॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विवाहकाण्डम्
॥ चतुर्थः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच श्रीसीता रघुनायकश्च गिरिजा शंभुगणेशस्तथा नन्दीषण्मुखलक्ष्मणौ च भरतः कंजोद्भवः शत्रुहा । सर्वे ते मुनयः सुराश्च दितिजा- स्तीर्थादिनद्यो नदाः दिक्पालाः शशिभास्करौ च हनुमान् कुर्वन्तु वो मंगलम् ॥ १ ॥ तदेव लग्न सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव सीतापतेर्यत्स्मरणं विधेयम् ॥ २ ॥ एवं मंगलघोषैश्च नानावाद्यपुरःसरम् । ततस्त्वंतःपटौ मुक्त्वा ॐ पुण्याहमिति स्मरन् ॥ ३ ॥ तयोस्ते पाणिग्रहणविधानं विधिपूर्वकम् । लाजाहोमादिकं सर्व चक्रुर्मंगलपूर्वकम् ॥ ४ ॥ तदा महावाद्यघोषा निनेदुर्मंडपागणे । ननृतुर्वारनार्यश्च तदा मागधवन्दिनः ॥ ५ ॥ जगुर्मंगलगीतानि तुष्टुवुस्ते महास्वनैः । तदा दानान्यनेकानि चक्रतुस्तौ नृपोत्तमौ ॥ ६ ॥ भूरिकीर्तिरामचंद्रौ महातोषप्रपूरितौ । अथ तौ बालकौ वध्वौ निजकट्योर्निवेश्य वै ॥ ७ ॥ सीतोर्मिलादिभिः स्त्रीभिर्जग्मतुर्भोजनगृहम् । तत्र गौरीहरौ पूज्य चक्रतुश्चाग्रसिंचनम् ॥ ८ ॥ ततः कुशश्चंपकिया सुमत्या स लवोऽपि च । चक्रतुर्भोजनं चोभौ स्त्रीभिः सर्वत्र वेष्टितौ ॥ ९ ॥ मात्रा सहोपनयने विवाहे भार्यया सह । अन्येन नैव भोक्तव्यं भुक्त चेत्पतितः स्मृतः ॥ १० ॥ रामोऽपि बन्धुभिः पौरैः सुहृद्भिः पार्थिवोत्तमैः । चकार भोजनं भूरिकीर्तेः सद्मनि वै मुदा ॥ ११ ॥ एवं सीताऽपि नारीभिश्चकार भोजनं तदा । भूरितैः स्नुषाभिः सा प्रार्थिता वदिता मुहुः ॥ १२ ॥ ततो नानासमुत्साहान् भूरिकीर्तिश्चकार सः । अथ तौ बालकौ रम्यौ स्त्रीवाक्यैर्मातृसन्निधौ ॥ १।३ ॥ स्वश्वश्रूसन्निधौ चापि स्त्रीभिः सर्वत्र वेष्टितौ । स्वस्वपत्न्याः पदयोः शिरोभ्यां नमनं मुहुः ॥ १ ४ ॥ चक्रतुस्तोषसंपूर्णौ ते तवापि स्मितानन । वभवराश्च ते सर्वे निशापीता विरेजिरे ॥ १५ ॥ कुंकुमांकितपादौ ते ददतुर्वल्लभाङ्कयोः । एवं नानासमुत्साहैरतिक्रांतं दिनत्रयम् ॥ १६ ॥ चतुर्थे दिवसे रात्रौ वंशपात्रविराजितैः । दीपैर्नीराजितौ चोभौ बालकौ तौ विरेजतुः ॥ १७ ॥ ततस्तौ बालकौ पत्न्यौ स्वस्वपृष्ठे निवेश्य च । चक्रतुस्तांडवं नृत्यं कुशलौ मण्डपांगणे ॥ १८ ॥ मातृश्वश्रूरादिकासु पश्यत्सु च ससादरम् । पारिबर्हं भूरिकीर्तिः कुशाय च लवाय च ॥ १९ ॥ ददौ तुष्टमनाः शीघ्रं रामसम्बन्धहर्षितः । नियुतान्वारणेन्द्रांश्च शिविकाश्चापि तन्मिताः ॥ २० ॥ तुरगान्पञ्चनियुतं नियुतान्स्यन्दनान्ददौ । द्वाभ्यां पृथक् पृथक् पौत्रीधवाभ्यांद्रव्यपूरितान् ॥ २१ ॥ नानालङ्कारवासांसि गा दासीः सेवकांस्तथा । ददौ ताभ्यां भूरिकीर्तिर्येषां संख्या न विद्यते ॥ २२ ॥ एवं सम्मानितस्तेन श्रीरामो भूरिकीर्तिना । सपत्नीकाभ्यां पुत्राभ्यां गजस्थाभ्यां समन्वितः २३ ॥ सीतया बधुभिः पौरैः सुहृद्भिर्भ्रातृभिर्नृपैः । पूर्ववदुत्सवाद्यैश्च स ययौ स्वीयमण्डपम् ॥ २४ ॥ वटपुर्यां ततो रामो मासमेकं निनाय सः । चकार सीतया क्रीडां नौकासंस्थौ महोदधौ ॥ २५ ॥ ततः स्नुषाभ्यां श्रीरामो ययौ निजपुरीं सुखम् । अयोध्यायां विजयोऽपि श्रुत्वा रामं समागतम् ॥ २६ ॥ यः पुर्या रक्षणार्थं हि रामेणाज्ञापितः पुरा । स पुरीं शोभयामास पताकाध्वजतोरणैः ॥ २७ ॥ वारणेन्द्रं पुरस्कृत्य तूर्यनृत्यपुरःसरम् । विजयो रामसचिवो रामं प्रत्युद्ययौ जवात् ॥ २८ ॥ अथो नदत्सु वाद्येषु रामो बालैः सुहृज्जनैः । स्नुषाभ्यां सीतयाबंधुपत्नीभिर्भ्रातृभिः पुरीम् ॥ २९ ॥ विवेश सेनया पौरैः पश्यन्नृत्यादिकं पथि । तदा वेश्या ननृतुस्तुष्टुवुर्बन्दिमागधाः ॥ ३० ॥ स्वस्वपत्नीयुतौ बालौ वरवारणयोः स्थितौ । तदा विरेजतुर्मार्गे स्त्रीभिः पुष्पैः सुरवर्षितौ ॥ ३१ ॥ एवं रामो गृहं गत्वा बालाभ्यां स्वीयसद्मनि । कारयित्वा रमार्चां स ददौ दानान्यनेकशः ॥ ३२ ॥ तदाऽलंकारवस्त्राद्यैः संपूज्य रघुनन्दनः । सुहृदः सकलान्पौरानिष्टान् जानपदान्नृपान् ॥ ३३ ॥ आचांडालादिकान्सर्वान् संतुष्टानकरोन्मुदा । ततः स भूरिकीर्तेस्तान् मंत्रिणः सैन्यसंयुतान् ॥ ३४ ॥ सम्पूज्य प्रेषयामास स्वदेशं रघुनन्दनः । ततः सर्वान् जानपदान् सुहृदश्च प्लवंगमान् ॥ ३५ ॥ विभीपणादिकांश्चाज्ञां गंतुं स्वस्वस्थलं ददौ । ततः मर्ये राघवं ते वस्त्राभरणवाहनैः ॥ ३६ ॥ स्वस्वकोशैश्च संपूज्य नत्वा रामं युयुर्मुदा । स्वं स्वं देश निजैः सैन्यैः श्रीरामेणातिमानिताः ॥ ३७ ॥ अथ रामःस्नुषाभ्यांच पुत्राभ्यां बन्धुभिःस्त्रिया । सुखं चकार राज्यं स धर्मेणाप्रतिमं चिरम् ॥ ३८ ॥ ततः श्रावणमासस्य दर्षमारभ्य षोडश । प्राप्तान्यब्दे यानि यानि समुत्साहदिनानि हि ॥ ३९ ॥ तेषु सर्वेषु तं रामं सावरोधं सबालकम् । स्वपुरीं भूरिकीर्तिः स निनाय परमादरात् ॥ ४० ॥ पूजयामास विधिवद्वस्त्रालंकारवाहनैः । कियद्दिनानि संस्थाप्य ददावाज्ञां पुनः पुनः ॥ ४१ ॥ संवत्सरसमुत्साहदिनानि षोडशाधुना । विष्णुदास मया तेऽग्रे कथ्यन्ते तानि वै शृणु ॥ ४२ ॥ श्रावणस्याथ मासस्य कुहूः श्रेष्ठा प्रकीर्तिता । भाद्रशुक्लचतुर्थी तु विजया दशमी तथा पुनः ॥ ४३ ॥ दीपावल्याश्च चत्वारि दिनान्यतिमहान्ति च । मारशीर्षे पंचमी च सिता षष्ठी तथा पुनः ॥ ४४ ॥ सक्रान्तिमकराख्यो तु तथा च रथसप्तमी । हुताशनी चैत्रशुक्ल प्रतिपच्चापि पुण्यदा ॥ ४५ ॥ अक्षय्याख्या तृतीया च तथा वै ज्येष्ठपौर्णिमा । पंचमी श्रावणे शुक्त्वा षोडशैव स्मृतानि हि ॥ ४६ ॥ संवत्सरसमुत्साहदिनान्यन्तिमहान्ति च । एतेषु भूरिकीर्तिः स रामं नीता प्रपूजयत् ॥ ४७ ॥ एवं कुशस्य च तथा लवस्याऽपि सविस्तरात् । विवाहौ वर्णितौ शिष्य यथा पूर्वं श्रुतौ मया ॥ ४८ ॥ यदा श्रीरामचन्द्रस्य वैकुण्ठारोहणं शुभम् । भविष्यति तदाऽयोध्यापुर्यां वै सरयूरजले ॥ ४९ ॥ कुशः स्त्रिया चंपिकया जलक्रीडां करिष्यति । तस्य दक्षिणहस्तस्य कंकणं रुक्मनिर्मितम् ॥ ५० ॥ सरयूजलमध्ये तु पतिष्यति महोज्ज्वलम् । तत्र तोये कुमुदस्य पन्नगस्य कुमुद्वती ॥ ५१ ॥ स्वसा दृष्ट्वा कंकणं तद्गृहीत्वा सद्म यास्यति । कुशोऽपि कंकणार्थं हि बाणं सन्धारयिष्यति ॥ ५२ ॥ सरयूशोषणार्थं हि संनद्धश्च भविष्यति । ततः सा कुमुदं गत्वा सरयूः प्रार्थयिष्यति ॥ ५३ ॥ सोऽपि दृष्ट्वा कुशं क्रुद्धं स्वसामादाय सादरम् । कुशमागत्य तं नत्वा स्वसां तस्मै प्रदास्यति ॥ ५४ ॥ रत्नानि कंकणं दत्त्वा तेन सख्यं करिष्यति । एवं कुमुद्वतीभार्याऽग्रे तस्यान्या भविष्यति ॥ ५१५ ॥ तस्यांकुशात्सुतनयोऽतिथिर्नाम्ना भविष्यति । चंपिकाया दुहितरः संभविष्यन्ति नो सुताः ॥ ५६ ॥ अतिथेः सूर्यवंशोऽग्रे चिरं विस्तारमेष्यति । एवं कुशस्य द्वे पत्न्यौ वर्णिते शिष्य वै मया ॥ ५७ ॥ अथ स्वीयगृहे पत्न्याऽकरोत्क्रीडां कुशः सुखम् । तथा स्वीयगृहे पत्न्याऽकरोत्क्रीडां लवोऽपि च ॥ ५८ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये विवाहकाण्डे कुशलवयोर्विवाहवर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |