॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
जन्मकाण्डम्
॥ चतुर्थः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
अथ गङ्गातटं गत्वा लक्ष्मणोऽचिन्तयद्धृदि । स्वेच्छया कौतुकात्सीतां मया शुद्धां स त्यक्तवान् ॥ १ ॥ स्वीयकामप्रशान्त्यर्थं शास्त्राज्ञां प्रतिपालयन् । एवं सति पुनस्तेन किं ममाज्ञापितं रहः ॥ २ ॥ वनात्सीताभुजं छित्त्वा नयस्वेत्यतिदुर्घटम् । मयापि शपथं श्रुत्वा न पृष्टः स विचिंत्य च ॥ ३ ॥ अधुना किं करोम्यत्र कथं रामं प्रगम्यते । सीताभुजं विना दृष्ट्वा रामो मां किं वदिष्यति ॥ ४ ॥ छेत्तुं सीताभुजं शक्तो भविष्यामि कथं त्वहम् । ययाऽहं पुत्रवन्नित्य पालितो लालितस्त्वति ॥ ५ ॥ अधुनाऽग्निं विशाम्यत्र रामायास्यं न दर्शये । एवं निश्चित्य सौमित्रिश्चितां कर्तु मनो दधे ॥ ६ ॥ एतस्मिन्नन्तरे तत्र विश्वकर्मा विधेर्गिरा । कुठारहस्तो विपिने वभ्राम तक्षरुपधृक् ॥ ७ ॥ तं दृष्ट्वा लक्ष्मणः प्राह त्वं मे साहाय्यमाचर । कुठारेण तरूँश्छित्वा चिताथं देहि मां जवात् ॥ ८ ॥ यथेच्छं वसु दास्यामि त्वामहं निश्चयेन हि । सोऽप्याह लक्ष्मणं वीर चिताहेतुं वदस्व माम् ॥ ९ ॥ सौमित्रिः कथयामास पूर्ववृत्तं सविस्तरम् । तच्छ्रुत्वा सकलं तक्षः सौमित्रिं प्राह सस्मितः ॥ १० ॥ अल्पार्थे स्वीयकुगपं मा जुहाव स्वबाहुज । अह सीताभुजं कृत्वाऽधुना दास्यामि ते क्षणात् ॥ ११ ॥ इत्युक्त्वा लक्ष्मणं कृत्वा जानकीभुमुतमम् । त्वङ्मांसास्थिस्नायुरक्तपूरितं कंचुकीयुतम् ॥ १२ ॥ सीतालङ्कारसहितं तस्याश्चिह्नविचिह्नितम् । ददौ लक्ष्मणहस्ते तं स्वयमंतर्दधे क्षणात् ॥ १३ ॥ सीताभुज समादाय लक्ष्मणोऽपि पुरीं ययौ । गतश्रियं निरुत्साहां वात्यातिधूलिधूसराम् ॥ १४ ॥ ददर्श नगरीं स्वीयां न रीहीनगृहोपमाम् । विवेशाधोमुखः पुर्यं नत्वा सदसि राघवम् ॥ १५ ॥ दर्शयामास सीताया भुजं कङ्कणमण्डितम् । तनिरीक्ष्य भुजं रामोऽधोमुखः प्राह लक्ष्मणम् ॥ १६ ॥ केकेयी सुहृदः पौरान् सर्वान् जानपदान्नृपान् । सीताभुजा दर्शनीयस्त्वयाऽद्य मम शासनात् ॥ १७ ॥ तथेत्युक्त्वा लक्ष्मणोऽपि सचकार यथोदितः । भुजं संरक्षयामास पेटिकायां निधाय सः । कैकेयी तं भुजं दृष्ट्वा तुतोष नितरां हृदि ॥ १८ ॥ रामोऽपि सीतारहितः परात्मा विज्ञानदृक्केवल आदिदेवः । संत्यज्य भोगानखिलान्विरक्तो मुनिव्रतोऽभून्मुनिसेवितांघ्रिः ॥ १९ ॥ अथ सीताऽपि वाल्मीकेर्मुनिपत्नीभिराश्रमे । प्रत्यहं पूजिता वन्यैः सुखं तस्थौ मुदान्विता ॥ २० ॥ एवं मासद्वयं तत्र नीत्वा नीताऽऽश्रमे मुनेः । सुदिने सुषुवे रात्रौ पुत्ररत्नं रविप्रभम् ॥ २१ ॥ एतस्मिन्नन्तरे रात्रौ ज्ञात्वा तं समयं प्रभुः । राघवः किंकिणीमालाघंटां मुक्त्वाऽथ बंधुना ॥ २२ ॥ पुष्पकस्य ततस्तस्मिन् स्थित्वाकाशपथा ययौ । वाल्मीकेराश्रमे वेगात्सबन्धुस्तं ननाम सः ॥ २३ ॥ ततो वाल्मीकिना विप्रैमितैरेव रघूत्तमः । जातकर्मादिसंस्कारांश्चकार विधिपूर्वकम् ॥ २४ ॥ सीतायाः पुरतः पुत्राननमालोकयन्मुदा । ददौ दानान्यनेकानि सवस्त्राभरणान्यपि ॥ २५ ॥ चकार विाधेवच्छ्राद्धं पुत्रजन्ममहोत्सवे । देवदुन्दुभयो नेदुर्ववर्षुः पुष्पवृष्टिभिः ॥ २६ ॥ सुराः सीतां शिशुं रामं ननृतुः खे सुरस्त्रियः । नेदुर्जनकवाद्यानि ननृतुर्वारयोषितः ॥ २७ ॥ तुष्टुवुर्मागधाद्याश्च सीतां रामं शिशु मुहुः । ऋषिपत्न्यः शिशुं सीतां रामं दीपैः सुभूषिताः ॥ २८ ॥ पृथङ्नीराजनं कृत्वा जगुर्गीतं हि सुस्वरम् । वस्त्राद्यैः पूजयामाम ताः सर्वा रघुनन्दनः ॥ २९ ॥ सीतासमौ विदेहोऽपि पूजयामास विस्तरात् । वाल्मीकिस्तु कुशैः शांतिं चकार विधिना शिशोः ॥ ३० ॥ शांत्यर्थं प्रोक्षितो यस्मात्कुशैस्तस्मात्कुशाह्वयः । वाल्मीकिना राघवाग्रे निश्चितो बालकस्य हि ॥ ३१ ॥ एवं नानासमुत्साहैर्नीत्वा तत्र निशां सुखम् । तत्रस्थान् सकलानाह ममात्रागमनस्य हि तु ॥ ३२ ॥ यस्माद्वार्ता बहिर्गच्छेदाश्रमादस्य वै मुनेः । स मे दण्ड्यो भवेदेव शत्रुरूपो न संशयः ॥ ३३ ॥ इत्युक्त्वा सकलान्दृष्ट्वा मुनीन्नत्वा पुनः पुनः । सीतामामंत्र्य श्रीरामो यानं भ्रात्राऽऽरुरोह सः ॥ ३४ ॥ विहायसा क्षणात्प्राप साकेतं रघुनन्दनः । अवरुह्य विमानात्स पूर्ववन्निद्रिता गृहे ॥ ३५ ॥ अथ रामो वाजिमेधशतं कर्तुं मनो दधे । कृत्वा स्वर्णमयीं सीतां वस्त्रालंकारभूषिताम् ॥ २६ ॥ पापिनीं मलिनां दुष्टां भर्तुर्निंदापरायणाम् । भर्तृविद्वेषिणी क्रूरां चोरकर्मणि तत्पराम् ॥ ३७ ॥ भर्तारं घातुमिच्छन्तीं सदा कलहकारिणीम् । परभुक्तां पापरतां भर्तुवाक्यविलोपिनीम् ॥ ३८ ॥ स्वीयेच्छावर्तिनीं नष्टां मृतां नीतां गतांस्त्रियम् । त्यक्त्वाकुशमयीं विप्रैः कार्या पत्नी स्वकर्मसु ॥ ३९ ॥ हैमी कार्या बाहुजैश्च वैश्यैः कार्या तु राजती । शूद्रैः कार्या ताम्रमयी स्वस्वकर्मप्रसिद्धये ॥ ४० ॥ अथवा सर्ववर्णैश्च कार्या पत्नी तु कांचनी । रामोऽपि कृत्वा सौवर्णिमग्निहोत्रं चकार सः ॥ ४१ ॥ रावणेन यदा नीता सीता सा दंडके तदा । हेम्नोऽभावात्कुशमयी कृता रामेण जानकी ॥ ४२ ॥ अन्ये कुशमयीं पत्नीं विधाय गृहमेधिनः । अग्निहोत्रमुपासन्ते नित्यत्यागोऽतिगर्हितः ॥ ४३ ॥ व्यभिचारवती पापा भर्तृविद्वेषिणी तथा । आधाने सा परित्याज्या न वा त्याज्या मतांतरात् । ४४ ॥ पक्षे पक्षे नवम्यां हि स्नानं ह्यवभृथाभिधम् । कर्तुं निश्चितवान् रामस्तदा विप्रैः पुरोधसा ॥ ४५ ॥ भागीरथ्युत्तरे तीरे यज्ञभूमिं चकार सः । आप्रयागान्मुद्गलस्याश्रमो यावच्च दक्षिणे ॥ ४६ ॥ जह्न्युव्युत्तरतस्तावच्चकार स्वर्णलांगलैः । यस्याश्रमस्य सान्निध्ये भागीरथ्यस्त्युदग्वहा ॥ ४७ ॥ रुक्ममय्याऽथ जानक्या यज्ञारंभं चकार सः । अज्ञानदृग्भ्यो द्रष्टुं वै चकार स्वर्णनिर्मिताम् ॥ ४८ ॥ वामांगस्थां गुप्तरूपां ज्ञानदृग्भ्यश्च सात्त्विकीम् । बिभ्रत्सदैव श्रीरामो जानकीं लोकमातरम् ॥ ४९ ॥ यज्ञान्ते स्वर्णजां सीतां ददौ स्वगुरवे प्रभुः । एवं यज्ञशतेष्वत्र गुरवे शतमूर्तयः ॥ ५० ॥ याः समर्पिता रामेण तासां दानफलेन हि । षोडशस्त्रीसहस्रेभ्यश्चोर्ध्व स्त्रीणां शतं पुनः ॥ ५१ ॥ द्वारकायां कृष्णरूपो विवाहेनोद्वहिष्यति । प्रतियज्ञे श्यामकर्णमश्वं रामो मुमोच ह ॥ ५२ ॥ चतुर्दिनाच्चतुर्दिक्षु परिक्रम्य ययौ हयः । एवं सर्वेषु यागेषु ययौ वाजी पृथग्जवात् ॥ ५३ ॥ पुष्पकस्थः स शत्रुघ्नो हयरक्षां चकार वै । एवं सदा यज्ञवाटे विरेजे दीक्षया विभुः ॥ ५४ ॥ एवं च नवतिसंख्या रामेण नव वै कृताः । चरमस्यापि प्रारम्भं रामो यज्ञस्य सोऽकरोत् ॥ ५५ ॥ गंगाया दक्षिणे तीरे मुद्गलस्याश्रमोऽस्ति हि । तत्र तस्यान्तिके गंगोदक्तीरे च उदग्वहे ॥ ५६ ॥ दिनानि दश वाल्मीकिर्निशायां सध्ययोरपि । श्रीरामरक्षया चक्रे बालकस्याभिमंत्रणम् ॥ ५७ ॥ कुशं नाम तदा चक्रे मुनिरेकादशे दिने । चकार सर्वसंस्कारान् मुनिः श्रीराघवाज्ञया ॥ ५८ ॥ एवं स बालकस्तत्र ववृधे मातृलालितः । जनकश्च सुमेधा च नानावस्त्रैः सुशोभनैः ॥ ५९ ॥ शोभयामास दौहित्रं नानाव्याघ्रनखादिभिः । बालोऽपि रंजयामास स्वक्रीडाभिर्विदेहजाम् ॥ ६० ॥ एकदा निद्रितं प्रेंखे दृष्ट्वा वालं मुनेः पुरः । अन्यकर्मणि व्यग्रा च सखीं स्वीयां स्वमातरम् ॥ ६१ ॥ जनकं चापि सा सीता दृष्ट्वा सर्वान्बहिर्गतान् । आश्विने रविवारे च नद्यां स्नातुं समुद्यता ॥ ६२ ॥ मुनिं तं बालरक्षाया कृत्वाऽथ तमसां ययौ । दास्या मागेण गच्छंती ददर्श पथि वानरीम् ॥ ६३ ॥ कटिस्कंधमस्तकेषु बिभ्रतीं पंच बालकान् । तां दृष्ट्वा स्वशिशुं स्मृत्वाऽचितयञ्जानकी हृदि ॥ ६४ ॥ तिर्यग्योनौ जन्मवत्या वानर्या बालकानहो । स्नेहात्सहैव नीयन्ते धिङ्मां मानवदेहजाम् ॥ ६५ ॥ एकं चापि निजं बालं त्यक्त्वा गेहेऽद्य गम्यते । मया विमूढया स्नातुं भुव्यत्र क्षणिकं सुखम् ॥ ६६ ॥ इति धिक्कृत्य चात्मानं परिवृत्याश्रमं ययौ । एतस्मिन्नन्तरे गेहे वाल्मीकिर्मुनिपुंगवः ॥ ६७ ॥ गतः स लघुशंकार्थं कार्यार्थं बटवो गताः । गृहीत्वा सा कुशं प्रेंखाद्ययौ सीता बहिः पुनः ॥ ६८ ॥ दास्या सह नदीं गत्वोषसि स्नानं चकार वै । अदृष्ट्वाऽथ मुनिर्बालं दीर्घं निःश्वस्य वै मुहुः ॥ ६९ ॥ सीताशापभयाच्चक्रे लवैर्बालं स पूर्ववत् । तपोबलेन तं प्रोक्ष्य जीवयामास वेगतः ॥ ७० ॥ ज्ञानदृष्ट्या तीव्रतया मुनिना नावलोकितम् । ततः सीताऽपि सुस्नाता दास्या गेहं शनैर्ययौ ॥ ७१ ॥ कटौ गृहीत्वा तं बाल रुक्मनूपुरनिःस्वना । प्रेखेऽन्यं वालकं दृष्ट्वा मुनिं पप्रच्छ जानकी ॥ । ७० ॥ प्रेखेकस्याः शिशुश्चायं सोऽपिदृष्ट्वा तदाकुशम् । कटिप्रदेशे जानक्या विस्मयं परमं गतः ॥ ७३ ॥ नमस्कृत्य ततः सीतां सर्वं वृत्तं न्यवेदयत् । अंके निधाय तं बालं सीताया ह्यब्रवीन्मुनिः ॥ ७४ ॥ प्रसादान्मम वैदेहि द्वितीयोऽयं सुतस्तव । भवत्वद्य लवो नाम्ना लवैर्यस्माद्विनिर्मितः ॥ ७५ ॥ वाल्मीकेर्वचनात्साऽपि शिशुं जग्राह जानकी । मुनिस्तयोर्नाम चक्रे कुशो ज्येष्ठोऽनुजो लवः ॥ ७६ ॥ जातकर्मादिसंस्कारान् लवस्यापि चकार सः । तदानिनेदुर्वाद्यानि भूम्यां खेऽपि दिवौकसाम् ॥ ७७ ॥ ववर्षुजानकीं बालौ वाल्मीकिं कुसुमैः सुराः । चकार जनकश्चापि सुमेधा परमोत्सवान् ॥ ७८ ॥ क्रमेण विद्यासंपन्नो सीतापुत्रौ विरेजतुः । धनुर्विद्यामस्त्रविद्यां शिक्षयामास तौ मुनिः ॥ ७९ ॥ कृत्स्नं रामायणं स्वीयं कृतं तौ शिक्षयन्मुदा । यस्मिन्नानन्दरम्यं च चरित्रं राघवस्य हि ॥ ८० ॥ कुमारौ स्वरसंपन्नौ सुन्दरावश्विनाश्विवौ । तन्त्रीलयसमायुक्तौ गायंतौ चेरतुर्वने ॥ ८१ ॥ तत्र तत्र मुनीनां तु समाजेषु सरूपिणं । गत्वान्तावपि तौ या विस्मिता मुनयोऽब्रुवन् ॥ ८२ ॥ गन्धर्वेष्विह किन्नरेषु भुवि वा देवेषु देवालये । पातालेष्वथ वा चतुर्मुखगृहे लोकेषु सर्वेषु च । अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्वा दिशः सर्वतो । नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च ॥ ८३ ॥ एवं स्तुवद्भिरखिलैर्मुनिभिः प्रतिवासरम् । आसते सुखमेकांते वाल्मीकेराश्रमे चिरम् ॥ ८४ ॥ रुक्मकंकणमञ्जीरनूपुरैस्तौ विभूषितौ । केयूररशनाहारकुंडलैरतिशोभितौ ॥ ८५ ॥ निजक्रीडाकौतुकैश्च बालवाक्यैर्मनोहरैः । सीतां सुमेधां जनकं रञ्जयामासतुर्मुनिम् ॥ ८६ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये जन्मकाण्डे कुशलवजन्मकथनं नाम चतुर्थः सर्गः ॥ ४ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |