॥ अद्‌भुत रामायणम् ॥

द्वाविंशतितमः सर्गः

श्रीरामस्य निस्संज्ञता (मूर्छित होना) -

विनर्द्दन्तं रिपुं दृष्ट्वा रामः शत्रुनिबर्हणः ।
जज्वाल च स कोपेन रक्षसां सहजो रिपुः ॥ १ ॥
विचकर्ष धनुः श्रेष्ठं प्रलयानलसन्निभम् ।
वेगेन बाणाश्चिंक्षेप रक्षसां मर्मसु प्रभुः ॥ २ ॥
तिलशः खण्डयन्ति स्म बाणा राक्षसपुङ्गवान् ।
कदा धनुषि सन्धते कदा विसृजति प्रभुः ॥ ३ ॥
नान्तरं ददृशे कैश्चिच्छिन्नाः स्युररयः परम् ।
जघान राक्षसान्‌ रामो रुद्रः पशुगणानिव ॥ ४ ॥
तद्‌दृष्ट्वा दुष्करं कर्म कृतं रामेण रावणः ।
अनीकाग्रं समासाद्य युयुधे राघवेण हि ॥ ५ ॥
रे रे राक्षससेनान्यः प्रेक्षका इव तिष्ठत ।
अहमेको हनिष्यामि नरमाकस्मिकं रिपुम् ॥ ६ ॥
अद्य निर्मानवां पृथ्वीं निर्देवं त्रिदिवं तथा ।
करिष्याम्यहमेवैकः शोषयिष्यामि वारिधीन् ॥ ७ ॥
पर्वतांश्चूर्णयिष्यामि पातयिष्यामि वै ग्रहान् ।
इत्युक्त्वा राक्षसश्रेष्ठो रामं योद्धुमथाह्वयत् ॥ ८ ॥
त्वामद्य खड्गेनाच्छिद्य तर्पयिष्यामि चानुगान् ।
नेयं लङ्कापुरी राम नाहञ्च दशकन्धरः ॥ ९ ॥
शिरस्ते पोथयिष्यामि गदया रघुनन्दन ।
कपित्थमिव काकुस्थ करीर्मदकलः किल ॥ १० ॥
इत्युक्त्वा रावणो युद्धं रामेण सह चारभत् ।
तदभूद्द्बैरथं युद्धं बलिवासवयोरिव ॥ ११ ॥
रावणं प्राप्य रामोऽपि परं हर्षमुपागमत् ।
तदभूदद्‌भुतं युद्धं द्वयोर्वै रोमहर्षणम् ॥ १२ ॥
रामस्य च महाबाहोर्बलिनो रावणस्य च ।
गन्धर्वेण च गान्धर्वं देवं दैवेन राघवः ॥ १३ ॥
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ।
अस्त्रयुद्धे च परमो रावणो राक्षसाधिपः ॥ १४ ॥
ससर्ज परमक्रुद्धः पन्नगास्त्रं स राघवे ।
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषिताः ॥ १५ ॥
अभ्यवर्षन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ।
ते सर्पवदना घोरा वमन्तो ज्वलनं मुखैः ॥ १६ ॥
राममेवाभ्यवर्त्तन्त व्यादितास्या भयावहाः ।
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ॥ १७ ॥
दिशश्च विदिशश्चैव समन्तादावृता भृशम् ।
रामः सम्पततो दृष्ट्वा पन्नगांस्तान्सहस्रशः ॥ १८ ॥
सौपर्णमस्त्रं तद्घोरं पुनः प्रावर्तयद्‌रणे ।
रामेण च शरा मुक्ता रुक्मपुङ्खाः शिलाशिताः ॥ १९ ॥
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ।
ते ताञ्छनुशराञ्जघ्नुः सर्परूपान्महाविषान् ॥ २० ॥
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ।
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ॥ २१ ॥
अभ्यवर्षत्तदा रामं घोराभिश्चाश्मवृष्टिभिः ।
ततः शरसहस्रेण पुनरक्लिष्टकारिणम् ॥ २२ ॥
रामबाणानभ्यहनद्धोराभिः शरवृष्टिभिः ।
विषेदुर्देवगन्धर्वाश्चारणाः पितरस्तथा ॥ २३ ॥
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ॥ २४ ॥
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।
समाक्रम्य बुधस्तस्थौ प्रजानामाहते रतः ॥ २५ ॥
सधूमः वरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।
उत्पपात ततः क्रुद्धः स्पृशन्निव दिवाकरम् ॥ २६ ॥
नष्टरूपश्च पुरुषो मन्दरश्मिर्दिवाकरः ।
अदृश्यत कबन्धांकः समेतो धूमकेतुना ॥ २७ ॥
रूक्षाश्च खरनिर्घोषा गगने पुरुषाधमाः !
औत्पातिकानि नर्दन्तः समन्तात्परिचक्रमुः ॥ २८ ॥
रामोऽपि बद्ध्वा भ्रुकुटिं क्रोधसंरक्तलोचनः ।
कोधं चकार सुभृशं निर्द्दहन्निव राक्षसम् ॥ २९ ॥
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।
सर्वभूतानि वित्रेषुः प्राकम्पत मही तदा ॥ ३० ॥
सिंहशार्दूलमाञ्छैलः प्रजज्वालाकुलद्रुमः ।
बभूव चातिक्षुभितः समुद्र इव पर्वसु ॥ ३१ ॥
लङ्कायां रावणवधे यं प्रयुक्तं शरं प्रभुः ।
जग्राह तं शरं दीप्तं निःश्वसन्तमिवोरगम् ॥ ३२ ॥
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।
ब्रह्मदत्तं महाबाणं यमाह युधि तद्वधे ॥ ३३ ॥
ब्रह्मणा निर्मितं पूर्णमिन्द्राद्यामिततेजसा ।
दत्तं सुरपतेः पूर्वं त्रैलोक्यजयकांक्षिणः ॥ ३४ ॥
यस्य वाजेषु पवनः गले पावकभास्करौ
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ३५ ॥
पर्वस्वपि च विन्यस्ता लोकपाला महौजसः ।
धनदो वरुणश्चैव पाशहस्तस्तथान्तकः ॥ ३६ ॥
जाज्वल्यमानं वपुषा सपुंखं हेमभूषितम् ।
तेजसा सर्वभूतानां कृतं भास्करवर्चसा ॥ ३७ ॥
सधूममिव कालाग्निं दीप्यमानं रविं यथा ।
त्त्थनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ ३८ ॥
परिघाणां सहस्राणां गिरीणां चैव भेदनम् ।
नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ३९ ॥
कालाभं सुमहानादं नानाशक्तिविनाशनम् ।
शत्रूणां त्रासजननं सुपर्णमिव पन्नगम् ॥ ४० ॥
काकगृध्रबकानां च गोमायुवृकरक्षसाम् ।
नित्यं भक्ष्यप्रदं युद्धे राक्षसानां भयावहम् ॥ ४१ ॥
द्विषतां कीर्तिहरणं प्रकर्षकरमात्मनः ।
अभिमन्त्र्य ततो रामस्तं महेषुं महाभुजः ॥ ४२ ॥
वेदप्रोक्तेन विधिना कुण्डलीकृत्य कार्मुकम् ।
स रावणाय तं वेगाच्चिक्षेप शरमुत्तमम् ॥ ४३ ॥
स सायको धनुर्मुक्तो हन्तुं रामेण रावणम् ।
धूमपूर्वं प्रजज्वाल प्राप्य वायुपथं महान् ॥ ४४ ॥
तं वज्रमिव दुर्धर्षं वज्रपाणिविसर्जितम् ।
कृतान्तकमिवावार्य रावणो वीक्ष्य तत्पुरः ॥ ४५ ॥
हुंकृत्य किल जग्राह बाणं वामेन पाणिना ।
ततस्तं जानुनाऽऽकृष्य बभञ्ज राक्षासाधिपः ॥ ४६ ॥
भग्ने तस्मिन्छरे रामो विमना इव तस्थिवान् ।
सहस्रकन्धरः क्रुद्धः क्षुरम्प्रगृह्य सायकम् ॥ ४७ ॥
विव्याध राघवं वक्षः सर्वप्राणेन राक्षसः ।
वक्षो निर्भिद्य स शरो रामस्य सुमहात्मनः ॥ ४८ ॥
भित्त्वा महीं च सहसा पातालतलमाविशत् ।
ततो रामो महाबाहुः पपात पुष्पकोपरि ॥ ४९ ॥
निःसंज्ञो निश्चलश्चासीद्धाहा भूतानि चक्रिरे ।
प्राकम्पत मही सर्वा सपर्वतवनाब्धिका ।
ऋषयः कान्दिशीकास्ते हा राम इति वादिनः ॥ ५० ॥
दशशतवदनो जितारिरुग्रो रणशिरसि प्रननर्त सानुयात्रः ।
गगनतलगता निपेतुरुल्काः प्रलयमिवापि च मेनिरे जनौघाः ॥ ५१ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे रामस्वप्नायितं नाम द्वाविंशतितमः सर्गः ॥ २२ ॥

GO TOP