॥ अद्‌भुत रामायणम् ॥

चतुर्दशः सर्गः

श्रीरामचन्द्रहनुमत्संवादवर्णनम् -

सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्ता सर्वात्माऽहं सनातनः ॥ १ ॥
सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् ।
मय्येवान्तःस्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ २ ॥
भवता चाद्‌भुतं दृष्टं यत्स्वरूपं तु मामकम् ।
ममैषा ह्युपमा वत्स मायया दर्शिता मया ॥ ३ ॥
सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत्सर्वं क्रियाशक्तिरियं मम ॥ ४ ॥
मयेदं चेष्टते विश्वं मत्स्वभावानुवर्ति च ।
सोऽहं काले जगत्कृत्स्नं करोमि हनुमन् किल ॥ ५ ॥
संहराम्येकरूपेण द्विधावस्था ममैव तु ।
आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः ॥ ६ ॥
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ।
ताभ्यां सञ्जायते सर्वं संयुक्ताभ्यां परस्परम् ॥ ७ ॥
महदादिक्रमेणैव मम तेजोविजृम्भितम् ।
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ॥ ८ ॥
हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः ।
तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ॥ ९ ॥
दत्तवानात्मजान् वेदान् कल्पादौ वतुरः किल ।
स मन्नियोगतो ब्रह्मा सदा मद्‌भावभावितः ॥ १० ॥
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ।
स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ॥ ११ ॥
भूत्वा चतुर्मुखः सर्वं सृजत्येवात्मसम्भवः ।
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ॥ १२ ॥
ममैव परमा मूर्तिः करोति परिपालनम् ।
योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ॥ १३ ॥
मदाज्ञयाऽसौ सततं संहारत्येव मे तनुः ।
हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ १४ ॥
पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः ।
भुक्तमाहारजातं यत्पचत्येतदहर्निशम् ॥ १५ ॥
वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ।
यो हि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः ॥ १६ ॥
स सञ्जीवयते सर्वमीशस्यैव नियोगतः ।
योऽन्तस्तिष्ठति भूतानां बहिर्देवो निरञ्जनः ॥ १७ ॥
मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि ।
योऽपि सञ्जीवनो नृणां देवानाममृताकरः ॥ १८ ॥
सोमः स मन्नियोगेन चोदितः किल वर्तते ।
यः स्वभासा जगत्कृत्स्नं प्रकाशयति सर्वदा ॥ १९ ॥
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः ।
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ॥ २० ॥
यज्ञानां फलदो देवो वर्ततेऽसौ मदाज्ञया ।
यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह ॥ २१ ॥
यमो वैवस्वतो देवो देवदेवनियोगतः ।
योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ॥ २२ ॥
सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा ।
यः सर्वरक्षसां नाथस्तापसानां फलप्रदाः ॥ २३ ॥
मन्नियोगादसौ देवो वर्तते निर्ऋतिः सदा ।
वैतालगणभूतानां स्वामी भोगफलप्रदः ॥ २४ ॥
ईशानः सर्वभक्तानां सोऽपि तिष्ठेन्ममाज्ञया ।
यो वामदेवोऽङ्‌गिरसः शिष्यो रुद्रगणाग्रणीः ॥ २५ ॥
रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया ।
यश्च सर्वजगत्पूज्ययो वर्तते विघ्नकारकः ॥ २६ ॥
विनायको धर्मनेता सोऽपि मद्वचनात्किल ।
योऽपि वेदविदां श्रेष्ठो देवसेनापतिः प्रभुः ॥ २७ ॥
स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूप्रतिचोदितः ।
ये च प्रजानां पतयो मरीच्याद्या महर्षयः ॥ २८ ॥
सृजन्ति विविधान् लोकान् परस्यैव नियोगतः ।
या च श्री सर्वभूतानां ददाति विपुलां श्रियम् ॥ २९ ॥
पत्‍नी नारायणस्यासौ वर्तते मदनुग्रहात् ।
वाचं ददाति विपुलां या च देवी सरस्वती ॥ ३० ॥
सापीश्वरनियोगेन चोदिता सम्प्रवर्तते ।
याशेषपुरुषान् घोरान्नरकात्तारयत्यपि ॥ ३१ ॥
सावित्री संस्मृता देवी देवाज्ञानुविधायिनी ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ३२ ॥
यापि ध्याता विशेषेण सापि मद्वचनानुगा ।
योऽनन्तो महिमानन्तः शेषोऽशेषामरः प्रभुः ॥ ३३ ॥
दधाति शिरसा लोकं सोऽपि देवनियोगतः ।
योऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः ॥ ३४ ॥
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ।
आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ॥ ३५ ॥
अन्याश्च देवताः सर्वा मच्छासनमधिष्ठिताः ।
गन्धर्वा उरगा यक्षाः सिद्धाः साध्याश्च चारणाः ॥ ३६ ॥
भूतरक्षःपिशाचाश्च स्थिताः शास्त्रे स्वयम्भुवः ।
कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षणाः ॥ ३७ ॥
ऋत्वब्दमासपक्षाश्च स्थिताः शास्त्रे प्रजापतेः ।
युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ॥ ३८ ॥
पराश्चैव परार्द्धाश्च कालभेदास्तथापरे ।
चतुर्विधानि भूतानि स्थावराणि चराणि च ॥ ३९ ॥
नियोगादेव वर्तन्ते सर्वाण्येव स्वयम्भुवः ।
पत्तनानि च सर्वाणि भुवनानि च शासनात् ॥ ४० ॥
ब्रह्माण्डानि च वर्तन्ते देवस्य परमात्मनः ।
अतीतान्यप्यसंख्यानि ब्रह्माण्डानि मदाज्ञया ॥ ४१ ॥
प्रवृत्तानि पदार्थौघैः सहितानि समं ततः ।
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मजैः ॥ ४२ ॥
हरिष्यन्ति सहैवाज्ञां परस्य परमात्मनः ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ४३ ॥
भूतादिरादिप्रकृतिर्नियोगान्मम वर्तते ।
याऽशेषसर्वजगतां मोहिनीं सर्वदेहिनाम् ॥ ४४ ॥
मायापि वर्तते नित्यं सापीश्वरनियोगतः ।
विधूय मोहकलिलं यथा पश्यति तत्पदम् ॥ ४५ ॥
सापि विद्या महेशस्य नियोगाद्‌वशवर्तिनी ।
बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥ ४६ ॥
मयैव पूर्यते विश्वं मयैव प्रलयं व्रजेत् ।
अहं हि भगवानीशः स्वयंज्योतिः सनातनः ॥ ४७ ॥
परमात्मा परंब्रह्म मत्तो ह्यन्यन्न विद्यते ।
इत्येतत्परमं ज्ञानं भवते कथितं मया ॥ ४८ ॥
ज्ञात्वा विमुच्यते जन्तुर्जन्म संसारबन्धनात् ।
मायामाश्रित्य जातोऽहं गृहे दशरथस्य हि ॥ ४९ ॥
रामोऽहं लक्ष्मणो ह्येष शत्रुघ्नो भारतोऽपि च ।
चतुर्धा सम्प्रभूतोऽहं कथितं तेऽनिलात्मज ॥ ५० ॥
मायास्वरूपं च तव कथितं यत्प्लवङ्गम ।
कृपया तद्धृदा धार्यं न विस्मर्तव्यमेव हि ॥ ५१ ॥
येनायं पठ्यते नित्यं संवादो भवतो मम ।
जीवन्मुक्तो भवेत्सोऽपि सर्वपापैः प्रमुच्यते ॥ ५२ ॥
श्रावयेद्वा द्विजाञ्छुद्धान्ब्रह्मचर्यपरायणान् ।
यो वा विचारयेदर्थं स याति परमां गतिम् ॥ ५३ ॥
यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ५४ ॥
तस्मात्सर्वप्रयत्‍नेन पठितव्यो मनीषिभिः ।
श्रोतव्यश्चापि मन्तव्यो विशेषाद्‌ब्राह्मणैः सदा ॥ ५५ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे भगवद्धनूमत्संवादो नाम चतुर्दशः सर्गः ॥ १४ ॥

GO TOP