॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विवाहकाण्डम्
॥ प्रथमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ रामः सभामध्ये मंत्रिभिः परिवेष्टितः । तस्थौ सिंहासने रम्ये वरछत्रोपशोभितः ॥ १ ॥ एतस्मिन्नन्तरे तत्र कश्चिद्दूतः समाययौ । नत्वा सभायां श्रीरामं स्वामिवृत्तं न्यवेदयत् ॥ २ ॥ पूर्वदेशाधिपतिना राज्ञा श्रीभूरिकीर्तिना । प्रेषितोऽस्मि महाराज द्रष्टुं त्वत्पादपंकजे ॥ ३ ॥ पत्रं पठित्वा श्रीराम कार्या मत्स्वामिने कृपा । इत्युक्त्वा रामदूतस्य करे पत्रं समर्पयत् ॥ ४ ॥ रामदूतोऽपि सौमित्रेः पुरस्तात्पत्रमादरात् । स्थापयामास वेगेन गत्वा तस्थौ निजस्थलीम् ॥ ५ ॥ ततः स लक्ष्मणः पत्रं वरबन्धनवेष्टितम् । समुद्धाट्य राघवाग्रे पपाठ मंजुलस्वनः ॥ ६ ॥ हेमकृत्रिमपुष्पाद्यैरङ्कितं कुकुमान्वितम् । दर्शनादेव मांगल्यसूचकं तोषकारकम् ॥ ७ ॥ उवाच पत्रलिखितैरक्षरैर्लक्ष्मणः शनैः । स्थितः श्रीरामपुरतो वरसिंहासनांतिके ॥ ८ ॥ श्रीमान् श्रीराघवेन्द्रो जयतु दशशिरश्छेदनार्थं जगत्यां कौसल्यायां नृपेशो दशरथतनयश्चेति नाम्नाऽवतीर्णः । तस्याहं भूरिकीर्तिः पदजलरुहयोर्गन्धमाघ्रातुकामः कृत्वा नैज शिरस्तु भ्रमरवदनिशं प्रार्थनां प्रार्थयामि ॥ ९ ॥ मम पौत्र्यावुभे राम चंपिका सुमतीति च । तयोः स्वयंवरार्थं ह्यायाताश्च बहवो नृपाः ॥ १० ॥ बंधुपुत्रैबंधुभिस्त्वं स्वसुताभ्यां च मंत्रिभिः । सुहृञ्जनैस्तथा पौरैः सावरोधः स्वसेनया ॥ ११ ॥ आगच्छस्व मम पुरं मयि कृत्वा महत्कृपाम् । विफलां प्रार्थनां मे त्वं मा कुरुष्व त्विमां प्रभो ॥ १२ ॥ इति पत्रार्थमाकर्ण्य स्वस्थचित्तो रघूत्तमः । स्वयंवरं ततो गन्तुं गुरुणा निश्चयं व्यधात् ॥ १३ ॥ ततोऽब्रवीत्स सौमित्रिमद्य सेनां प्रचोदय । श्वोऽहंगच्छामि पुत्राभ्यां त्वया मंत्रिजनैः सह ॥ १४ ॥ भरतेनापि युष्माकं पुत्रैः शत्रुघ्नसंयुतः । स्वयंवरं सावरोधः पौरैर्जानपदैः सह ॥ १५ ॥ विजयो नगरीं राज्यं पालितुं स्थापितो मया । अद्य वै वस्त्रगेहानि बहिर्नेयानि लक्ष्मण ॥ १६ ॥ पंथान शोधयत्वद्य नानादूतास्त्वरान्विताः । गच्छन्तु सकला नार्यः पुष्पकेण विहायसा ।१७ ॥ तथेति लक्ष्मणश्चोक्त्वा चकार स यथोदितम् । राघवेण सभामध्ये प्रवद्धकरसंपुटः ॥ १८ ॥ ततो द्वितीयदिवसे प्रभाते रघुनन्दनः । स्नात्वा नित्यविधिं कृत्वा निनायाग्नीन् स पुष्पके । १९ ॥ स्थापयामास कुण्डेषु भुक्त्वा सह सुहृञ्जनैः । ततः सीतां समाहूय त्वरयामास राघवः ॥ २० ॥ ततः स्त्रियस्तदा सर्वाः सीताद्या रुक्मभूषिताः । यानमारुरुहुः शीघ्र दिव्यवस्त्रादिमण्डिताः ॥ २१ ॥ ततो रामो गजारूढो वरछत्रोपशोभितः । ययावग्रे चामराद्यैर्वीजितश्च मुद्दृर्मुद्गुः ॥ २२ ॥ रामाग्रे वारणारूढो ययौ शीघ्रं गुरुस्तदा । राघवस्य पृष्ठभागे करिस्थो लक्ष्मणो ययौ ॥ २३ ॥ ततः कुशाद्यास्ते ह्यष्टौ बाला जग्मुर्गजस्थिताः । ततो भरतशत्रुघ्नौ जग्मतुर्गजसंस्थितौ ॥ २४ ॥ ततः सर्वे मंत्रिणश्च पौरा जानपदादयः । नानावाहनसंस्थास्ते ययुः सर्वे त्वरान्विताः ॥ २५ ॥ चतुर्दन्ते शुक्लवर्णे वारणैरावतोद्भवे । संस्थितो राघवो रेजे मुक्ताजालविराजिते ॥ २६ ॥ एवं रामः शनैर्मार्गे वंदिमागधसंस्तुतः । शृण्वन् वाद्यनिनादांश्च ययौ पूर्वदिशं शनैः ॥ २७ ॥ ववर्षुः सकला नार्यः पुष्पकस्था रघूत्तमम् । पुष्पवृष्टिभिरानन्दपूरिता राघवेक्षणाः ॥ २८ ॥ निनेदुर्नववाद्यानि ननृतुर्वारयोषितः । जगुर्गीतानि रम्याणि पुरतस्ते नटादयः ॥ २९ ॥ एवं रामः शनैर्गत्वा साकेताद्योजनोपरि । सेनानिवेशसंस्थानं निर्मितं तद्दर्श सः ॥ ३० ॥ अवरुह्य गजेंद्रात्स विवेश वसनगृहम् । एवं रामः शनैमार्गे पश्यन् देशान्मनोरमान् ॥ ३१ ॥ तीर्त्वा भागीरथीं गङ्गा विलंध्य कटकान् प्रभुः । ययौ त्रिंशद्दिनैर्भूरिकीर्तेर्देशमनुत्तमम् । ३२ ॥ भूरिकीर्तेस्ततौ दूतो गत्वा निजप्रभुं जवात् । कथयामास रामस्य मुदाऽऽगमनमादरात् ॥ ३३ ॥ भूरिकीर्तिर्नृपः श्रुत्वाऽऽगमनं राघवस्य सः । तुतोष नितरां श्रीमान् रामं प्रत्युद्ययौ जवात् ॥ ३४ ॥ स्वपुरीं शोभयामास पताकाध्वजतोरणै । वारणेन्द्रं पुरस्कृत्य समायातेर्न पैः सह ॥ ३५ ॥ ये ये समागतास्तत्र पर्थिवाश्च स्वयंवरे । विषण्णास्या बभूवुस्ते व्यग्रचित्तास्तथैव च ॥ ३६ ॥ स्वचित्ते मंत्रयामासुः कथमत्र स्वयंवरे । त्यक्त्वा श्रीरामबालांश्च कन्येऽस्माकं वरिष्यतः ॥ ३७ ॥ इति चिंताविष्टचित्ताः प्रत्युञ्जग्मू रघूत्तमम् । रामं दूराद्ददृशुस्ते तत्सेनां च न्वरान्विताम् ॥ ३८ ॥ ततस्ते राघवं नत्वोपायनानि न्यवेदयन् । रामेणालिंगिताः सवे तत्पार्श्वे संस्थितास्तदा ॥ ३९ ॥ ततस्तं भूरिकीर्तिस्तु स्वपुत्राभ्यां समन्वितः । नत्वा रामादिकान् पूज्य वस्त्राभरणवाहनेः ॥ ४० ॥ निनाय नगरीं स्वीयां गोपुराट्टालमण्डिताम् । नर्तत्सु वारनारीषु वाद्येषु निनदत्सु च ॥ ४१ ॥ स्तुवत्सु वन्दिवृन्देषु विवेश नगरीं प्रभुः । तदा तत्पुरनार्यस्ताः श्रुतवा राम समागाम् ॥ ४२ ॥ विहाय निजकार्याणि दुद्रुवुर्गोपुरादिषु । शीघ्रमारुरुहुः सर्वा ददृशुस्ता रघूत्तमम् ॥ ४३ ॥ काचित्स्वबालकं त्यक्त्वा रुदन्तं निजमञ्चके । दुद्राव राघवं द्रष्टुं वरप्रासादमस्तके ॥ ४४ ॥ तांबलवीटिकां काचित्कृत्वा यावत्पतिं ददौ । नावच्छ्रुन्वा समायात रामं दुद्राव सा जवात् ॥ ४५ ॥ काचित्त्यक्त्वा भोजनं तु काचित्पाकस्य सत्क्रियाम् । काचित्सकबरीहस्ता मुक्तकेशा ययौ जवात् ॥ ४६ ॥ पतिनालिंगिता काचिन्निष्कास्य स्प्तपतेः करम् । ययौ वेगेन ललना वरप्रासादमस्तकम् ॥ ४७ ॥ क्षालयन्ती पतेः पादावेकं प्रक्षाल्य कामिनी । यावज्जग्राह साऽन्यं तु तावच्छ्रुत्वा समागतम् ॥ ४८ ॥ सीतया रामचंद्रं हि शीघ्र दुद्राव सा तदा । काचिद्भर्त्रा चुम्बमाना दूरं कृत्वा पतेर्मुखम् ॥ ४९ ॥ दुद्राव राघवं द्रष्टुं प्रासादे स्रस्तपल्लवा । काचित्विनिद्रिताभर्त्रा त्यक्त्वा निद्रां त्वरान्विता ॥ ५० ॥ विस्तीर्णकञ्जला मन्दनेत्रः निद्राभरान्विता । नेत्राभ्यां कुचितान् केशान् वारयंती जवाद्ययौ ॥ ५१ ॥ त्यक्त्वाऽभ्यंगं हि काचित्सा कुर्वन्तं करसन्निधिम् । ययौ वेगेन प्रासादं श्रुत्वा राघवमागतम् ॥ ५२ ॥ काचिद्भूजे कंचुकीं सा कृत्वैके चापरे भुजे । कर्तुकामा ययौ शीघ्रं तथैव प्रमदोत्तमा ॥ ५३ ॥ काचिदेके पदे कृत्वा नूपुरादीनि भामिनी । अपरे कर्तुकामा सा तथैवाट्टालमाययौ ॥ ५४ ॥ कथयती शुभां वार्तां स्वपत्युः पुरतः स्थिता । श्रुत्वा रामं समायान्तं दुद्राव गजगामिनी ॥ ५५ ॥ काचिन्निजपतिं पात्रे कुर्वन्ती परिवेषणम् । भूमौ त्यक्त्वाऽन्नपात्रं सा ययौ रामं निरीक्षितुम् ॥ ५६ ॥ काचित्स्नात्वा दिव्यवस्त्रा कुर्वती सा प्रदक्षिणाः । तुलसीं च महादेवं श्रुत्वा राम ययौ जवात् ॥ ५७ ॥ काचिद्रज्जुघटं कूपे कृत्वा तोयार्थमुद्यता । त्यक्त्बा रज्जुघटं कूपे दुद्रावेन्दुनिभानना ॥ ५८ ॥ काचित्स्वबालकं स्तन्यं रहः पाययती वधूः । कुचयोर्बालकं धृत्वा तथैव सा ययौ जवात् ॥ ५९ ॥ काचित्सा परिधायाथ वस्त्रं कच्छं करेण सा । कर्तुकामा ययौ वेगात्तथैवाट्टालमस्तकम् ॥ ६० ॥ एवं कर्माण्यनेकानि कुर्वत्यस्ताः पुरस्त्रियः । विहाय तानि सर्वाणि ययौ रामं निरीक्षितुम् ॥ ६१ ॥ दृष्ट्वा राम गजस्थं ता ववर्षुः पुष्पवृष्टिभिः ॥ ऊचूः परस्परं नार्यः शतशोऽट्टालसंस्थिताः ॥ ६२ ॥ धन्या सा रामजननी कौसल्या या रघूत्तमम् । सुपूतं राजराजानं परिपूर्णमनोरथा ॥ ६३ ॥ काश्चिदूचुश्च सा धन्या सीता जनकनंदिनी । यस्या बिंबाधररसमुररीकुरुतेऽत्र सः ॥ ६४ ॥ काश्चिदूचुस्तया तप्तं जानक्या दुष्कर तपः । पूर्वजन्मनि यत्पुण्याद्राजराजप्रियाऽभवत् ॥ ६५ ॥ काश्चिदूचुवयं मन्दभाग्यस्तु जगतीतले । सीतादास्यो न जाताः स्म रामसेवन तत्पराः ॥ ६६ ॥ इति नानाविधा वाचस्तासां शृण्वन् रघूत्तमः । ययौ स राजमार्गेण नृपकल्पितमन्दिरम् ॥ ६ ७ ॥ तत्रावरुह्य नागेन्द्राद्विवेश वरमंदिरम् । तस्थौ सुखेन जानक्या बंधुभिर्बालकैः प्रभुः ॥ ६८ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये विवाहकाण्डे स्वयंवरार्थं भूरिकीर्तेः पुरं प्रति श्रीरामगमनं नाम प्रथमः सर्गः ॥ १ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |