॥ अद्‌भुत रामायणम् ॥

दशमः सर्गः

हनूमते श्रीरामस्य चतुर्भुजरूपदर्शनवर्णनम् -

अथ सीतालक्ष्मणाभ्यां सह केनापि हेतुना ।
जगाम विपिनं रामो दण्डकारण्यमाश्रितः ॥ १ ॥
तत्र गोदावरीतीरे पर्णशालां विधाय सः ।
उवास कंचित्कालं वै मृगयामभिकारयन् ॥ २ ॥
रावणो राक्षसेन्द्रोऽथ कालपाशनियन्त्रितः ।
रामेण लक्ष्मणेनापि रहितां जानकीं ततः ॥ ३ ॥
कदाचिद्‌रावणो मोहाल्लङ्कायां तां न्यवासयत् ।
तामदृष्ट्वा ततो रामो लक्ष्मणश्च महाबलः ॥ ४ ॥
आटतुश्चाटवीं सर्वां सीतादर्शनलालसौ ।
रामस्य रुदतस्तस्य बाष्पवारिसमुद्‌भवा ॥ ५ ॥
नदी वैतरणी चाभूच्चक्षुषोरश्रुवुद्‌भवा ।
वितरत्यश्रु वै यस्मादतो वैतरणी स्मृता ॥ ६ ॥
पितॄणां तरणं यस्मान्नृणां वै स्नानतर्पणात् ।
तेनापि कारणेनासौ नदी वैतरणी स्मृता ॥ ७ ॥
नेत्रयोर्दूषिकायाश्च ताभिः शैलास्ततोऽभवन् ।
सुग्रीवेण वानरेण सख्यं कर्तुं महामनाः ॥ ८ ॥
ऋष्यमूकमगाद्‌रामो लक्ष्मणेनानुजेन च ।
पञ्चभिर्मन्त्रिभिः सार्द्धं सुग्रीवो नाम वानरः ॥ ९ ॥
यत्रास्ते वालिभीत्रस्तः सो ऽपश्यद्‌रामलक्ष्मणौ ।
चापबाणधरौ वीरौ ग्रसन्ताविव चाम्बरम् ॥ १० ॥
तौ दृष्ट्वा सुमहत्त्रस्तो वालिपक्षावमन्यत ।
प्रास्थापयद्धनूमन्तं भिक्षुरूपेण वानरम् ॥ ११ ॥
आत्मानं दर्शयामास हनूमान् रामलक्ष्मणौ ।
को भवानिति चोक्तेऽथ चतुर्बाहुं किरीटिनम् ॥ १२ ॥
शङ्खचक्रगदापाणिं वनमालाविभूषितम् ।
श्रीवत्सवक्षसं देवं पीतवाससमच्युतम् ॥ १३ ॥
लक्ष्मीसरस्वतीभ्यां च संश्रितोभयपार्श्वकम् ।
ब्रह्मपुत्रैः सनन्दाद्यैः स्तूयमानं समन्ततः ॥ १४ ॥
देवर्षिपितृगन्धर्वैः सिद्धविद्याधरोरगैः ।
सेव्यमानं महात्मानं पुण्डरीकविलोचनम् ॥ १५ ॥
सहस्त्रसूर्यसङ्काशं शतचन्द्रशुभाननम् ।
फणासहस्रमतुलं धारयन्तं च लक्ष्मणम् ॥ १६ ॥
अनन्तं रामशिरसि आतपत्रं फणागणैः ।
दधानं सर्वलोकेशं नागसंघैश्व संस्तुतम् ॥ १७ ॥
आत्मानं दर्शयामास रामचन्द्रो हनूमते ।
तद्‌रूपं हनुमन्वीक्ष्य किमेतदिति विस्मितः ॥ १८ ॥
क्षणं निमील्य नयने पुनः सोऽपश्यदद्‌भुतम् ।
स्तुत्वा नत्वा च बहुधा सोऽब्रवीद्‌राघवं वचः ॥ १९ ॥
अहं युग्रीवसचिवो हनूमान्नाम वानरः ।
सुग्रीवेण प्रेषितोऽहं युवां कौ ज्ञातुमागतः ॥ २० ॥
दृष्ट्वा युवां च द्विभुजौ चापबाणधरौ परम् ।
आगत्य चान्यथा दृष्टं वद मे को भवानिति ॥ २१ ॥
इति पवनसुतं तं व्याकुलं व्याहरन्तं
किमिति कथामितीदं कम्पमानं प्लवङ्गम् ।
कृतकरपुटमौलिं संविधेयं ब्रुवन्तं
मधुरतरमुदारं रामचन्द्रोऽब्रवीत्तम् ॥ २२ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे चतुर्भुजरूपदर्शनं नाम दशमः सर्गः ॥ १० ॥

GO TOP