॥ अद्भुत रामायणम् ॥
त्रयोविंशतितमः सर्गः
जानकीकृतः सहस्रवदनरावणवधः -
रामं तथाविधं दृष्ट्वा मुनयो भयविह्वलाः ।
हाहाकारं प्रकुर्वन्तः शान्तिं जेपुश्च केचन ॥ १ ॥
तदा तु मुनिभिर्दृष्टा नीता प्रहसितानना ।
वसिष्ठप्रमुखाः सर्वे सीतां प्रोचुर्महर्षयः ॥ २ ॥
सीते कथं श्रावितोऽयं रावणं राघवस्त्वया ।
समुत्पन्नो विपाकोऽयं घोरो जनकनन्दिनि ॥ ३ ॥
क्व गता भ्रातरः सर्वे क्व गता वानरर्षभाः ।
मन्त्रिणः क्व गता भद्रे रामस्य किमुपस्थितम् ॥ ४ ॥
श्रुत्वैतद्वचनं तेषां मुनीनां भावितात्मनाम् ।
रामं तथाविधं दृष्ट्वा शयानं पुष्पकोपरि ॥ ५ ॥
पुण्डरीकनिभे नेत्रे निमील्य रणमूर्द्धनि ।
आलिंग्य चोरसा सुप्तं प्रियामिव धनुः शरम् ॥ ६ ॥
नर्दन्तं राक्षसं चापि महाबलपराक्रमम् ।
साट्टहासं विनद्योच्चैः सीता जनकनन्दिनी ॥ ७ ॥
स्वरूपं प्रजहौ देवी महाविकटरूपिणी ।
क्षुत्क्षामा कोटराक्षी चक्रभ्रमितलोचना ॥ ८ ॥
दीर्घजङ्घा महारावा मुण्डमालाविभूषणा ।
अस्थिकिङ्किणिका भीमा भीमवेगपराक्रमा ॥ ९ ॥
खरस्वरा महाघोरा विकृता विकृतानना ।
चतुर्भुजा दीर्घतुण्डा शिरोऽलङ्करणोज्ज्वला ॥ १० ॥
ललज्जिह्वा जटाजुटैर्मण्डिता चण्डरोमिका ।
प्रलयाम्भोदकालाभा घण्टापाशविधारिणी ॥ ११ ॥
अवस्कन्द्यरथात्तूर्णं खड्गखर्परधारिणी ।
श्येनीव रावणरथे पपात निमिषान्तरे ॥ १२ ॥
शिरांसि रावणस्याशु निमेषान्तरमात्रतः ।
खड्गेन तस्य चिच्छेद सहस्राणीह लीलया ॥ १३ ॥
अन्येषां योद्धृवीराणां शिरांसि नखरेण हि ।
भिन्ना निपातयामास भूमौ तेषां दुरात्मनाम् ॥ १४ ॥
केषाञ्चित्पाटयामास नख कोष्ठानि जानकी ।
खड्गेन चाच्छिनत्कांश्चित्क्रूरान्पादांश्च चिच्छिदे ॥ १५ ॥
खण्डं खण्डं चकारान्यांस्तिलशः कांश्चिदेव हि ।
अन्त्राण्यन्यस्याचकर्ष पदाघातेन कांश्चन ॥ १६ ॥
पार्श्वेन निजघानान्यान्पार्ष्णिनान्यानपोथयत् ।
कांश्चिच्छरीरवातेन दृष्ट्वाप्यन्यानपातयत् ॥ १७ ॥
प्रलयं कुर्वती सीता राक्षसानां भयङ्करी ।
निजघानाट्टहासने कांश्चित्पृष्ठे द्विधाकरोत् ॥ १८ ॥
कांश्चित्केशान्समाकृष्य निष्पिपेष महीतले ।
सरथान्सगजान्साश्वान्सगदासहतोमरान् ॥ १९ ॥
कांश्चिद्योधान्समाकृष्य मज्जयामास वारिधौ ।
गले चोद्बद्ध्य केषांश्चित्प्राणाञ्जग्राह जानकी ॥ २० ॥
केषाञ्चित्स्कन्ध आरुह्य शिरांस्युत्पाटितानि हि ।
हुङ्कारेणाट्टहासेन केषाञ्चित्प्राणानहापयत् ॥ २१ ॥
कांश्चित्प्रचूर्ण्य वदनं पशुमारममारयत् ।
तान्सर्वान्निमिषेणैव निहत्य जनकात्मजा ॥ २२ ॥
तेषामन्त्रेण शिरसां मालाभिः कृतभूषणा ।
रावणस्य शिरांस्युग्राण्यादाय रणमूर्द्धनि ॥ २३ ॥
कन्दुकक्रीडनं कर्तुं मनश्चक्रे मनस्विनी ।
एतस्मिन्नन्तरे तस्या रोमकूपेभ्य उद्गताः ॥ २४ ॥
मातरो विकृताकाराः साट्टहासाः समाययुः ।
सह कन्दुकलीलार्थे सीतया ताः सहस्रशः ॥ २५ ॥
तासां कासाञ्चिदाख्यास्ये नामानि शृणु सुव्रत ।
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥ २६ ॥
प्रभावती विशालाक्षी पालिता गोनसी तथा ।
श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥ २७ ॥
अप्सुजाता च गोपाली बृहदम्बालिका तथा ।
जयावती मालतिका ध्रुवरत्ना भयङ्करी ॥ २८ ॥
वसुदामा सुदामा च विशोका नन्दिनी तथा ।
एकचूडा महाचूडा चक्रनेमिश्चटीतमा ॥ २९ ॥
उत्तेजनी जया सेना कमलाक्ष्यथ शोभना ।
शत्रुञ्जया तथा चैव क्रोधना शलभा खरी ॥ ३० ॥
माधवी शुभवस्त्रा च तीर्थसेना जटोज्ज्वला ।
गीतप्रिया च कल्याणी कद्रुरोमामिताशना ॥ ३१ ॥
मेघस्वना भोगवती सुभ्रूश्च कनकावती ।
अलाताक्षी वेगवती विद्युज्जिह्वा च भारती ॥ ३२ ॥
पद्मावती सुनेत्रा च गन्धरा बहुयोजना ।
सन्नालिका महाकाली कमला च महाबला ॥ ३३ ॥
सुदामा बहुदामा च सुप्रभा च यशस्विनी ।
नृत्यप्रिया परानन्दा शतोलूखलमेखला ॥ ३४ ॥
शतघण्टा शतानन्दा आनन्दा भवतारिणी ।
वपुष्मती चन्द्रसीता भद्रकाली सटामला ॥ ३५ ॥
झंकारिका निष्कुटिका रामा चत्वरवासिनी ।
सुमला सुस्तनवती वृद्धिकामा जयप्रिया ॥ ३६ ॥
धना च सुप्रसादा च भवदा च जनेश्वरी ।
एडी भेडी समेडी च वेतालजननी तथा ॥ ३७ ॥
कन्दुतिः कन्दुका चैव वेदमित्रा सुदेविका ।
लम्बास्या केतकी चैव चित्रसेना चलाचला ॥ ३८ ॥
कुक्कुटिका शृङ्खलिका तथा शंकुलिका हडा ।
कन्दालिका काकलिका कुम्भिकाया शतोदरी ॥ ३९ ॥
उत्क्राथिनी जवेला च महावेगा च कङ्किनी ।
मनोजवा कटकिनी प्रघसा पूतना तथा ॥ ४० ॥
खेशया चातिद्रढिमा कोशनाथतडित्प्रभा ।
मन्दोदरी च तुण्डी च कोटरा मेघवाहिनी ॥ ४१ ॥
सुभगा लम्बिनी लम्बा बसुचूडा विकत्थिनी ।
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ॥ ४२ ॥
पृथुवक्त्रा मधुलिहा मधुकुम्भा तथैव च ।
यक्षाणिका मत्सरिका जरायुर्जर्जरानना ॥ ४३ ॥
ख्याता डहडहा चैव तथा धमधमा द्विजा ।
खण्डखण्डा पृथुश्रोणी पूषणामणिकुट्टिका ॥ ४४ ॥
अम्लोचा चैव निम्लोचा तथा लम्बपयोधरा ।
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ॥ ४५ ॥
शशोलूकमुखी हृष्टा खरजङ्घा महाजरा ।
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ॥ ४६ ॥
जटालीका कामचरी दीर्घजिह्वा बलोत्कटा ।
कालाहिका यामालिका मुकुटा मुकुटेश्वरी ॥ ४७ ॥
लोहिताक्षी महाकाया हविष्पिण्डा च पिण्डिका ।
एकत्वचा सुकूर्मा च कुल्लाकर्णी च कर्णिका ॥ ४८ ॥
सुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ।
चतुष्पथनिकेता च गोकर्णी महिषानना ॥ ४९ ॥
खरकर्णी महाकर्णी भेरीस्वनमहास्वना ।
शङ्खकुम्भश्रवा चैव भगदा च महाबला ॥ ५० ॥
गणा च सुगणा चैव कामदाप्यथ कन्यका ।
चतुष्पथरता चैव भूतितीर्थान्यगोचरा ॥ ५१ ॥
पशुदा विनुदा चैव सुखदा च महायशाः ।
पयोदा गोमहिषदा सुविशाला चतुर्भुजा ॥ ५२ ॥
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुलोचना ।
नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा ॥ ५३ ॥
एकवक्त्रा मेघरवा मेघवामा द्विरोचना ।
एताश्चान्याश्च बहवो मातरः कोटिकोटिशः ॥ ५४ ॥
असंख्याताः समाजग्मुः क्रीडितुं सीतया सह ।
दीर्घवक्ष्यो दीर्घदन्त्यो दीर्घतुण्ड्यो द्विजोत्तम ॥ ५५ ॥
सरसा मधुराश्चैव यौवनस्थाः स्वलंकृताः ।
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ॥ ५६ ॥
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः ।
कृष्णमेघनिभाश्चान्या धूम्राश्च द्बिजपुङ्गव ॥ ५७ ॥
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ।
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ॥ ५८ ॥
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ।
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः ॥ ५९ ॥
शत्रूणां विग्रहे नित्यं भयदास्ता भवंत्यपि ।
कामरूपधराश्चैव जवे वायुसमास्तथा ॥ ६० ॥
शिरांसि रक्षसां गृह्य गण्डशैलोपमान्यपि ।
चक्रीडुः सीतया सार्द्ध तस्मिन् रणधरातले ॥ ६१ ॥
मुण्डमालाधराश्चैव काश्चिन्मुण्डविभूषणाः ।
रणाङ्गणे महाघोरे गृध्रकङ्कशिवान्विते ॥ ६२ ॥
मांसासृक्पंकिले घोरे तत्र तत्र पुरोपमे ।
ननर्त जानकी देवी घोरकाली महाबला ॥ ६३ ॥
तदा चकम्पे पृथिवी नौरिवानिलचालिता ।
चेलुश्च भूधराः सर्वे समुद्राश्च चकम्पिरे ॥ ६४ ॥
स्वर्गिणां च विमानानि खात्पेतुर्भयतो द्विज ।
सूर्यस्य दुद्रुवुर्भीता वाजिनो मुक्तरश्मयः ॥ ६५ ॥
यदा न सेहे जानक्याः भारं सोढुं वसुन्धरा ।
गन्तुमैच्छत पातालं सीतापादाग्रपीडिता ॥ ६६ ॥
अट्टहासेन सीताया मातॄणां हुंकृतेन च ।
प्रलयं मेनिरे लोकाः किमेतदिति विंह्नलाः ॥ ६७ ॥
धरापातालगमनं वितर्क्य सुरसत्तमैः ।
सम्प्रार्थितो महादेवः स्वयमायाद्रणाजिरम् ॥ ६८ ॥
जानक्याः पादविन्यासे शवरूपधरो हरः ।
आत्मानं स्तम्भयामास धरणीधृतिहेतवे ॥ ६९ ॥
सर्वभारसहो देवः सीतापादतले स्थितः ।
शवरूपो विरूपाक्षः संस्थिताभूद्धरा तदा ॥ ७० ॥
तथाप्युपरिगा लोका न स्थातुं सेहिरे क्षणम् ।
सीतायाः पादशब्देन शिरसा हुंकृतेन च ।
निःश्वासवातसङ्घाते दुःस्थिता भूर्भुवादयः ॥ ७१ ॥
धरणितनयया यद्भीमनृत्यं धरण्यां
कृतमिह मनसा तच्चिन्तयन्तो द्विजेन्द्राः ।
जयति जयति सीतेत्याहुरिन्द्रादिदेवाः
सपदि भुवन भंगं मन्यमाना विषेदुः ॥ ७२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तराकाण्डे
सहस्रवदनरावणवधो नाम त्रयोविंशतितमः सर्गः. ॥ २३ ॥
GO TOP
|