॥ अद्भुत रामायणम् ॥
सप्तमः सर्गः
नारदस्य गानविद्याप्राप्तिवर्णनम् -
गानबन्धुः पुनः प्राह नारदं मुनिसत्तमम् ।
एते किन्नरसंघा वै विद्याघ्राप्सरसां गणाः ॥ १ ॥
गानाचार्यमुलूकं मां गानशिक्षार्थमागताः ।
तपसा नैव शक्त्या वा गानविद्या तपोधन ॥ २ ॥
तस्माच्छ्रमेण युक्तश्च मत्तस्त्वं गानमाप्नुहि ।
एवमुक्तो मुनिस्तस्मै प्रणिपत्य जगौ यथा ॥ ३ ॥
तच्छृणुष्व मुनिश्रेष्ठ वासुदेवं नमस्य च ।
उलूकेनैवमुक्तस्तु नारदो मुनिसत्तमः ॥ ४ ॥
शिक्षाक्रमेण संयुक्तस्तत्र गानमशिक्षयत् ।
गानबन्धुस्तमाहेदं त्यक्तलज्जो भवाधुना ॥ ५ ॥
स्त्रीसंगमे तथा गीते क्षुतेऽन्वाख्यानसंगमे ।
व्यवहारे च धान्यानामर्थानां च तथैव च ॥ ६ ॥
आयेव्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ।
न कुण्ठितेन तथा गूढेन नित्यं प्रावरणादिभिः ॥ ७ ॥
हस्तविक्षेपभावेन व्यादितास्येन चैव हि ।
निर्यातजिह्वायोगेन न गेयं च कथञ्चन ॥ ८ ॥
स्वाङ्गं निरीक्षमाणेन परमप्रेक्षता तथा ।
न गायेदूर्ध्वबाहुश्च नोर्ध्वदृष्टिः कथञ्चन ॥ ९ ॥
हासो भयं क्षुधा कम्पः शोकोऽन्यस्य स्मृतिस्तृषा ।
नैतानि सप्तरूपाणि गानयोगे महामते ॥ १० ॥
नैकहस्तेन शस्येत तालसंघट्टनं मुने ।
क्षुधाऽऽर्तेन भयार्तेन तृषाऽऽर्तेन तथैव च ॥ ११ ॥
गानयोगो न कर्तव्यो नान्धकारे कथञ्चन ।
एवमादीनि योग्यानि कर्तव्यानि महामुने ॥ १२ ॥
एवमुक्तः स भगवान्नारदो विधिरक्षणे ।
अशिक्षत तथा गीतं दिव्यवर्षसहस्रकम् ॥ १३ ॥
ततः समस्तसम्पन्नो गीतप्रस्तावकादिषु ।
विपंच्यादिषु सम्पन्नः सर्वस्वरविभागवित् ॥ १४ ॥
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ।
स्वराणां भेदयोगेन ज्ञातवान्मुनिसत्तमः ॥ १५ ॥
ततो गन्धर्वसंघाश्च किन्नराणां तथा गणाः ।
मुनिना सह संयुक्ताः प्रीतियुक्तास्तु तेऽभवन् ॥ १६ ॥
गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम् ।
त्वां समासाद्य सम्पन्नं त्वं हि गीतविशारदः ॥ १७ ॥
ध्वांक्षशत्रो महाप्राज्ञ किमवाप्यं करोमि ते ।
गानबन्धुस्ततः प्राह नारदं मुनिपुङ्गवम् ॥ १८ ॥
ब्रह्मणो दिवसे ब्रह्मन्मनवः स्युश्चतुर्दश ।
ततस्त्रैलोक्यसम्प्लावो भविष्यति महामुने ॥ १९ ॥
यावन्मे स्याद्यशोभागस्तावन्मे परमं शुभम् ।
मनसाध्यापितं मे स्याद्दाक्षिण्यान्मुनिसत्तमः ॥ २० ॥
उलूकं प्राह देवर्षिः सर्वं तेऽस्तु मनोगतम् ।
अतीते कल्पसंयोगे गरुडस्त्वं भविष्यसि ॥ २१ ॥
गुणगानादच्युतस्य सायुज्यं तस्य लप्स्यसे ।
स्वस्ति तेऽस्तु महाप्राज्ञ गमिष्यामि प्रसीद मे ॥ २२ ॥
एवमुक्त्वा ययौ विप्रो जेतुं तुम्बुरुमुत्तमम् ।
तुम्बुरोश्च गृहाभ्याशे ददर्श विकृताकृतीन् ॥ २३ ॥
कृत्तबाहुरुपादांश्च कृतनासाक्षिवक्षसः ।
कृत्तोत्तमांगांगुलींश्च छिन्नभिन्नकलेवरान् ॥ २४ ॥
पुंसः स्त्रियश्च विकृतान्ददर्शायुतशो बहून् ।
नारदेन च ते प्रोक्ताः के यूयं कृतविग्रहाः ॥ २५ ॥
नारदं प्रोचुरपि ते त्वया कृत्ताङ्कका वयम् ।
वयं रागाश्च रागिण्यो गानेन भिन्नसन्धिना ॥ २६ ॥
भवता गीयते यर्हि तर्ह्यवस्येदृशी हि नः ।
पुनस्तुम्बुरुगानेन छिन्नभिन्न प्ररोहणम् ॥ २७ ॥
तुम्बुरुर्जीवयत्येष त्वं मारयसि नारद ।
तदाश्चर्यं महद्दृष्ट्वा श्रुत्वा च विस्मयान्वितः ॥ २८ ॥
धिग्धिगुक्त्वा जगामाथ नारदोऽपि जनार्दनम् ।
श्वेतद्वीपे स भगवान्नारदं प्राह माधवः ॥ २९ ॥
गानबन्धौ च यद्गानं न चैतेनासि पारगः ।
तुम्बुरोः सदृशो नासि गानेनानेन नारद ॥ ३० ॥
मनोर्वैवस्वतस्याहमष्टाविंशतिमे युगे ।
द्वापरान्ते भविष्यामि यदुवंशकुलोद्भवः ॥ ३१ ॥
देवक्यां वसुदेवस्य कृष्णो नाम्ना महामुने ।
तदानीं मां समागम्य स्मारयैतद्यथातथम् ॥ ३२ ॥
तत्र त्वां गानसम्पन्नं करिष्यामि महाव्रत ।
तुम्बुरोश्च समं चैव तथातिशयसंयुतम् ॥ ३३ ॥
तावत्कालं यथायोगं देवगन्धर्वयोनिषु ।
शिक्ष त्वं हि यथान्यायमित्युक्त्वान्तरधीयत ॥ ३४ ॥
ततो मुनिः प्रणम्यैनं वीणावादनतत्परः ।
देवर्षिर्देवसंकाशः सर्वाभरणभूषितः ॥ ३५ ॥
तपसा निधिरत्यर्थं वासुदेवपरायणः ।
स्कन्धे विपञ्चीमाधाय सर्वलोकाञ्चचार सः ॥ ३६ ॥
वारुणं याम्यमाग्नेयमैन्द्रं कौबेरमेव च ।
वायव्यं च तथैशानं संशयं प्राप्य धर्मवित् ॥ ३७ ॥
गायमानो हरिं सम्यग्वीणावादविचक्षणः ।
गन्धर्वाप्सरसां संघैः यूज्यमानस्ततस्ततः ॥ ३८ ॥
ब्रह्मलोकं समासाद्य कस्मिंश्चित्कालपर्यये ।
हाहा हूहूश्च गन्धर्वौ गीतवाद्यविशारदौ ॥ ३९ ॥
ब्रह्मणो गायकौ दिव्यौ नित्यं गन्धर्वसत्तमौ ।
तत्र ताभ्यां समासाद्य गायमानो हरि विभुम् ॥ ४० ॥
ब्रह्मणा च महातेजाः पूजितो मुनिसत्तमः ।
तं प्रणभ्य महात्मानं सर्वलोकपितामहम् ॥ ४५ ॥
चचार च यथाकामं सर्वलोकेषु नारदः ।
पुनः कालेन महता गृहं प्राप्य च तुम्बुरोः ॥ ४२ ॥
वीणामादाय तत्रस्थस्तत्रस्थैरप्यलक्षितः ।
सुरकन्याश्च तत्रस्थाः षडाद्याः सहधैवताः ॥ ४३ ॥
व्रीडितो भगवान्दृष्ट्वा निर्गतश्च सत्वरम् ।
शिक्षयामास बहुशस्तत्र तत्र महामुनिः ॥ ४४ ॥
कालेऽतीते ततो विष्णुरवतीर्णो जगन्मयः ।
देवक्यां वसुदेवस्य यादवोऽसौ महाद्युतिः ॥ ४५ ॥
सप्तस्वराङ्गना द्रष्टुं गानविद्याविशारदः ।
ययौ रैवतके कृष्णं प्रणिपत्य महामुनिः ॥ ४६ ॥
व्यज्ञापयदशेषं तच्छवेतद्वीपे त्वया पुरा ।
नारायणेन कथितं गानयोगार्थमुत्तमम् ॥ ४७ ॥
तच्छ्रुत्वा प्रहसन्कृष्णः प्राह जाम्बवतीं मुदा ।
एनं मुनिवरं भद्रे शिक्षयस्व यथाविधि ॥ ४८ ॥
वीणागानसमायोगे तथेत्याह च सा पतिम् ।
प्रहसन्ती यथायोगं शिक्षयामास तं मुनिम् ॥ ४९ ॥
ततः संवत्सरे पूर्णे नारदं प्राह केशवः
सत्याः समीपमागच्छ शिक्षस्व च तथा पुनः ॥ ५० ॥
तथेत्युक्त्वा सत्यभामां प्रणिपत्य ययौ मुनिः ।
तथा स शिक्षितो विद्वान्पूर्णे संवत्सरे ततः ॥ ५१ ॥
वासुदेवनियुक्तोऽसौ रुक्मिण्याः सदनं गतः ।
अंगनाभिस्तत्रत्याभिर्दासीभिर्मुनिसत्तमः ॥ ५२ ॥
उक्तोऽसौ गायमानोऽपि न स्वरं वेत्सि वै मुने ।
ततः श्रमेण महता यावत्संवत्सरद्वयम् ॥ ५३ ॥
शिक्षितोऽसौ तदा देव्या रुक्मिण्याधिजगौ मुनिः ।
न तु स्वराङ्गनाः प्राप तन्त्रीयोगे महामुनिः ॥ ५४ ॥
आहूय कृष्णो भगवान्स्वयमेव महामुनिम् ।
अशिक्षयदमेयात्मा गानयोगमनुत्तमम् ॥ ५५ ॥
कृष्णदत्तेन गानेन तस्यायाताः स्वराङ्गनाः ।
ब्रह्मानन्दः समभवन्नारदस्य च चेतसि ॥ ५६ ॥
ततो द्वेषादयो दोषाः सर्वे अस्तं गता द्विज ।
ईर्ष्या च तुम्बुरौ याऽऽसीन्नारदस्य च सा गता ॥ ५७ ॥
ततो ननर्त देवर्षिः प्रणिपत्य जनार्दनम् ।
उवाच च हृषीकेशः सर्वज्ञस्त्वं महामुने ॥ ५८ ॥
प्राचीनगानयोगेन गायस्व मम सन्निधौ ।
एतत्ते प्रार्थितं प्राप्तं मम लोके तथैव च ॥ ५९ ॥
नित्यं तुम्बुरुणा सार्द्धं गायस्व च यथातथम् ।
एवमुक्तो मुनिस्तत्र यथायोगं चचार सः ॥ ६० ॥
तथा सम्पूजयेत्कृष्णं रुद्रं भुवननायकम् ।
तदा जगौ हरेस्तत्र नियोगाच्छंकरालये ॥ ६१ ॥
रुक्मिण्या सत्यया सार्द्धं जाम्बवत्या महामुनिः ।
कृष्णेन च द्विजश्रेष्ठ श्रुतिजातिविशारदः ॥ ६२ ॥
एवं ते मुनिशार्दूल प्रोक्तो गीतक्रमो मया ।
ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं द्विज ॥ ६३ ॥
हरेः सायुज्यमाप्नोति सर्वयज्ञफलं लभेत् ।
अन्यथा नरकं गच्छेद्गायमानोऽन्यदेव हि ॥ ६४ ॥
कर्मणा मनसा वाचा वासुदेवपरायणः ।
गायञ्छृण्वंस्तमाप्नोति तत्त्माच्छ्रेष्ठः प्रियंवदः ॥ ६५ ॥
कथितमिदमपूर्वं जानकीजन्मपूर्वं
श्रुति-सुखमतिगुह्यं स्नेहतस्तेऽतिगुह्यम् ।
कलुष कुलविपक्षं भव्यदानैकदक्षं
नृभिर विरतवन्द्यं सर्वदेवाभिनन्द्यम् ॥ ६६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे
नारदगानप्राप्तिवर्णनं नाम सप्तमः सर्गः ॥ ७ ॥
GO TOP
|