष्ट्वा राक्षसौ मुनिसत्तमः । निर्भर्त्सयंतौ हुंकारैः क्रोधेन महता वृतः ॥ ९२ ॥ तौ तत् हुंकारतस्त्रस्तौ पलायनपरौ तदा । तत्सामर्थ्यं मुनेर्दृष्ट्वा वृंदा सा विस्मयावृता ॥ ९३ ॥ प्रणम्य दंडवत् भूमौ मुनिं वचनमब्रवीत् । वृंदा उवाच रक्षिताऽद्य त्वया घोरात् भयात् अस्मात् कृपानिधे ॥ ९४ ॥ किंचित् विज्ञप्तुमिच्छामि कृपया त्द् वदस्व माम् । जलंधरो हि मे भर्ता रुद्रं योद्धुं गतः प्रभो ॥ ९५ ॥ सतत्रास्ते कथं युद्धे तन्मे कथय सुव्रत । मुनिस्तत् वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ॥ ९६ ॥ तावत् कपी समायातौ तं प्रणम्याग्रतः स्थितौ । ततस्तद् भूलतासंज्ञा प्रयुक्तौ गगनांतरात् ॥ ९७ ॥ गत्वा क्षणार्धाद् आगत्य वानरौ अग्रतः स्थितौ । शिरःकबंधहस्तौ च दृष्ट्वाऽब्धितनयस्य सा ॥ ९८ ॥ पपात मूर्च्छिता भूमौ भर्तृव्यसनदुःखिता । कमंडलुजलैः सिक्ता मुनिनाऽश्वासिता तदा ॥ ९९ ॥ रिदित्वा सुचिरं वृंदा तं मुनिं वाक्यमब्रवीत् । कृपानिधे मुनिश्रेष्ठ जीवयैनं मुने प्रियम् ॥ १०० ॥ त्वं एव अस्य पुनः शक्तो जीवनाय मतो मम । मुनिरुवाच - नायं जीवयितुः शक्यो रुद्रेण निहतो युधि ॥ १०१ ॥ तथापि त्वत्कृपाविष्टः पुनः संजीवयाम्यहम् । इत्युक्त्वांतर्दधे यावत् तावत् सागरनंदनः ॥ २ ॥ वृंदां आलिंग्य तत्वक्त्रं चुचुंब प्रीतमानसः । अथ वृंदाऽपि भर्तारं दृष्ट्वा हर्षितमानसा ॥ ३ ॥ रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् । कदाचित् सुर्ततस्यांते दृष्ट्वा विष्णुं तमेव हि ॥ ४ ॥ निर्भर्त्स्य क्रोधसंयुक्ता वृंदा वचनमब्रवीत् । वृंदोवाच - तव ज्ञातं हरे शीलं परदाराभिगामिनः ॥ ५ ॥ त्वां ज्ञातोऽसि मया सम्यक् मायी प्रत्यक्षतापसः । यौ त्वया मायया द्वै तौ स्वकीयौ दर्शितौ मम ॥ ६ ॥ तौ एव राक्षसौ भूत्वा तव भार्यां विनेष्यतः । जयविजय नामानौ ज्ञातौ कृत्रिमरूपिणौ ॥ ७ ॥ त्वं चापि भार्यादुःखार्तो ब्वने कपिसहायवान् । भव सर्वेश्वरोऽपि त्वं यत्ते शिष्यौ समागतौ ॥ ८ ॥ पुण्यशीलशुशीलौ तौ कपिरूपधरावुभौ । अतस्ते वानरैः अस्तु संगतिर्दंडके वने ॥ ९ ॥ वटुरूपधरः शिष्यो यस्तार्क्ष्यश्चेति वेद्महम् । इत्युक्त्वा सा तदा वृंदा प्रविवेश हुताशनम् ॥ ११० ॥ मुद्गल उवाच - ततो जालंधरौ दैत्यो निहतो युधि शंभिना । तस्मात् राजन् इदानीं तौ कुंभकर्णदशाननौ ॥ ११ ॥ जातौ सागरमध्ये तओ लंकायां अधुना स्थितौ । नीत्वा जनकजां बालां पंचवट्यास्तु मातृवत् ॥ १२ ॥ पालयित्वाऽथ षण्मासान् रामाबाणात् मरिष्यति । रामोऽपि वाल्लिनं हत्वा सुग्रीवेण समन्वितः ॥ १३ ॥ शिलाभिः सागरं बद्ध्वा सीतां आदाय यास्यस्ति । यात्रायज्ञविलासांश्च सप्तद्वीपप्ररक्षणम् ॥ १४ ॥ करिष्यति दयितया बंधुभिश्च यथासुखम् । इदं गोप्य त्वया राजन् कथनीयं न कुत्रचित् ॥ १५ ॥ श्रीशिव उवाच - इत्युक्त्वा मुद्गलः सर्वं भावि रामस्य कौतुकम् । चरित्रं वर्णयामास यदा यत् यत् करिष्यति ॥ १६ ॥ तत्सर्वं नृपतिः श्रुत्वा तुष्टः पप्रच्छ तं पुनः । पूर्वजन्मनि कश्चाहं किं मया सुक्रुतं कृतम् ॥ १७ ॥ तत्सर्वं वद मां ब्रह्मन् यस्मात् जातो हरिः सुतः । मम साक्षात् रामचंद्रो लक्ष्मीःसीता त्वभूत्स्नुषा ॥ १८ ॥ इति तस्य वचः श्रुत्वा नृपमाह पुनर्मुनिः । मुद्गल उवाच - आसीत् सह्याद्रि विषये करवीरपुरे पुरा ॥ १९ ॥ ब्राह्मणो धर्मवित् कश्चित् धर्मदत्त इति श्रुतः । विष्णुव्रतकरः समक् विष्णुपूजारतः सदा ॥ १२० ॥ द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः । कदाचित् कार्तिके मासि हरिजागरणाय सः ॥ २१ ॥ रात्र्यां तुर्यावशेषायां जगाम हरिमंदिरम् । परिपूजोपकरणान् प्रगृह्य व्रजता तदा ॥ २२ ॥ तेन दृष्ट्वा समायाता राक्षसी भीमनिःस्वना । वक्रदंष्ट्रा ललज्जिह्वा निनग्ना रक्तलोचना ॥ २३ ॥ दिगंबरा सुष्कमांसा लंबोष्ठी घर्घरस्वना । तां दृष्ट्वा भयसंत्रस्तः कंपितावयवस्तदा ॥ २४ ॥ पूजोपकरणैः सर्वैः पयोभिश्चाहनद् बलात् । संस्मृत्य यद् हरेर्नाम तुलसीयुक्तवारिणा ॥ २५ ॥ सोऽहनद् वारिणा तस्मात् तप्त्पापं लयमागतम् । अथ संस्मृत्य सा पूर्व-जन्मकर्मविपाकजम् ॥ २६ ॥ स्वां दशां अब्रवीत् तीव्रं दंडवच्च प्रणम्य सा । कलहोवाच - पूर्वकर्मविपाकेन दशां एतां गताऽस्म्यहम् ॥ २७ ॥ तत् कथं तु पुनर्विप्र याम्यहं गतिमुत्तमाम् । मुद्गल उवाच - तां दृष्ट्वा प्रणतां आर्तां वदमानां स्वकर्म च ॥ २८ ॥ अतीव विस्मितो विप्रः तदा वचनमब्रवीत् । धर्मदत्त उवाच - केन कर्मविपाकेन त्वं दशां ईदृशीं गता ॥ २९ ॥ कुतः प्राप्ता च किंशीला तत्सर्वं विसतार् वद । कलहोवाच - सौराष्ट्रनगरे ब्रह्मन् भिक्षुनामाऽभवद् द्विजः ॥ १३० ॥ तस्याहं गृहिणी ब्रह्मन् कलहाख्याऽतिनिष्ठुरा । न कदाचित् मया भर्तुः वचसाऽपि शुभं कृतम् ॥ ३१ ॥ नर्पितं तस्य मिष्टान्नं भर्तृवचनभङ्गया । पाककाले मया नित्यं यद्यच्चान्नं मनोरमम् ॥ ३२ ॥ तत्तत् पूर्वं स्वयं भुक्त्वा पश्चात् भर्त्रे निवेदितम् । एकदा स पतिर्मित्रं मम वृत्तं न्यवेदयत् ॥ ३३ ॥ नैव श्रृणोमि मे पत्नी मद्वाक्यं किं करोम्यहम् । तेन श्रुत्वा तु सकलं क्षणं संचिंत्य वै हृदि ॥ ३४ ॥ उवाच मत्पतिं किंचित् युक्तिं तां ते वदाम्यहम् । निषेधोक्त्या वदस्व त्वं गृहिणी सा करिष्यति ॥ ३५ ॥ तव वाक्येन कार्यादि यत्किंचित् तव वांछितम् । तथेति मित्रवाक्येन गृहमेत्य पतिर्मम ॥ ३६ ॥ मां आह दयिते मा त्वं भोजनार्थं समाह्वय । मम मित्रं महत् दुष्टं तत् श्रुत्वा स्वपतेर्वचः ॥ ३७ ॥ तदा भर्या मयोक्तः स मित्रं ते साधुसम्मतम् । समाह्वयम्यशनार्थं अद्यैव ब्राह्मणोत्तमम् ॥ ३८ ॥ ततो मया समाहूतः स्वयं गत्वा पतें सखा । तदारम्भ्य निषेधोक्त्या कार्यमाज्ञापयत् पतिः ॥ ३९ ॥ एकदा स पितुर्दृष्ट्वा क्षयाहः स्वपतिर्मम । मामाह दयिते श्राद्धं न करिष्याम्यहं पितुः ॥ १४० ॥ तद्वाक्यं स्वपतेः श्रुत्वा मया विप्रा निमंत्रिताः । मया धिक् धिक् कृतो भर्ता कथं श्राद्धं करोषि न ॥ १४१ ॥ पुत्रधर्मं न जानासि क गतिस्ते भविष्यति । ततः पुनः स मामाह पक्वान्नं अद्य मा कुरु ॥ ४२ ॥ द्विजं निमंत्रयस्वैकं मा विस्तारं कुरु प्रिय । तत्तस्य वचनं श्रुत्वा मयाऽष्टादश भूसुराः ॥ ४३ ॥ निमत्रितास्तु श्राद्धार्थं पक्वान्नानि कृतानि हि । ततः पुनः स मामाह प्रिये श्रृणु वचो मम ॥ ४४ ॥ मया सहादौ त्वं मिष्टं पाकं भुक्त्वा ततः परम् । स्वीयोच्छिष्टं त्वद्य विप्रान्परिवेषणमाचर ॥ ४५ ॥ तन्मया कथित श्रुत्वा स पतिर्धिकृतः पुनः । कथमादौ स्वयं भुक्त्वा पश्चात् विप्रान् समर्पयेत् ॥ ४६ ॥ एवं सर्वं निषेधोक्त्या श्राद्धं चांगं चकार सः । पिंडदानादिकं कृत्वा मामाह स पतिः पुनः ॥ ४७ ॥ अहञ्चोपोषणं त्वद्य करिष्यामि न संशयः । तत्तस्य वचनं श्रुत्वा मिष्टान्नेन स भोजितः ॥ ४८ ॥ ततो दैववशात् भर्ता विस्मृत्य प्राह मां पुनः । नीत्वा पिंडान् क्षिपस्वाद्य सत्तीर्थे परमादरात् ॥ ४९ ॥ ततो मया शौचकूपे नीत्वा पिंडा विसर्जिताः । ततःखिन्नमना विप्रो हाहेत्युक्त्वा स्थिरोऽभवत् ॥ १५० ॥ क्षणं विचिंत्य मामाह पिंडान् मा त्वं बहिः कुरु । तदोत्तीर्य शौचकूपे मया पिंडा बहिं कृता ॥ ५१ ॥ ततः पुनः स मामाह पिंडान् तीर्थे क्षिपस्व मा । तदा तीर्थे मया क्षिप्ताः ते पिण्डा परमादरात् ॥ ५२ ॥ एवं मया कदा भर्तुः वचनं न कृतं तदा । कलहप्रियया नित्यं मयि उद्विग्नमना यदा ॥ ५३ ॥ परिणेतुं ततोऽन्यां वै मनश्चक्रे पतिर्मम । ततो गरं समादाय प्राणस्त्यक्तो मया द्विज ॥ ५४ ॥ अथ बद्ध्वा वध्यमानां मां निन्युयमकिंकरा । यमश्च मां दता दृष्ट्वा चित्रगुप्तं अपृच्छत ॥ ५५ ॥ यम उवाच - अनया किं कृतं कर्म फलं शुभं अथ अशुभम् । प्राप्नोत्येषा च तत्कर्म चित्रगुप्तावलोकय ॥ ५६ ॥ कलह उवाच - चित्रगुप्तस्तदा वाक्यं भर्त्स्यन् मां उवाच ह । चित्रगुप्त उवाच - अनया तु शुभं कर्म कृतं किंचित् न विद्यते ॥ ५७ ॥ मिष्ठान्नं भुज्यमानेयं न भर्तरि तदर्पितम् । अतश्च बगुलीयोन्यां स्वविष्ठादाऽत्र तिष्ठतु ॥ ५८ ॥ पतिं द्वेष्टि सदा एवेषा नित्यं कलहकारिणी । विष्ठादा शूकरीयोन्यां तस्मात्तिष्ठत्वियं यम ॥ ५९ ॥ पाकभांडे सदा भुंक्ते गुप्तं चैका यतस्ततः । तस्मात् दोषात् बिडालाऽस्तु स्वजातापत्यभक्षिणी ॥ १६० ॥ भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया । तस्मात् प्रेत्तशरीरेऽपितिष्ठत्वेकाऽतिनिंदिता ॥ ६१ ॥ अतश्चैषा मरुदेशे प्रापितव्या हरेर्भटैः । तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः ॥ ६२ ॥ ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी । कलहोवाच - ततो दूतैः प्रापिताऽहं मरुदेशं क्षणाद्द्विज ॥ ६३ ॥ दत्त्वा प्रेतशरीरं मां गतास्ते स्वस्थलं प्रति । साऽहं पंचदशाब्दानि प्रेतदेहे स्थिता किल ॥ ६४ ॥ क्शुत्तृड्भ्यां पीडितात्यर्थं दुःखिता स्वेन कर्मणा । ततं क्षुत्पीडिता नित्यं शरीर वणिजस्त्वहम् ॥ ६५ ॥ प्रविश्य दक्षिणे प्राप्ता कृष्णावेण्यास्तु संगमे । तत्तीरं संश्रिता यावत् तावत्तस्य शरीरतः ॥ ६६ ॥ शिवविष्णुगणैः दूरं अपाकृष्टा बलादहम् । ततः क्षुत्क्षामया दृष्टो भमंत्या त्व मया द्विज ॥ ६७ ॥ त्वत् हस्त् तुलसीवारि संस्पर्शात् गतपापका । तत्कृपां कुरु विप्रेंद्र कथं मुक्ता भवाम्यहम् ॥ ६८ ॥ योनित्रयात् अग्रभागात् अस्माच्च प्रेतभावतः । मांउद्धर मुश्रेष्ठ त्वां अहं शरणं गता ॥ ६९ ॥ इथं निशम्य कलहावचनं द्विजश्च ++तत्पापकर्म भयविस्मयदुःखयुक्त । तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिः ++ध्यात्वा चिरं सुवचनं निजगाद दुःखात् ॥ १७० ॥ इति श्री शतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे चतुर्थः सर्गः ॥ ४ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |