॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

जन्मकाण्डम्

॥ नवमः सर्गः ॥
[ बालानामुपनयनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथोर्मिला मांडवी च श्रुतकीर्तिः सहैव ताः ।
बभूवुरंतरात्किंचिदंतर्वत्‍न्यो महोदराः ॥ १ ।
तासां चकार सीता सा कौतुकानि च सादरम् ।
तासां पुंसवनादीनि विविधानि रघूत्तमः ॥ २ ॥
आहूय पत्‍न्या जनकं कारयामास बन्धुभिः ।
दोहदान् पूरयामासुस्तासां पौरसुहृत्स्त्रियः ॥ ३ ॥
तासां सर्वान् समुत्साहानेवं कृत्वा रघूत्तमः ।
वस्त्रालंकारभूपाभिस्तोषयामास ताः सुखम् ॥ ४ ॥
अथोर्मिला सा तनयं सुषुवे परमोदयम् ।
ततः सा माण्डवी पुत्रं सुषुवे परमे दिने ॥ ५ ॥
ततः सा श्रुतकीर्तिश्च सुषुवे यमलौ सुतौ ।
कालांतरेणोर्मिलाया द्वितीयस्तनयोऽभवत ॥ ६ ॥
तथाऽवरस्तु मांडव्याः पुत्रः कालांतरादभूत् ।
जातकर्मादिसंस्कारान् कृत्वा रामः पृथक् पृथक् ॥ ७ ॥
चकार गुरुणा विप्रैर्महोत्साहैर्यथाविधि ।
लक्ष्मण्यस्यांगदो ज्येष्ठश्चित्रकेतुः कनिष्ठकः ॥ ८ ॥
मांडव्याः पुष्करः ज्येष्ठः कनिष्ठः तक्ष नामकः ।
श्रुतकीर्त्याः सुबाहुश्च यूपकेतुः परः स्मृतः ॥ ९ ॥
एवं कृतानि नामानि गुरुणा विधिपूर्वकम् ।
एतेऽन्तरेण संजाताः काले काले क्रमेण च ॥ १० ॥
तेऽत्रैकत्र मया प्रोक्ताः संक्षेपेणांग रत्पुरः ।
सर्वेषां जन्मकालेषु सुराः सर्वे मुदान्विताः ॥ ११ ॥
वादयामासुवाद्यानि ववर्षुः पुष्पवृष्टिभिः ।
मातृभिः पितृभिर्युक्तान् बालकान् सूर्यसन्निभान् ॥ १२ ॥
राजद्वारि महानासीदुत्सवश्च नृपाज्ञया ।
निनेदूर्नववाद्यानि ननृतुश्चाप्सरोगणाः ॥ १३ ॥
वादयन्ति स्म तूर्याणि तुष्टुवुर्बन्दिमागधाः ।
नगरीं शोभयामासुः पताकाध्वजतोरणैः ॥ १४ ॥
सुहृदः पार्थिवाः सर्वे रामादीनां च पूजनम् ।
वस्त्रैराभरणाद्यैश्च चक्रिरे ते पृथक् पृथक् ॥ १५ ॥
ददुर्दानानि विप्रेभ्यो रामाद्या बंधवश्च ते ।
ब्राह्मणान् भोजयामासुः श्राद्धानि चक्रुरादरात् ॥ १६ ॥
एवमष्टौ कुमारास्ते रामादीनां मनोरमाः ।
ववृधुश्चंद्रवदना मातृभिर्लालिताः सुखम् ॥ १७ ॥
शृंखलाबद्धरुक्मादिनिर्मितेषु वरेषु च ।
प्रखेषु हि कुमारास्ते विरेजू रुक्मभूषिताः ॥ १८ ॥
भाले स्वर्णमयाश्वत्थपर्णान्यतिमहान्ति च ।
मुक्ताफलाग्रलंबीनि शोभयति स्म बालकान् ॥ १९ ॥
कंठे रत्‍नमणिव्रातमध्यद्वीपिनखांचिताः ।
कर्णयोः स्वर्णसंपन्नरत्‍नार्जुनसुतालकाः ॥ २० ॥
सिंजानमणिमंजीरकटिसूत्रांगदैर्युताः ।
स्मितवक्त्राल्पदशना इंद्रनीलमणिप्रभाः ॥ २१ ॥
अंगणे रिंगमाणाश्च संस्कारैः संस्कृताः शुभाः ।
ते पितृन् रञ्जयामासुर्मातश्चापि विशेषतः ॥ २२ ॥
नानाशिशुक्रीडनकैश्चेष्टितैर्मुखचुंबनैः ।
बालकृत्रिमयुद्धश्च गमनैर्मधुरेरितैः ॥ २३ ॥
ततस्ते बालकाः सर्वे वस्त्रालंकारभूषिताः ।
सभायां राघवं नत्वा तस्थुः सिंहासनोपरि ॥ २४ ॥
एकदा राघवः प्राह वसिष्ठं सदसि स्थितम् ।
अवलोकय बालानां त्वं चिह्नानि यथाक्रमम् ॥ २५ ॥
तच्छछ्रुत्वा रामवचनं वसिष्ठो भूसुरैः सह ।
आदौ कुशं समाहूय दृष्ट्‍वा रामं वचोऽब्रवीत् ॥ २६ ॥
वसिष्ठ उवाच
पंचसूक्ष्मः पंचदीर्घः सप्तरक्तः डुन्नतः ।
त्रिपृथुर्लघुगंभीरो द्वात्रिंशल्लक्षणस्त्वयम् ॥ २७ ॥
पंच दीर्घाणि शस्तानि यथा दीर्घायुषोऽत्र च ।
भुजौ नेत्रे हनुर्जानू नासा च तनयस्य ते ॥ २८ ॥
ग्रीवाजंघामेहनैश्च त्रिभिर्हस्वोऽयमीडितः ।
स्वरेण सत्त्वनाभिभ्यां त्रिगंभीरः शिशुः शुभः ॥ २९ ॥
त्वक्केशांगुलिदशनाः पर्वाण्यङ्‌गुलिजान्यपि ।
तथाऽस्य पंच सूक्ष्माणि सूचयति परां श्रियम् ॥ ३० ॥
पाण्यंघ्रितलनेत्रांते तालुजिह्वाधरोष्ठकम् ।
सप्तारुणं च सनखमस्मिन् राज्यसुखप्रदम् ॥ ३१ ॥
वक्षः कुक्ष्यालिकस्कन्धकरवक्त्रं षडुन्नतम् ।
तथाऽत्र दृश्यते बाले महदैश्वर्यभोगभाक् ॥ ३२ ॥
ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथा ह्यसौ ।
सर्वतेजो महैश्वर्यं तथा प्राप्स्यति नान्यथा ॥ ३३ ॥
अच्छिन्नां तर्जनीं प्राप्य तथा रेखाऽस्य दृश्यते ।
कनिष्ठामूलनिर्याता दीर्घायुष्यं यया भवेत् ॥ ३४ ॥
कमठपृष्ठकठिनावकर्मकरणौ करौ ।
राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ ॥ ३५ ॥
पादौ समांसलौ रक्तौ समौ सूक्ष्मौ सुशोभनौ ।
समगुल्फौ स्वदेहेन स्निग्धावैर्श्यसूचकौ ॥ ३६ ॥
स्वल्पाभिः कररेखाभिश्चारक्ताभिः सदा सखी ।
लिंगेन कृशहस्वेन राजराजो भविष्यति ॥ ३७ ॥
उत्कटासनगुल्फस्फिङ्नाभिरस्यापि वर्तुला ।
दक्षिणावर्तमरुण महदैश्वर्यसूचकम् ॥ ३८ ॥
धारैका मूत्रके यस्य दक्षिणावर्तिनी यदि ।
गंधश्च मीनमधुनोर्यदि वीर्यं तदा नृपः ॥ ३९ ॥
विस्तीर्णौ मांसलौ स्निग्धौ भुजावस्य सुखोचितौ ।
वामावर्तौ सप्रलंबौ भुजौ भूरक्षणोचितौ ॥ ४० ॥
श्रीवत्सवज्रचक्राब्जमत्स्यकोदंडदंडभृत् ।
तथाऽस्य करगा रेखा यथा स्यात्त्रिदिवस्पतिः ॥ ४१ ॥
द्वात्रिंशद्दशनश्चायं वरकंबुशिरोधरः ।
क्रौंचदुंदुभिहंसाभ्रस्वरः सर्वेश्वराधिकः ॥ ४२ ॥
मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् ।
पंचरेखाललाटस्तु तथा सिंहोदरः शुभः ॥ ४३ ॥
ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगन्धवान् ।
अच्छिद्रपाणिः सुनसो महालक्षणवानयम् ॥ ४४ ॥
एवं कुशं निरीक्ष्याथ सर्वान दृष्ट्‍वा क्रमेण सः ।
लवादीनां सुचिह्नानि पूर्ववत्प्राह राघवम् ॥ ४५ ॥
ततः प्रीतमना रामः पजूयामास तं गुरुम् ।
वस्त्रैराभरणैश्चैव ययौ हर्षात्ततो गृहम् ॥ ४६ ॥
एतस्मिन्नंतरे सीता भूमिदत्तवरासने ।
संस्थिता चामरैर्दिव्यैर्दासीभिः परिवीजिता ॥ ४७ ॥
सखीभिः सेविता रम्या धृताधोंकोपबर्हणा ।
मुकुरे स्वं निरीक्षंती मुखं चन्द्रनिभं वरम् ॥ ४८ ॥
रामस्यागमनं श्रुत्वा संचचालासनाज्जवात् ।
ततो ददर्श श्रीरामं बालकैः परिवेष्टितम् ॥ ४९ ॥
स्वकट्यां यूपकेतुं च दधानमवरं शिशुम् ।
तथैव दक्षिणे हस्ते दधानं चांगदं शुभम् ॥ ५० ॥
कुशं लवं पुरस्कृत्य सभायां तं शनैः शनैः ।
तत्पृष्ठे सा ददर्शाथ लक्ष्मणं बालकान्वितम् ॥ ५१ ॥
तक्षं कट्यां पुष्करं च दधानं दक्षिणे करे ।
तत्पृष्ठे भरतं सीता ददर्श मुदितानना ॥ ५२ ॥
चित्रकेतुं शिशुं कट्यां दधानं रुक्ममण्डितम् ।
तथैव दक्षिणे हस्ते सुबाहुं पंकजेक्षणम् ॥ ५३ ॥
तत्पृष्ठे सा ददर्शाथ शत्रुघ्नं जनकात्मजा ।
रामशस्त्राणि बिभ्रंतं समायांतं शनैः शनैः ॥ ५४ ॥
एवं सा राघवं दृष्ट्‍वा सीता प्रत्युञ्जगाम तम् ।
शिंजन्मंजीररशना पीतकौशेयधारिणी ॥ ५५ ॥
कराभ्यां पुरतो यांतं लवं धृत्वा चुचुंब सा ।
निधायतं लवं कट्यां धृत्वा हस्तेन तं कुशम् ॥ ५६ ॥
ययौ शनैः सा रामेण वदती स्वस्थलं पुनः ।
सखीभिर्वेष्टिता सीता रंजयामास राघवम् ॥ ५७ ॥
अथरामोऽपि सीतायाः स्थित्वा सिंहासनोपरि ।
अंकयोः पुरतश्चापि बालकान्संस्थितांश्च सः ॥ ५८ ॥
सीतायै दर्शयन प्रीत्या लालयामाम सादरम् ।
सीतायै राघवः प्राह सभायां गुरुणा पुरा ॥ ५९ ॥
यान्युक्तानि सुचिह्नानि शिशूनां तानि विस्तरात् ।
श्रुत्वा राममुखात्तानि सीता तोषं परं ययौ ॥ ६० ॥
राघवः प्राह वैदेहीमुर्मिलापरिवीजिताम् ।
सातेऽङ्‌गदं चित्रकेतुं लक्ष्मणांके निवेशय ॥ ६१ ॥
तद्‍रामवचनं श्रुत्वा सीता शीघ्रं शिशू ययौ ।
तावदुत्थाय सौमित्रिर्लञ्जया गंतुमुद्यतः ॥ ६२ ॥
तं गन्तुकामं रामोऽपि दृष्ट्‍वा तां मांडवीं तथा ।
श्रुतकीर्ति कंजनेत्रसंज्ञयाऽचोदयत्तदा ॥ ६३ ॥
ताभ्यां धृतोऽथ सौमित्रिः स्मितास्याभ्यामुपाविशत् ।
तावत्तदंकयोः सीता तत्पुत्रौ सन्न्यवेशयत् ॥ ६४ ॥
तद्वच्च भरतस्यांके निवेश्य तक्षपुष्करौ ।
शत्रुघ्नांके सुबाहु च यूपकेतुं न्यवेशयत् ॥ ६५ ॥
ततः सीतां पुनः प्राह स्मितास्यः स रघूद्वहः ।
बीजयंतूर्मिलाद्याश्च स्वं स्व स्वामिनमादरात् ॥ ६६ ॥
ततस्ता दुद्रुवुः सर्वाः सखीभिर्लञ्जिता धृताः ।
व्यजनैर्वीजयामासुः स्वं स्वं कांतं सुलञ्जिताः ॥ ६७ ॥
एवं नानाकौतुकानि भोजनासनकर्मसु ।
कारयामास वैदेह्या बंध्वादीनां रघूत्तमः ॥ ६८ ॥
अथ रामो वसिष्ठं स एकदा वाक्यमब्रवीत् ।
कुशस्याथ लवस्यापि व्रतबन्धो विधीयताम् ॥ ६९ ॥
तथेति गुरुणा प्रोक्तस्ततो रामः शुभे दिने ।
गणकान् स समाहूय मंत्रयामास सादरम् ॥ ७० ॥
कुशाय पंचमं वर्षं किंचिन्न्यूनं लवाय च ।
ज्ञात्वा ते गणकाः सर्वे गुरुशुक्रादिकं बलम् ॥ ७१ ॥
दृष्ट्‍वा पंचागपट्टेषु राघवं वाक्यमब्रुवन् ।
ब्राह्मणस्याष्टमे प्रोक्तो द्वादशे क्षत्रियस्य च ॥ ३२ ॥
वैश्यस्य षोडशे वर्षे व्रतबंधो मुनीश्वरैः ।
जन्मात् षष्ठे तथा गर्भात्सप्तमेऽब्दे नृपस्य च ॥ ७३ ॥
व्रतबंधो विधातव्यो यत्‍नतश्च बलार्थिनः ।
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पंचमे ॥ ७४ ॥
राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे ।
विद्वद्‍‍भिश्चोपनयनमेवं शास्त्रेषु निर्णयः ॥ ७५ ॥
अतो गर्भाच्च पष्ठेऽब्दे पुत्रयोस्त्वं रघूत्तम ।
सुखं कुरूषनयनं मुहूर्तं शृणु सादरम् ॥ ७६ ॥
अद्यारभ्य पंचदशदिने दत्तं कुशाय हि ।
पक्षांतरेण त श्रुत्वा मुहूर्तं रघुनंदनः ॥ ७७ ॥
गणकान् धनवस्त्राद्यैः पूज्य लक्ष्मणमब्रवीत् ।
आकारणीया राजानः सुहृदश्च मुनीश्वराः ॥ ७८ ॥
सांतःपुराः सपौराश्च स्वस्वजानपदैः सह ।
शृङ्‌गारणीयाऽयोध्येयं परिखाः सप्त सादरम् ॥ ७९ ॥
शोधनीयास्तथा सौमधसमूहेषु सुधाः शुभाः ।
दत्त्वा चित्राणि लेख्यानि प्रासादेषु समंततः ॥ ८० ॥
देवालयेपु सर्वेषु सुधा देया मनोरमा ।
लेखनीयानि चित्राणि स्थाप्यंतो बलयः पृथक् ॥ ८१ ॥
बंधनीयाः पताकाश्च रोपणीया ध्वजा अपि ।
समंततस्तोरणानि बंधनीयानि लक्ष्मण ॥ ८२ ॥
वेद्यः कार्या रुक्ममय्यो बंन्धनीयाश्च मंडपाः ।
शृंगारणीया हस्त्यश्वशिबिकाश्च सहस्रशः ॥ ८३ ॥
अन्यच्चापि यथायोग्यं यद्यञ्जानासि लक्ष्मणः ।
तत्तत्कुरुष्व यथोक्तं मया तव रघूत्तम ॥ ८४ ॥
तद्‌रामवचनं श्रुत्वा तथेत्युक्त्वा स लक्ष्मणः ।
तथा चकार तत्सर्वं यथा रामेण शिक्षितः ॥ ८५ ॥
ततो मुहूर्ते श्रीरामः स्नानमभ्यंगपूर्वकम् ।
कृत्य कुमारैवैदेह्या बंधुस्त्रीभिश्च बधुभिः ॥ ८६ ॥
नानालंकारवस्त्राणि परिधायाथ तैः सह ।
पुण्याहवाचनं चक्रे गुरुं पूज्य ऋषीश्वरान् ॥ ८७ ॥
नांदीश्राद्धादिकं कृत्वा प्रतिष्ठां दैवतस्य च ।
चकार मंगलैस्तूर्यनादैः सीतासमन्वितः ॥ ८८ ॥
ततो ययुः कोटिशस्ते पार्थिवाश्च मुनीश्वराः ।
सप्तद्वीपांतरस्थाश्च सावरोधाः सवाहनाः ॥ ८९ ॥
तैः साऽयोध्या तदा व्याप्ता विरेजे नितरां तदा ।
ततो मुहूर्तदिवसे वसिष्ठो ब्राह्मणैर्युतः ॥ ९० ॥
रामस्याथ कुशस्याथ मध्ये घृत्वा वरं वटम् ।
उवाच मंगलान्येव सुस्वरैर्मधुराक्षरैः ॥ ९१ ॥
ध्यात्वा श्रीगणनायक विधिसुतां शंभुं विधिं माधवं
लक्ष्मीं शैलसुता विधेस्तु दयितामिंद्रं सुरांस्तान् ग्रहान् ।
पुण्यान्स्थावरनिम्नगाश्च सुमुनीन् स्वीयां कुलस्यांबिकां
तातं मातरमादरेण वटवे भूयात्सदा मंगलम् ॥ ९२ ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव सीतापतेर्यत्स्मरणं विधेयम् ॥ ९३ ॥
इति नानामंगलवाद्यैस्तूर्यघोषैर्मनोहरैः ।
ॐकारघोषैः स गुरुर्मुमोचांतःपटं तदा ॥ ९४ ॥
ततस्तं राघवस्याङ्‌के निवेश्य हवनादिकम् ।
विधिं कृत्वाऽथकौपीनं दण्डं चाथ कमण्डलुम् ॥ ९५ ॥
बद्ध्वादौ रुक्मजां मौंजीं बबन्धैणाजिनं तदा ।
ततः कुशाय स गुरुर्गायत्रीमुपदिष्टवान् ॥ ९६ ॥
ब्रह्मचर्यव्रतादीनि स कुशायोपदिष्टवान् ।
कृत्वोक्तविधिना शौचं कुर्यादाचमनं तथा ॥ ९७ ॥
दन्तान् जिह्वां विशोध्याथ कृत्वामलविशोधनम् ।
स्नात्वाऽम्बुदैवतैर्मन्त्रैः प्राणानायम्य यत्‍नतः ॥ ९८ ॥
उपस्थानं रवेः कृत्वा संध्ययोरुभयोरपि ।
अग्निकार्यं ततः कृत्वा त्राह्मणानभिवादयेत् ॥ ९९ ॥
ब्रुवन्नमुकगोत्रोऽहमभिवादय इत्यपि ।
धारयन्मेखलां दण्डोपवीताजिनमेव च ॥ १०० ॥
अनिंद्येषु चरेद्‍भैक्ष्यं ब्राह्मणेष्वात्मवृत्तये ।
वाग्यतो गुर्वनुज्ञातो भुञ्जीतान्नमकुत्सयन् ॥ १०१ ॥
एकान्नं च समश्नीयाच्छ्राद्धेऽश्ननीयात्तथाऽऽपदि ।
द्विवारं नैव भुञ्जीत दिवा क्वापि द्विजोत्तम ॥ । १०२ ॥
सायंप्रातर्द्विजोऽश्नीयादग्निहोत्रविधानवित् ।
मधु मांसं प्राणिहिंसां भास्करालोकनं जले ॥ १०३ ॥
स्त्रियं पर्युषितोच्छिष्टे परिवादं विवर्जयेत् ।
यथेष्टचेष्टो न भवेद्‍गुरोर्नयनगोचरे ॥ १०४ ॥
ननाम परिगृह्णीयात्परोक्षेऽप्यविशेषणम् ।
गुरुनिंदा भवेद्यत्र पारवादस्तु यत्र च ॥ १०५ ॥
श्रुती पिधाय स्थातव्यं यातव्यं वा ततोऽन्यतः ।
न मात्रा न पितुः स्वस्रा न स्वस्रैकान्तशीलता ॥ १०६ ॥
बलवतींद्रियाण्यत्र मोहयंत्यतिकोविदान् ।
एवमादीन्यनेकानि ब्रह्मचारिव्रतानि हि ॥ १०७ ॥
तस्मै गुरुश्चोपदिश्य ददौ दानान्यनेकशः ।
भोजयामास तं मात्रा सह नानोत्सवैस्तदा ॥ १०८ ॥
कारयित्वाऽथ पालाशपूजनं विधिपर्वूकम् ।
तेनापि कुशवालेन देवकस्य विसर्जनम् ॥ १०९ ॥
चकार राघवेणैव सीतया स गुरुस्तदा ।
ततो रामो नृपतिभिर्जनकेनापि पूजितः ॥ ११० ॥
चकार धनवस्त्राद्यैस्तुष्टान् विप्रान्नृपादिकान् ।
आचांडालांस्तदा रामस्तोषयामास सादरम् ॥ १११ ॥
एवं नानासमुमाहैर्मासमेकं निनाय सः ।
रामो विसर्जयामास ततस्तान्पार्थिवादिकान् ॥ ११२ ॥
एवं कालांतराद्‍रामो व्रतबंधं लवस्य च ।
चकार पर्ववद्धर्षात्समाहूय नृपादिकान् ॥ ११३ ॥
ततस्तौ बालकौ रम्यौ वेदाध्ययनमुत्तमम् ।
चक्रतुर्गुरुसान्निध्ये विधिवद् बुद्धिसत्तमौ ॥ ११४ ॥
एवं तेषां तु बालानां सर्वेषां रघुनंदनः ।
व्रतबंधविधानानि यथाकाले महोत्सवैः ॥ ११५ ॥
चकार गुरुणा विप्रैः समाहूय नृपादिकान् ।
विशेषैर्निजपुत्राभ्यां चकार स महोत्सवैः ॥ ११६ ॥
अकरोदधिकं किंचिन्न न्यूनमकरोद्विभुः ।
ततस्ते बालकाः सर्वे ब्रह्मचर्यव्रते स्थिताः ॥ ११७ ॥
चक्रुस्ते गुरुसान्निध्ये वेदाध्ययनमुत्तमम् ।
अथ रामोऽपि वैदेह्या बालकैः परिवारितः ॥ ११८ ॥
विरेजे स्कन्दगणपादिभिर्देव्या यथा शिवः ।
अथ ते बालकाः सर्वे कृत्वाऽध्ययनमुत्तमम् ॥ ११९ ॥
वेदादीनां गुरुमुखाल्लब्ध्वा ज्ञानं गुरोस्ततः ।
जग्मुस्तीर्थानि वै कर्तुं सेनया गुरुमंत्रिभिः ॥ १२० ॥
पृथिव्यां भारते खंडे यानि तीर्थानि तानि तै ।
कृत्वा समाययुः पंच मासैः स्वां नगरीं शनैः ॥ १२१ ॥
बालान्समागतान् श्रुत्वा शोभयित्वा निजां पुरीम् ।
प्रत्युज्जगाम सौमित्रिः पुरस्कृत्याथ वारणम् ॥ १२२ ॥
ते दृष्ट्‍वा लक्ष्मणं नेमुस्तेनालिंगिता अपि ।
नानोत्सवैर्ययुर्बाला अयोध्याया गृहं प्रति ॥ १२३ ॥
मार्गे मार्गे पुरस्त्रीभिः सौधस्थाभिस्तु वर्षिताः ।
वृष्टिभिः कुसुमादीनां दीपेर्नीराजिता अपि ॥ १२४ ॥
ततस्ते बालकाः सर्वे सभायां रघुनन्दनम् ।
नेमुस्तेनालिंगिताश्च ययुः सीतागृहं ततः ॥ १२५ ॥
एतस्मिन्नन्तरे सीतोर्मिला सा मांडवी यथा ।
श्रुतकार्तिश्च वेगेन चक्रुर्नीराजनं पृथक् ॥ १२६ ॥
दध्योदनभवैर्दीपैः पक्वान्नैस्तैलपाचितैः ।
सर्षपैर्लवणैर्माषैस्तोयकुंभैश्च सादरम् ॥ १२७ ॥
ततस्ते बालकाः सर्वे नेमुः सीतां पृथक् पृथक् ।
ततो नेमुः स्वमातृश्च पूर्वं नत्वा पितामहीः ॥ १२८ ॥
ततस्ते बालकाः सर्वे ददुर्दानान्यनेकशः ।
ब्राह्मणान् भोजयामासुः कोटिशस्ते पृथक् पृथक् ॥ १२९ ॥
एवं नानोत्सवास्तत्र बभूवू रामसद्मनि ।
अथ ते बालकाः सर्वे स्यंदनादिषु संस्थिताः ॥ १३० ॥
दिव्यवस्त्राणि चित्राणि परिधाय समंततः ।
अयोध्याराजमार्गेषु हट्टेषु च चतुष्पथे ॥ १३१ ॥
आरामोपवनारण्यवाटिकासु नदीतटे ।
गमनागमने चक्रुः सेनया मंत्रिबालकैः ॥ १३२ ॥
एवं साकेतनगरे बालकैः सीतया सुखम् ।
रेमे स बधुभिर्युक्तश्चिरं राजा रघद्व्हः ॥ १३३ ॥
एवं शिष्य मया प्रोक्तं जन्मकांडमिदं तव ।
कुशादीनां चजन्मानि वर्णितान्यत्र विस्तरात् ॥ १३४ ॥
रम्यं पवित्रमानंददायकं च मनोहरम् ।
पुत्रपौत्रप्रदं जन्मकांडमेनत्सुखावहम् ॥ १३५ ॥
जन्मकांडमिदं पुण्यं ये शृण्वंति नरोत्तमाः ।
तेषां पुत्रैश्च पौत्रैश्च वियोगो न भविष्यति ॥ १३६ ॥
जन्मकांडमिदं ये भक्त्या शृण्वंति मानवाः ।
तेषां स्त्रीणां वियोगो हि न कदाप्यत्र जायते ॥ १३७ ॥
जन्मकांडमिदं पुण्यं याः भुण्वत्यत्र वै स्त्रियः ।
स्वभर्तृभिर्वियोगं ता न गच्छंति यथा रमा ॥ १३८ ॥
ग्रामं देशान्तरं तीर्थ ये गता चिरं नराः ।
तेषामागमनार्थं हि जन्मकांड पठेदिदम् ॥ १३९ ॥
येषां भावीनि कार्याणि लब्धुं त्वरयते मनः ।
तैर्नरैः पठनीयं वै जन्मकाडं दिने दिने ॥ १४० ॥
पूर्वे दिने चैकवारं द्विवारं चापरे दिने ।
एवं न्यदिन वृद्धिस्तथैकेन क्षयोऽपि हि ॥ १४१ ॥
कार्यो नरः स्वस्थचित्तस्नेपां कार्यं भविष्यति ।
वर्षमेकं पठेदेवमपुत्रोऽपि लभेत्सुतम् ॥ १४२ ॥
पुत्रार्थी प्राप्नुयात्पुत्रं धनार्थी धनमाप्नुयात् ।
इष्टान् कामांश्च कामार्थी जन्मकाण्डश्रवाल्लभेत् ॥ १४३ ॥
आनन्दरामायणमध्यसंस्थं
श्रीजन्मकांडं तनयप्रदं च ।
पारायणं संश्रवणं तथा वा
करोति यो ना स लभेत्सुपुत्रम् ॥ १४४ ॥
इति श्रीमच्छतकोटिरामचरितांतर्गते श्रीमद्
आनन्दरामायणे वाल्मीकीये जन्मकाण्डे कुशलवादीनां
जन्मकथनव्रतबंधविस्तारो नाम नवमः सर्गः ॥ ९ ॥

जन्मःकाडे सर्गा आनन्दरामायणे नवैव ज्ञातव्याः ।
चतुत्तराष्टशतशोका विष्णुदासरामदासाभ्यामुपदिष्टाः ॥ १ ॥
उपवनदर्शनम् ॥ १ ॥ उपवनक्रीडा ॥ २ ॥ सीतात्यागः ॥ ३ ॥
कुशलवोत्पत्तिः ॥ ४ ॥ रामरक्षा ॥ ५ ॥ कमलहरणम् ॥ ६ ॥
पुत्रभ्यां संग्रामः ॥ ७ ॥ सीताग्रहणम् ॥ ८ ॥ बालानामुपनयनम् ॥ ९ ॥

इस जन्मकाण्डमे कुल नौ सर्ग तथा आठ सौ चार श्लोको
द्वारा श्रीरामदासने विष्णुदासको उपदेश दिया है ।
उन नवो सर्गोमे ये कथाये वर्णित -,
१) उपवनदर्शन, (२) उपवनक्रीडा, (३) सीतात्याग,
(४) कुशलवकी उत्पत्ति, (५) रामरक्षा, (६) लव द्वारा कमलहरण,
(७) पुत्रोंके साथ रामका संग्राम,(८) सीताका पुनर्ग्रहण और (९) बालकोंका उपनयनसंस्कार ।

इति श्रीमदानन्दरामायणे जन्मकाण्डं समाप्तम् ।



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP