॥ अद्‌भुत रामायणम् ॥

सप्तदशः सर्गः

सीताभाषणं, सहस्रमुखरावणवृत्तान्तं च -

प्राप्तराज्यस्य रामस्य राक्षसानां क्षये कृते ।
आजग्मुर्मुनयस्तत्र राघवंप्रति नन्दितुम् ॥ १ ॥
विश्वामित्रो यवक्रीतो रैभ्यश्च्यवन एव च ।
कण्वश्च मुनिशार्दूलो ये पूर्वां दिशमाश्रिताः ॥ २ ॥
स्वस्त्यात्रेयश्च नमुचोऽरिमुचोऽगस्त्य एव च ।
आजग्मुर्मुनयस्तत्र ये श्रिताः दक्षिणां दिशम् ॥ ३ ॥
उपगुः कामठो धूम्रो रौद्राश्वो मुनिपुङ्गवः ।
आजग्मुर्मुनयस्तत्र ये प्रतीचीं समाश्रिताः ॥ ४ ॥
शिष्योपशिष्यसहिता वसिष्ठप्रमुखर्षयः ।
आजग्मुर्हि महात्मानं उत्तरां दिशमाश्रिताः ॥ ५ ॥
प्राप्यते तु महात्मानो राघवस्य निवेशनम् ।
गृहीत्वा फलमूलानि हुताशसमविग्रहाः ॥ ६ ॥
राघवं प्रतिनन्द्याथ विविशुः परमासने ।
राघवश्च महातेजाः सीतया सह सुव्रतः ॥ ७ ॥
भ्रातृभिर्मन्त्रिभिः सार्द्धं पौरैः श्रेणिमुखैस्तथा ।
विनीत उपसङ्गम्य पूजयामास तान्मुनीन् ॥ ८ ॥
अगस्त्यप्रमुखा विप्रा दिष्ट्यादिष्ट्यैति चाब्रुवन् ।
राघवं प्रशशंशुस्ते मुनयो वाग्विदां वराः ॥ ९ ॥
त्वं हि देवो जगन्नाथो जगतामुपकारकः ।
रावणस्य सपुत्रस्य सामात्यस्य वधात्प्रभो ॥ १० ॥
जगदेतन्महाबाहो पुनर्जातमिवाभवत् ।
न रावणादभ्यधिको दुष्टो लोकभयंकरः ॥ ११ ॥
दशास्यैर्दशदिक्कार्यमाज्ञापयति राक्षसः ।
स दशास्यो हतो राम दिष्ट्या च जगदुद्धृतम् ॥ १२ ॥
भगवानसि भूपाल ब्रह्मणाभ्यर्थितः पुरा ।
पुण्डरीकविशालाक्षः श्याम आजानुबाहुकः ॥ १३ ॥
अयोध्यायां प्रादुरभूद्‌इक्ष्वाकुकुलनन्दनः ।
त्वद्दर्शनान्महाबाहो निर्वृता स्मो वयं प्रभो ॥ १४ ॥
तपश्चरामः सहितास्त्वत्प्रसादाद्वने वने ।
किन्तु सीता महादेवी प्राप दुःखं महत्प्रभो ॥ १५ ॥
तदेव स्मर्यमाणं सच्चित्तमुद्वेजयेद्विभो ।
एवमुक्ते तु मुनिभिः सानुक्रोशं पुनः पुनः ॥ १६ ॥
जहास मधुरं साध्वी सीता जनकनन्दिनी ।
उवाच सस्मितं देवी तान्मुनीन्मितभाषिणी ॥ १७ ॥
मुनयो यद्यदुक्तं हि रावणस्य वधं प्रति ।
परिहास इवाभाति प्रशंसनमिदं द्विजाः ॥ १८ ॥
रावणो हि दुराचारः सत्यमेव न संशयः ।
दशभिर्वदनैर्वीरो जगदुद्वेजको हि सः ॥ १९ ॥
दशास्यस्य वधो विप्रा न प्रशंसामिहार्हति ।
एतच्छ्रुत्वा तु मुनयो विस्मयं परमं गताः ॥ २० ॥
किमेतदिति होचुस्ते परस्परमुखेक्षणाः ।
अयोनिसम्भवा सीता काकुत्स्थकुलमाश्रिता ॥ २१ ॥
अस्मानपि जहासेयं किमेतन्नैव विद्महे ।
तच्छ्रुत्वा वचनं तेषां मुनीनां भावितात्मनाम् ॥ २२ ॥
सीता भीता प्रणम्योचे कृताञ्जलिपुटा सती ।
पृथग्जनेव मुनयो नाहमनृतभाषिणी ॥ २३ ॥
यदि चाज्ञापयथ मां तदा वक्ष्यामि चादितः ।
अगस्त्यप्रमुखा विप्राः सीताया विनयान्वितम् ॥ २४ ॥
आकर्ण्य वचनं प्रीताः प्रोचुस्ते कथ्यतामिति ।
ततः सीता महाभागा प्रवक्तुमुपचक्रमे ॥ २५ ॥
पतिं मुनीन्देवरांश्च मन्त्रिणः श्रोणिमुख्यकान् ।
विनयेनाभ्यनुज्ञाप्य पूर्ववृत्तान्तमादरात् ॥ २६ ॥
पूर्वं विवाहान्‍मुनयो यदाऽऽसं पितृमन्दिरे ।
तदैकोऽतिथिरूपेण ब्राह्मणः समुपागतः ॥ २७ ॥
आगत्य पितरं मह्यं तमुवाच द्विजोत्तमः ।
चतुरो वार्षिकान्मासान्स्थास्यामि तव मन्दिरे ॥ २८ ॥
यदि सेवापरो नित्यं भवस्यमरसन्निभः ।
जनको मत्पिता देवद्विजभक्तिपरायणः ॥ २९ ॥
ब्राह्मणं वासयामास नानाभक्ष्यं समादिशत् ।
अहं च तस्य सेवायै नियुक्ता धर्मभीरुणा ॥ ३० ॥
यदा यथाऽऽज्ञापयति द्विजः स परमार्थवित् ।
तं तथा ह्यकरवं तस्य रात्रिंदिवमतन्द्रिता ॥ ३१ ॥
नानातीर्थाभिगमनं कृतं तेन महात्मना ।
तत्रत्याश्च कथाश्चित्राः श्रावयामास मां द्विजः ॥ ३२ ॥
सेवया मम धैर्येण चानुकुल्येन तर्पितः ।
कदाचिद्ब्राह्मणश्रेष्ठः प्रियभाषी यदात्थ माम् ॥ ३३ ॥
तद्वोऽहमभिधास्यामि शृणुत द्विजपुङ्गवाः ।
एकदा प्रातरुत्थाय कृतमैत्रः कृतान्हिकः ॥ ३४ ॥
सीते इति समाभाष्य प्रवक्तुमुपचक्रमे ।
शृणु सीते मया दृष्टमाश्चर्यं कमलानने ॥ ३५ ॥
दधिमण्डोदकाब्धेश्च परः स्वादूदकोऽब्धिकः ।
पुष्करद्वीपमावृत्य वर्तते वलयाकृतिः ॥ ३६ ॥
पुष्करं पुष्करे दृष्टं महावह्निशिखोज्ज्वलम् ।
पत्रायुतायुतयुतं ब्रह्मणः परमासनम् ॥ ३७ ॥
तद्द्वीपवर्षयोर्मध्ये मानसोत्तरसंज्ञकः ।
मर्यादापर्वतो दैर्घ्ये चायामेऽयुतयोजनः ॥ ३८ ॥
तच्छैलस्य चतुर्दिक्षु इन्द्रादीनां पुराणि हि ।
क्रीडार्थं निर्मितान्येषां महान्ति विश्वकर्मणा ॥ ३९ ॥
सुमाली राक्षसश्रेष्ठो कैकसी नाम तत्सुता ।
मुनेर्विश्रवसः पत्‍नी सा सूत रावणद्वयम् ॥ ४० ॥
एकः सहस्रवदनो द्वितीयो दशवक्त्रकः ।
जन्मकाले सुरैरुक्तमाकाशे रावणद्वयम् ॥ ४१ ॥
लोकानां रावणाज्जातं नामयौगिकमेतयोः ।
कनिष्ठो दशकण्ठोऽयं शितिकण्ठप्रसादतः ॥ ४२ ॥
लङ्कामधिवसत्येष धनदेन विनिर्मिताम् ।
ब्रह्मणो वरदानेन त्रिलोकीमवमन्यते ॥ ४३ ॥
श्रेष्ठः सहस्रवदनो रावणो लोकरावणः ।
स्वाभाविकबलेनासौ पुष्करद्वीपमाश्रितः ॥ ४४ ॥
सूर्याचन्द्रमसो गृह्य क्रीडेत्कन्दुकलीलया ।
कुलाचलान्समुद्‌गृह्य कन्दुकं क्रीडते हि सः ॥ ४५ ॥
मानसोत्तरशैलस्य चतुर्दिक्षु पुराणि हि ।
आच्छिद्य संगृहीतानि दिगीशानां महात्मनाम् ॥ ४६ ॥
तत्रैव रमते राजा मातामहकुलैः सह ।
तत्रैन्द्री या पुरी रम्या स स्वयं तत्र तिष्ठति ॥ ४७ ॥
अन्यान्यन्येभ्य एवादान्मन्त्रिभ्यो राक्षसाधिपः ।
विशेषतोऽलंकृता सा पुरी परमदुर्लभा ॥ ४८ ॥
जगतां सारमाकृष्य यथास्थानं सुमण्डिता ।
चम्पकाशोकमन्दारकदलीप्रियकार्जुनैः ॥ ४९ ॥
पाटलाशोकजम्बूभिः कोविदारैश्च चन्दनैः ।
पनसैः सालतालैश्च तमालैर्देवादारुभिः ॥ ५० ॥
बकुलैः पारिजातैश्च कल्पवृक्षैरलंकृता ।
अन्यैश्च विविधैर्वृक्षैः सर्वर्तुकुसुमोज्ज्वलैः ॥ ५१ ॥
दिव्यगन्धरसैर्दिव्यैः सर्वर्तुफलसंयुतैः ।
भ्रमरैः कोकिलैर्नानावर्णपक्षिभिरुज्ज्वला ॥ ५२ ॥
शातकौम्भमयैः कैश्चित्कैश्चिदग्निशिखोपमैः ।
नीलाञ्चननिभैश्चान्यैः शोभिता वरपादपैः ॥ ५३ ॥
दीर्घिकाः सति बह्व्योऽत्रजल पूर्णा महोदयाः ।
महार्हमणिसोपानाः स्फाटिकान्तरकुट्टिमाः ॥ ५४ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।
दात्यूहगणसंघुष्टा हंससारसनोदिताः ॥ ५५ ॥
तत्र तत्रावनेर्देशा वैदूर्यमणिसन्निभाः ।
शार्दूलैः परमोपेताः सुखार्थमुपकल्पिताः ॥ ५६ ॥
सर्वर्तुसुखदा रम्याः पुंस्कोकिलकलरवाः ।
ये वृक्षा नन्दनेऽतिष्ठन् ये च चैत्रवने स्थिताः ॥ ५७ ॥
मन्दरेऽन्येषु शैलेषु ते वृक्षास्तत्र सन्स्थिताः ।
नानामणिमयी भूमिर्मुक्ताजालमयी तथा ॥ ५८ ॥
विचित्रबद्धसोपानप्रासादैरुपशोभिता ।
पुरद्वारसमाकीर्णा पुरी परमशोभना ॥ ५९ ॥
न देवैरनुभूयेत स्वर्गिभिर्नानुभूयते ।
तत्पुरीस्थितिमाकांक्ष्य तपः कुर्वन्ति सत्तमाः ॥ ६० ॥
तस्यां सहस्रवदनो रावणो राक्षसाधिपः ।
आस्ते जगद्वशीकृत्य हेलया बाहुलीलया ॥ ६१ ॥
इन्द्रादींस्त्रिदशान्सर्वान्गले बद्द्धा स किन्नरान् ।
गंधर्वान्दानवान्भीमान्सर्पान्विद्याधरांस्तथा ॥ ६२ ॥
बालक्रीडनया क्रीडन्मेरुंमन्येत सर्षपम् ।
गोष्पदं मन्यते चाब्धिं सर्वलोकांस्तृणोपमान् ॥ ६३ ॥
द्वीपांल्लोष्टसमान्वीरो न किञ्चिदगणयन् दृशा ।
स सदा सर्वलोकानां त्रासने समुपारभत् ॥ ६४ ॥
तदा पितामहोऽभ्येत्य पुलस्त्यो विश्रवास्तथा ।
न्यवारयन्यत्‍नतस्तं तात वत्सेति भाषकाः ॥ ६५ ॥
एवं स रावणो देवि सहस्रवदनो महान् ।
पुष्करद्वीपमासाद्य वर्तते जनकात्मजे ॥ ६६ ॥
तस्यानुजो दशास्योऽयं लङ्कायां जानकि स्थितः ॥ ६७ ॥
चित्राणीत्यादीनि मे शंसयित्वा
     विप्रो मासाश्चतुरो यापयित्वा ।
राजानं मां चाशिषा योजयित्वा
     जगामैकः प्रोषितस्तीर्थयात्राम् ॥ ६८ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे सीताभाषणं नाम सप्तदशः सर्गः ॥ १७ ॥

GO TOP