॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विवाहकाण्डम्

॥ द्वितीयः सर्गः ॥
[ चम्पिकास्वयंवरम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथापरदिने रामं भूरिकीर्तिंः समाययौ ।
नत्वा प्राह रघुश्रेष्ठ सभामागन्तुमहसि ॥ १ ॥
तथेति राघवश्चोक्त्वा बालकैः रुक्मभूषितैः ।
रुक्मतन्तूभवद्‌श्रेष्ठ कंचुकोष्णीपमण्डितः ॥ २ ॥
ऊरू पिधाय त्रिमुखैः कटीबंधोत्तरीयकैः ।
भूश्गितैरष्टभिः शीघ्रं शिबिकास्थैः समाययौ ॥ ३ ॥
सभायां ये नृपाः पूर्वमासनेषु च संस्थिताः ।
श्रुता रामं समायांत सभ्रमात्तत्पुरो ययौ ॥ ४ ॥
चक्रुः सर्वे राघवायपेप्रणामान्पार्थिवोत्तमाः ।
तेषाः नामानि रामाय दीर्घशब्दैः पृथक् पृथक् ॥ ५ ॥
चित्रोष्णीषा रामदूताः प्रोचुर्वै वेत्रपाणयः।
वस्त्रालंकारभूषाभिर्भूषिता मुदिताननाः ॥ ६ ॥
राजराज नृपश्चायं कर्णाटविषये स्थितः ।
विजयस्ते प्रणामांश्च करोति त्वं विलोकय ॥ ७ ॥
राघवेन्द्र नृपश्चायं श्रीमान् द्रविडदेशजः ।
कंबुकण्ठे प्रणामांस्ते करोति त्वं विलोकय ॥ ८ ॥
दीनानाथ नृपश्चायं विदर्भविषये स्थितः ।
अंगनाथः प्रणामांस्ते करोति त्वं विलोकयः ॥ ९ ॥
महाराज नृपश्चायं मागधे विषये स्थितः ।
परंतपः प्रणामांस्ते करोति त्वं विलोकय ॥ १० ॥
सीताकांत नृपश्चायमवंतिस्थः प्रतापवान् ।
उग्रबाहुः प्रणामांस्ते करोति त्वं विलोकय ॥ ११ ॥
रघुवीर नृपश्चायं स्थितो हेहयपत्तने ।
प्रतीपस्ते प्रणामांश्च करोति त्वं विलोकय ॥ १२ ॥
हे राम नृपतिश्चायं शूरसेने स्थितो महान् ।
सुषेणस्ते प्रणामांश्च करोति त्वं विलोकय ॥ १३ ॥
कोसलेन्द्र नृपश्चायं हरिद्वारस्थितो महान् ।
नीपान्वये यज्ञकीर्तिः करोति नमनं तव ॥ १४ ॥
अयोध्येश नृपश्चायं कलिंगविषये स्थितः ।
हेमांगदस्तटेऽब्धेश्च करोति नमनं तव ॥ १५ ॥
रावणारे नृपश्चायं नागपत्तनसंस्थितः ।
पांड्योऽयं मतिमान् शूरः करोति नमनं तव ॥ १६ ॥
एवं तेषा प्रणामांश्च मानयन् स्वेक्षणादिभिः ।
विवेश बंधुभिर्बालैः सभायां मन्त्रिभिः प्रभुः ॥ १७ ॥
तत्र सिंहासने दिव्ये पश्चिमायां ततो हरिः ।
उपाविशत्स पूर्वास्यश्छत्र चामरमण्डितः ॥ १८ ॥
रामस्य सव्ये सौमित्रिकैकेयतनयाः स्थिताः ।
तस्थुस्तथा रामवामे कुशाद्या मंत्रिबालकाः ॥ १९ ॥
शत्रुघ्नसव्ये संतस्थुः सुमंत्राद्याः सुमन्त्रिणः ।
सभायामुत्तरे याम्ये पंक्तौ सर्वे नृपादिकाः ॥ २० ॥
नेमिरेखोपमास्तस्थुः स्वसुहृत्पुत्रमन्त्रिमभिः ।
पश्चिमाभिमुखाः सर्वा ननृतुर्वारयोषितः ॥ २१ ॥
अट्टालसस्था विप्राद्या ददृशुः कौतुकं महत् ।
ततो नदत्सु वाद्येषु धूपेषु प्रज्वलत्सु च ॥ २२ ॥
नर्तत्सु वारनारीषु गायत्सु मागधादिषु ।
स्तुवत्सु वन्दिवृन्देषु सभायां नृपपौत्रिके ॥ २३ ॥
शिबिकास्थे दिव्यवस्त्रदिव्यालंकारमण्डिते ।
नवरत्नमहामालाघृतरम्यकरोत्पले ॥ २४ ॥
ते समाजग्मतू रम्ये सभाग्रस्थे विरेजतुः ।
तयोर्नेत्रकटाक्षैश्च भिन्नमर्मस्थला नृपाः ॥ २५ ॥
बभूबुर्विकलाः सर्वे कामबाणविशेषतः ।
न तदा लेभिरे शर्म शुष्ककण्ठौष्ठतालुकाः ॥ २६ ॥
सभा तां चंपिकानाम्नी वह्निकोणाद्विवेश ह ।
ईशकोणाच्च सुमतिः सभां तां संविवेश ह ॥ २७ ॥
अथोपमाता वृद्धा सा धृतहस्ताग्रयष्टिका ।
सभायां चंपिकानाम्न्यै दक्षिणस्थान्पृथक् पृथक् ॥ २८ ॥
क्रमेण वर्णयामास तदा नृपतिसत्तमान् ।
तथाऽन्या च सभाग्राच्च धृतहस्ताग्रयष्टिका ॥ २९ ॥
सुनन्दाख्याऽतिजरठा सुमत्यै नृषतीन्क्रमात् ।
वर्णयामासोत्तरस्थानुपमाता पृथक् पृथक् ॥ ३० ॥
अथ सा चम्पिकां प्राह नीत्वा तां नृपतेः पुरः ।
शिबिकास्थां चापमाता नन्दा चामरवीजिता ॥ ३१ ॥
राजकन्ये चंपिकेऽत्र शृणुष्व वचनं मम ।
एनं नृप वर्णयामि पश्य त्वं मदनोपमम् ॥ ३२ ॥
पांढ्योऽयं मतिमान्नाम्ना नागपत्तनसस्थितः ।
शू रथी नृपश्रेष्ठः प्रजापालनतत्परः ॥ ३३ ॥
यदि ते रोचते चित्ते वरयैनमनुत्तमम् ।
अस्य त्वं महिषी भूत्वा नागपत्तनसंस्थिता ॥ ३४ ॥
क्रीडस्व मुदिनाऽनेन वरप्रासादराजिषु ।
नन्दोक्तं चंपिका श्रुत्वा द्वर्थं वाक्यमनुत्तमम् ॥ ३५ ॥
न बबन्ध मनस्तस्मिन्नृपतौ मतिमत्तरा ।
चोदयामास नन्दां तामग्रे गन्तुं नृपान्तरम् ॥ ३६ ॥
तदाऽन्यं नृपतिं नन्दा नीत्वा तां शिबिकास्थिता ।
चंपिकां ग्राह वेगेन पश्यैनं बालिके नृपम् ॥ ३७ ॥
कलिङ्गविषयस्थोऽयं नाम्ना हेमाङ्‌गदो महान् ।
कोटिशो वारनेन्द्राणां यस्य गण्डस्थलादिषु ॥ ३८ ॥
मुक्ताजालातिगुच्छाश्च राजन्ते कमलानने ।
अस्य तं महिषी भूत्वा गवाक्षैः सागरस्य च ॥ ३९ ॥
पश्यन्ती कौतुकं बाले करोषि क्रीडनादिकम् ।
अस्य स्त्रीवृन्दमध्ये तं भव मुख्याद्य कन्यके ॥ ४० ॥
इत्युक्ताऽपि तथा तन्वी नन्दया चंपिका नृपे ।
तस्मिन् मनो न बबन्धान्यं गन्तुं तामचोदयत् ॥ ४१ ॥
सपत्‍नीभयमालक्ष्य सपत्नीकस्त्यजिष्यति ।
अमहानिति वाक्ये नन्दया सूचिताऽपि सा ॥ ४२ ॥
ततोऽन्यं नृपतिं गत्वा नन्दा प्रोवाच चंपिकाम् ।
पश्येनं नृपतिं मुग्धे हरिद्वारनिवासिनम् ॥ ४३ ॥
नीपान्वयसमुद्‌भूतं ह्यब्धाविव निशाकरम् ।
यज्ञानां नृपतेरस्य कीर्त्या जगति मण्डले ॥ ४४ ॥
यज्ञकीर्तिरिति ख्यातः पृथ्वीशः प्रमदाप्रियः ।
वेरयैनं नृपं पुत्रि रुक्मभूषणभूषितम् ॥ ४५ ॥
अस्याद्य महिषी भूत्वा गङ्गावीचिपरम्पराः ।
नौकास्या पश्यसि त्वं हि वरयैनं नृपोत्तमम् ॥ ४६ ॥
अस्य पत्नी वरिष्ठा त्वं भव माऽग्रे व्रजाबले ।
इत्युक्ताऽपि तया तस्मिन्न बबन्ध निजं मनः ॥ ४७ ॥
त्व वरिष्ठा मा भवेति नन्दयाऽग्रे व्रजेरिता ।
चोदयामास सा नन्दामग्रे गन्तुं नृपांतरम् ॥ ४८ ॥
नन्दाऽप्यन्यं नृपं नीत्वा चंपिकां प्राह वेगतः ।
पश्यैनं नृपति मुग्धे शूरसेमाह्वये वरे ॥ ४९ ॥
देशे करोति वै राज्यं सुषेणोऽयमनुत्तमः ।
तुरगा वायुवेगाश्च यस्य पत्न्यो मृगीदृशः ॥ ५० ॥
यस्यांगणे वारनारीनृत्यघोषस्त्वहर्निशम् ।
वरयैनं चंपिकेऽद्य तवानननवदाननम् ॥ ५१ ॥
अस्य त्वं महिषी भूत्वा जन्मसाफल्यतां कुरु ।
वारस्त्रीलंपटं श्रुत्वा तथा वाक्यमनुत्तमम् ॥ ५२ ॥
न बबन्ध मनस्तस्मिन्नृपतो तां प्रचोदयत् ।
अय सा चोदिता नन्दा तथाऽन्यं नृपतिं क्षणात् ॥ ५३ ॥
निनाय शिबिकास्थां ता चंपिकामाह सादरम् ।
पश्यैनं नृपतिं बाले स्थितं हैहयपत्तने ॥ ५४ ॥
सहस्र!र्जुनवंशस्य भूषणं कमलोपमम् ।
प्रतीप इति नाम्नाऽयं ख्यातः शूरो महारथी ॥ ५५ ॥
वरयैनं नृपं माऽन्यं गच्छ हेमस्वरूपिणि ।
अस्य त्वं महिषी भूत्वा रेवायां पतिना सह ॥ ५५ ॥
करिष्यसि जलक्रीडां चम्पिके शृणु मद्वचः ।
इत्युक्त्वाऽपि तया तन्वी न बबन्ध मनो नृपे ॥ ५७ ॥
वरयैनं नृपं मेति नन्दास्यादमहारथी ।
नृपोऽयं चेति वाक्ये द्वे श्रुत्वा द्व्यर्थ विदुत्तमा ॥ ५८ ॥
एवं नानानृपाणां सा वर्णनानि पृथक् पुवक ।
स्तुतिरूपनिषेधानि शुश्रूषति नृपात्मजा ॥ ५९ ॥
जगाम शिबिकासंस्था सनन्दा भरतानुजम् ।
सुमन्त्रादीनतिक्रम्य श्रुत्वा श्रीराममन्त्रिणा ॥ ६० ॥
ततः प्रोवाच सा नन्दा पश्यैनं भरतानुजम् ।
कोसलेन्द्रस्य रामस्य बन्धुमेकोदरोपमम् ॥ ६१ ॥
अयोध्यावासिनं रामराजवाक्यानुवर्तिनम् ।
वरयैनं चम्पिकेऽद्य श्रुतर्कीर्त्या स्वसा भव ॥ ६२ ॥
इत्युक्तापि तया तन्वी शत्रुध्ने निजमानसम् ।
न बबन्ध भ्रुवा संज्ञामग्रे गन्तुं चकार ताम् ॥ ६३ ॥
ततः सा भरतं नीत्वा नन्दा तामाह मंजुलम् ।
शत्रुघ्नस्याग्रगं चैनं कैकेय्या जठरोद्‌भवम् ॥ ६४ ॥
रामसेवारतं शांतं युवानं दयिताप्रियम् ।
वरयैनं बालिकेऽद्य मांडव्या सरयूजले ॥ ६५ ॥
करिष्यसि जलक्रीडां नौकास्था भरतेन हि ।
ततस्तन्संज्ञया नन्दा लक्ष्मणं चंपिकां जवात् ॥ ६६ ॥
नीत्वा सौमित्रिकीर्ति तां वर्णयामास सादरम् ।
पश्यैनं लक्ष्मणं बाले सुमित्राजठरोद्‌भवम् ॥ ६७ ॥
अयोध्यावासिनं रामसेवासक्तं मनोहरम् ।
वरयैनं चंपिकेऽद्य मेघनादप्रमर्दनम् ।
शेषांशसंभवं चोर्मिलाया वीरस्वसा भव ॥ ६८ ॥
सर्वान् श्रुत्वा रामसेवासक्तान् पत्नीयुतानपि ।
छत्रचामरहीनांश्च रोचयामास तान्न सा ॥ ६९ ॥
ततस्तत्संज्ञया नन्दा श्रीरामाग्रे स्वयंवरम् ।
नीत्वा तामाह मधुरं स्तोतुं तं रघुनन्दनम् ॥ ७० ॥
महत्ते चंपिके दैवं येन पश्यसि राघवम् ।
धन्योऽहमपि या रामं दृष्ट्‍वा स्तोतुं पुरः स्थिता ॥ ७१ ॥
क्वाहं मंदमतिर्नारी क्व रामो गुणसागरः ।
नाहं तत्स्तवने शक्ता वाल्मीकिर्यत्र कुण्ठितः ॥ ७२ ॥
शतकोटिमितैः श्लोश्चरित्रं राघवस्य च ।
मुनिना वर्णितं तच्च शतकोट्यंशवर्णितम् ॥ ७३ ॥
तस्याहं वर्णनं किञ्चित्करोमि यच्छृणुष्व तत् ।
सूर्यवंशभूषणं श्रीदशरथनृपात्मजम् ॥ ७४ ॥
कौसल्यातनयं रामं साक्षान्नारायणं विभुम् ।
ताटिकान्तकरं वीरं गाधिजाध्वरपालकम् ॥ ७५ ॥
अहल्योद्धारिणं श्रेष्ठं शिवचापैकखण्डनम् ।
जानकीवल्लभं रम्यं जामदग्न्यदवानलम् ।
नृपवृन्दैकजेतारं भरतप्राणदायिनम् ॥ ७६ ॥
ताताज्ञापालकं भ्रात्रा सीतयाऽरण्यवासिनम् ।
विराधमर्दनं श्यामं खरदूषणमर्दनम् ॥ ७७ ॥
त्रिशिरामृगमारीचकबन्धवालिमर्दनम् ।
समुद्रबन्धनं लंकाराक्षसान्तकरं प्रभुम् ॥ ७८ ॥
रावणान्तप्रकर्तारं मातया राज्यकारिणम् ।
तीर्थयज्ञप्रकर्तारं सीताक्रीडनतत्परम् ॥ ७९ ॥
जानकीत्यागकर्तारं सीताग्रहणतत्परम् ।
कुशलवात्मजाभ्यां च वाज्यर्थं युद्धकारिणम् ॥ ८० ॥
एकपत्नीव्रतं शांतं सत्यभाषणतत्परम् ।
एकबाणमसंख्यातनामानं मारुतिध्वजम् ॥ ८१ ॥
कोविदारध्वजं बाणध्वजं वज्रध्वजं शुभम् ।
तार्क्ष्यध्वजं पुष्पकस्थं तार्क्ष्यवायुजवाहनम् ॥ ८२ ॥
नानाराजावतंसस्थमुक्तादीप्त्यंघ्रिशेभिनम् ।
वरसिंहासनासीनं छत्रचामरमण्डितम ॥ ८३ ॥
वरयेनं चंपिकेऽद्य सीतया भज राघवम् ।
नववर्षेश्वरश्चायं सप्तद्वीपाधिपोऽपि च ॥ ८४ ॥
बाणः पत्‍नीवचो यस्य नान्यं मा खेदमाचर ।
नवरत्‍नमालिकामस्य ग्रीवायां कुरु मा व्रज ॥ ८५ ॥
इत्युक्ता नन्दया बाला स्वल्पपुण्या विधेर्वशात् ।
न बबंध मनो रामे सीता संस्मृत्य चंपिका ॥ ८६ ॥
एकपत्नीव्रतं रामं सीतया ह्यभजेति च ।
खेदं मा चर तत्कण्ठे माला मा कुरु चोदिता ॥ ८७ ॥
ततस्तत्संज्ञया नंदा ता निनाय कुशं प्रति ।
प्रोवाच मधुरं वाक्यं कुशवर्णनहर्षिता ॥ ८८ ॥
एनं पश्याल्पवयसं श्रीरामतनयं कुशम् ।
जानकीजठरोद्‌भूतं ज्येष्ठे भार्यार्थिनं शुभम् ॥ ८९ ॥
लवाग्रजं धनुर्वेदनिपुणं विनयान्वितम् ।
पित्रा संग्रामकर्तारं वाल्नीकिमुनिशिक्षितम् ॥ ९० ॥
एनं वृणीष्व बाले त्वं सुरमानवसंस्तुतम् ।
नवररत्‍नमयी मालामस्य कण्ठे सुखं कुरु ॥ ९१ ॥
इति नन्दावचः श्रुत्वा चंपिका सा स्मितानना ।
मुमोच मालिकां कण्ठे स्वकराभ्यां कुशस्य हि ॥ ९२ ॥
तदा निनेदुर्वाद्यानि तुष्टुवुर्बन्दिमागधाः ।
लज्जयाऽधोमुखो रेजे सभायां कुशबालकः ॥ ९३ ॥
तदा तुष्टो भूरिकीर्तिः कुशांके चम्पिकां शुभाम् ।
स्थापयामास वेगेन पश्यत्सु नृपतीषु च ॥ ९४ ॥
ददर्श जालरंध्रैस्त प्रासादस्या विदेहजा ।
मुमोद नितरां स्त्रीभिर्मुमोद राघवोऽपि सः ॥ ९५ ॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमद् आनंदरामायणे
वाल्मीकीये विवाहकाण्डे चम्पिकास्वयंवरो नाम द्वितीयः सर्गः ॥ २ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP