॥ अद्‌भुत रामायणम् ॥

षोडश सर्गः

रावणवधानन्तरं श्रीरामराज्योपलब्धिः -

रामः प्रत्याह च पुनर्हनूमन्तं महाद्युतिः ।
रक्षसा मे हृता भार्या रावणेन दुरात्मना ॥ १ ॥
सुग्रीवेण समं सख्यं कारयाद्य प्लवङ्गम ।
हसित्वा मधुरं वीरो हनूमानब्रवीद्वचः ॥ २ ॥
तव भार्या महाभाग रावणेन हृतेति यत् ।
विश्वं यथेदमाभाति तथेदं प्रतिभाति मे ॥ ३ ॥
तथापि प्रभुणादिष्टं कार्यमेव हि किंकरैः ।
इत्युक्त्वा हनूमांस्तूर्णं प्रसन्नेनान्तरात्मना ॥ ४ ॥
आरोप्य स्कन्धयोवीरौ सुग्रीवान्तिकमानयत् ।
तौ दृष्ट्वा पुरुषव्याघ्रौ सुग्रीवो वानरोत्तमः ॥ ५ ॥
वालिनं तं जितं मेने प्राप्तां मेनेरुमां स्त्रियम् ।
सख्यं चकार रामेण दिष्ट्याऽऽदिष्टेति चा ब्रवीत् ॥ ६ ॥
वालिनो विलयं कृत्वा राज्यं चास्मै निवेद्य च ।
नानादेश्यान्वानरांश्च आनाय्य रघुनन्दनौ ॥ ७ ॥
हनूमदङ्गदारूढौ भ्रातरौ रामलक्ष्मणौ ।
सिन्धोस्तटं तौ ययतुः सुग्रीवेण स प्रभू ॥ ८ ॥
पारेसमुद्रं लङ्का च निरूप्याह रघूत्तमः ।
वानरा हि यथा यान्ति लङ्का लक्ष्मण तत्कुरु ॥ ९ ॥
रामस्य वचनं श्रुत्वा समुद्रं प्राह लक्ष्मणः ।
सिंधो त्वं स्तम्भयात्मानं यथा यास्यन्ति वानराः ॥ १० ॥
सिन्धुस्तु प्रभुणाऽऽदिष्टं न शुश्राव यदा तदा ।
लक्ष्मणः क्रोधसंदीप्तः पपाताब्धेर्जलान्तरे ॥ ११ ॥
तद्देहवह्निशिखया शुशोष जलघेर्जलम् ।
यादांसि स्थलभाजीनि देवा भीता दिशोऽद्रवन् ॥ १२ ॥
तद्दृष्ट्वा महदाश्चर्यं वानरा विस्मयं गताः ।
हाहाकारं प्रचक्रुस्त्ते सर्वे लोकाश्वराचराः ॥ १३ ॥
ऋषयो भूतसङ्घाश्च स्वस्ति स्वस्तीति चाब्रुवन् ।
राघवो लक्ष्मणं प्राह नैतद्युक्तं त्वया कृतम् ॥ १४ ॥
पुनरेनं पूरयामि सीताविरहजेन वै ।
अश्रुणेति प्रतिज्ञाय तं तथापूरयत्प्रभुः ॥ १५ ॥
रामोपरि तदाऽऽकाशात्पुष्पवृष्टिः पपात ह ।
लोकाश्च सुस्थिरा आसंश्चिन्तयित्वा पुनः पुनः ॥ १६ ॥
सिन्धुना संस्तुतो रामः सेतुं सिन्धौ बबन्ध ह ।
लङ्कायां रावणं हत्वा सगणं मधुसूदनः ॥ १७ ॥
आरोप्य पुष्पके सीतां विभीषणसहायवान् ।
अयोध्यामागमद्‌रामः सुग्रीवहनूमदादिभिः ॥ १८ ॥
आनन्दैर्योजयामास भ्रातॄन्मातॄश्व बान्धवान् ।
राजा सर्वस्य लोकस्य प्रजानामनुरञ्जनः ॥ १९ ॥
रामं राजानमासाद्य तिर्यञ्चोऽपि ययुर्मुदम् ।
देवदुन्दुभयो नेदुः सर्वदा हि नभस्तले ।
ववृषुर्जलदाः काले पुष्पवृष्टिः पपात च ॥ २० ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे रामराज्योपलम्भनं नाम षोडशः सर्गः ॥ १६ ॥

GO TOP