॥ अद्‌भुत रामायणम् ॥

चतुर्विंशति सर्गः

ब्रह्मादिदेवकृतं श्रीरामसमाश्वासनम् -

संरम्भवेगं सीताया वीक्ष्य ब्रह्मपुरोगमाः ।
सलोकपालास्त्रिदशा ऋषिभिः पितृभिः सह ॥ १ ॥
प्रसादयितुमुद्युक्ताः सीतां ते तुष्टुवुः सुराः ।
कृताञ्जलिपुटा देवाः प्रणम्य च पुनः पुनः ॥ २ ॥
ब्रह्माद्याः स्तोतुमारब्धाः सीतां राक्षसनाशिनीम् ।
या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा ॥ ३ ॥
अनन्या निष्कले तत्त्वे संस्थिता रामवल्लभा ।
स्वाभाविकी च त्वन्मूला प्रभा भानोस्तथामला ॥ ४ ॥
एका सा वैष्णवी शक्तिः रणे कोपाधिवेगतः ।
परापरेण रूपेण क्रीडन्ती रामसन्निधो ॥ ५ ॥
सेव्यं करोति सकलं तस्याः कार्यमिदं जगत् ।
न कार्यं चापि करणमीश्वरस्येति निश्चयः ॥ ६ ॥
चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः ।
अधिष्ठान वशादस्या जानक्या रामयोषितः ॥ ७ ॥
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ ८ ॥
अनया परया देवः स्वात्मानन्दं समश्नुते ।
यत्त्वस्त्यनादिसंसिद्धमैश्वर्यमतुलं महत् ॥ ९ ॥
त्वत्सम्बन्धादवाप्तं तद्‌रामेण परमात्मना ।
सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका ॥ १० ॥
त्वयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ।
सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी ॥ ११ ॥
वैश्वरूपं महेशस्य सर्वदा सम्प्रकाशयेत् ।
अन्याश्च शक्तयो मुख्यास्त्वया देवि विनिर्मिता ॥ १२ ॥
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ।
सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः ॥ १३ ॥
एका शक्तिः शिवोऽप्येकः शक्तिमानुच्यते शिवः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वदर्शिनः ॥ १४ ॥
शक्तयो जानकी देवी शक्तिमन्तो हि राघवः ।
विशेषः कथ्यते चायं पुराणे तत्त्ववादिभि : ॥ १५ ॥
भोग्या विश्वेश्वरी देवी रधूत्तमपतिव्रता ।
प्रोच्यते भगवान्भोक्ता रघुवंशविवर्द्धनः ॥ १६ ॥
मन्ता रामो मतिः सीता मन्तव्या च विचारतः ।
एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ॥ १७ ॥
योगिनस्तत्प्रपश्यन्ति तव देव्याः परं पदम् ।
अनन्तमजरं ब्रह्म केवलं निष्कलं परम् ॥ १८ ॥
योगिनस्तत्प्रपश्यन्ति तव देव्याः परं पदम् ।
सा त्वं धात्रीव परमा आनन्दनिधिमिच्छताम् ॥ १९ ॥
संस्मारतापानखिलान्हरसीश्वरसंश्रयात् ।
नेदानीं भूतसंहारस्त्वया कार्यो महेश्वरि ॥ २० ॥
रावणं सगणं हत्वा जगतां सुखमाहितम् ।
किं पुनर्नृत्यकलया जगत्संह्रियते त्वया ॥ २१ ॥
एतच्छ्रुत्वा विशालाक्षी ब्रह्मणोऽभ्यर्थनं वचः ।
प्रीता सीता तदा प्राह ब्रह्माणं सहदैवतम् ॥ २२ ॥
विद्धः क्षुरप्रेण हृदि शेते मृतकवत्प्रभुः ॥ २३ ॥
तस्मिन्नेवं स्थिते देवाः किमिच्छामि जगद्धितम् ।
ग्रासमेकं करिष्यामि जगदेतच्चराचरम् ॥ २४ ॥
श्रुत्वैतद्वचनं देव्याः संरम्भसहितं सुराः ।
हाहाकारं प्रचक्रुस्ते सञ्चचाल च मेदिनी ॥ २५ ॥
तता ब्रह्मा सुरैः सार्द्ध पुष्पकं रथमास्थितम् ।
श्रीरामं ग्राहयामास स्मृतिं स्पृष्ट्वा स्वपाणिना ॥ २६ ॥
उत्तस्थौ च महाबाहू रामः कमललोचनः ।
रे रावण सुदुष्ट त्वमद्य मद्‌बाणभेदितः ॥ २७ ॥
द्रक्ष्यस्याशु यमस्यास्यं भ्रुकुटीभीषणाकृतिः ।
ब्रुवन्नेवं धनुर्गृह्म ह्यपश्यत्त्रिदशान् पुरः ॥ २८ ॥
नापश्यज्जानकीं तत्र प्राणेभ्योऽपि गरीयसीम् ।
नृत्यतीं चापरां कालीमपश्यच्च रणाङ्गणे ॥ २९ ॥
चतुर्भुजां चलज्जिह्नां खड्गखर्परधारिणीम् ।
शवरूपमहादेवहृत्संस्थां च दिगम्बराम् ॥ ३० ॥
पिबन्तीं रुधिरं भीमां कोटराक्षीं क्षुधातुराम् ।
जगद्‌ग्रासे कृतोत्साहां मुण्डमालाविभूषणाम् ॥ ३१ ॥
भीमाकाराभिरन्याभिः क्रीडन्तीं रणमूर्द्धनि ।
मुण्डं राक्षसराजस्य खेलन्तीं कन्दुकं मुदा ॥ ३२ ॥
प्रलयध्वान्तधाराभां सदा घर्घरनादिनीम् ।
अन्त्रमुण्डकरोक्ष्यक्षकृतमालां चलत्पदाम् ॥ ३३ ॥
कबन्धान्‌ राक्षसानां च तया सह विनृत्यतः ।
रथवाजिगजानां च शकलानि व्यलोकयत् ॥ ३४ ॥
नैकोऽपि राक्षसो यत्र करपादशिरोयुतः ।
कबन्धा ये च नृत्यन्ति तेषां पादाः प्रतिष्ठिताः ॥ ३५ ॥
कबन्धं रावणस्यापि नृत्यन्तं च व्यलोकयत् ।
तद्‌दृष्ट्वा सुमहाघोरं प्रेतराजपुरोपमम् ॥ ३६ ॥
कालीं च वीक्ष्य नृत्यन्तीं मातृभिः सहितां द्विज ।
पपात हस्ताद्‌रामस्य वेपतः सशरं धनुः ॥ ३७ ॥
भयाच्च निमिमीलाशु रामः पद्मविलोचने ।
इत्येवं विस्मितं दृष्ट्वा ब्रह्मोवाच रधूत्तमम् ॥ ३८ ॥
त्वां दृष्ट्वा विह्वलं सीता क्रुद्धं चापि च रावणम् ।
रथादवस्कन्द्य सती पपात रणमूर्द्धनि ॥ ३९ ॥
भीमां च मूर्तिमालम्ब्य रामकूपाच्च मातृकाः ।
निर्माय ताभिः सहिता हत्वा रावणमग्रतः ॥ ४० ॥
रक्षसां निधनं कृत्वा नृत्यन्तीयं व्यवस्थिता ।
अनया सहितो राम सृजस्यवसि हंसि च ॥ ४१ ॥
नानया रहितो राम किञ्चित्कर्तुमपि क्षमः ।
इति बोधयितुं सीता चकार तदनिन्दिता ॥ ४२ ॥
पश्यैतां जानकीं राम त्यज भीतिं महाभुज ।
निर्गुणां सगुणां साक्षात्सदसद्‌व्यक्तिवर्जिताम् ॥ ४३ ॥
इत्येद्‌द्रुहिणवचो निशम्य रामः
     श्रुतिमुखमात्महितं पराभिमर्दी ।
शुचमनुविजहौ विचार्य किञ्चि-
     ज्जनक सुतामनुपश्यति स्म पश्चात् ॥ ४४ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
श्रीरामाश्वासनं नाम चतुर्विंशतितमः सर्गः ॥ २४ ॥

GO TOP