॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

जन्मकाण्डम्

॥ तृतीयः सर्गः ॥
[ सीतात्यागः ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथ रामं तु कौसल्याऽब्रवीद्‍रहसि संस्थिता ।
सीतां सीमोल्लंघनार्थं शीघ्रं प्रेषय राघव ॥ १ ॥
तन्मातुर्वचनं श्रुत्वा तथेत्युक्त्वा सविस्तरात् ।
सलक्ष्मणो निजामंबां प्राह यन्मन्त्रितं पुरा ॥ २ ॥
वाल्मीकेराश्रमे सीतात्यागादि च सकारणम् ।
अथ मासेऽष्टमे प्राप्ते रामो राजीवलोचनः ॥ ३ ॥
एकांते जनकीं प्राह वीजितो लक्ष्मणेन हि ।
कल्पयित्वा मिष देवि रजकोक्तं त्वदाश्रयम् ॥ ४ ॥
त्यजामि त्वां वने लोकवादाद्‍भीत इवापरः ।
त्रिमासात्पंचमासाद्वा सप्त मासात्सुबुद्धिभिः ॥ ५ ॥
अन्तर्वत्‍नी न गम्येति शास्त्राज्ञां रजकच्छलात् ।
त्वां त्यक्त्वा पालयिष्यामि निकटे वस्तुमक्षमः ॥ ६ ॥
त्वां दृष्ट्‍वा चंद्रवदनां कामो मेऽतान्न बाधते ।
त्वद्वियोगस्तु निर्बन्धाद्विना मेऽत्र कथं भवेत् ॥ ७ ॥
तस्मात्कृतोऽयं निर्बन्धः सत्यं विद्धि मनोरमे ।
पंचवर्षानंतरेण पुनरागत्य मेऽन्तिकम् ॥ ८ ॥
लोकानां प्रत्ययार्थं त्वं शपथं हि करिष्यसि ।
भूमेर्विवरमार्गेण स्थित्वा सिंहासनोपरि ॥ ९ ॥
यदा गच्छपि पातालं जगत्या पूजिता तदा ।
भुवं स्तुत्वा भीषयित्वा त्वामंके स्थापयाम्यहम् ॥ १० ॥
पुत्राभ्यां च मया सीते ततो भोगानवाप्स्यसि ।
मत्तस्त्वेकः कुशो ज्येष्ठस्तव पुत्रो भविष्यति ॥ ११ ॥
मुनस्तपःप्रभावेण भविष्यत्यपरो लवः ।
वाल्मीकेराश्रमे चैवं कुमारौ द्वौ भविष्यतः ॥ १२ ॥
अग्रे गत्वा चत्वत्पित्रा त्वद्योग्यं च गृहादिकम् ।
ससुमेधेन सकलं कृतमस्ति ममाज्ञया ॥ १३ ॥
कुरुष्वाद्य मया यत्त्वामुच्यते जनकात्मजे ।
सात्त्विकी त्वं यथापूर्वं दंडके गौतमीतटे ॥ १४ ॥
मद्वामांगे स्थिता यद्वन्मे वामांगे वसाधुना ।
वाल्मीकेराश्रमे गन्तुं गुणद्वयविमिश्रिता ॥ १५ ॥
भूत्वा त्वमाश्रमे स्थित्वा मद्वियोगं प्रदर्शय ।
तत्रापि त्वां कुशोत्पत्तौ दास्यामि दर्शनं रहः ॥ १६ ॥
तथेति रामवचनाजानकी सा स्मितानना ।
रजस्तमोमपीं स्वीयां छायां निर्माय सादरम् ॥ १७ ॥
श्रीराघवस्य वामांगे सत्त्वरूपा लयं ययौ ।
ततो रामः सभां गत्वा रात्रौ ज्ञानैकविग्रहः ॥ १८ ॥
मंत्रिभिमत्रतत्त्वज्ञैर्दलमुख्यैर्वयोधिकैः ।
समततो वेष्टितः संस्तस्थौ सिंहासनोपरि ॥ १९ ॥
तत्रोपविष्टं राजानं सुहृदः पर्युपासिरे ।
हास्यप्रायकथाभिश्च हासयन्तः स्थिताः प्रभुम् ॥ २० ॥
कथाप्रसंगात्पप्रच्छ रामो विजयनामकम् ।
पारा जानपदा वा मे किं वदन्ति शुभाशुभम् ॥ २१ ॥
सीता तां मातरं वा मे भ्रातृन्वा कैकयीमथ ।
न भेतव्यं त्वया ब्रूहि शापितोऽसि ममापरि ॥ २२ ॥
इत्युक्तः प्राह विजयो देव सर्वे वदंति ते ।
कृतं सुदुष्करं कर्मे रामेणाविदितात्मना ॥ २३ ॥
तथाप्येवं वदन्ति त्वां जनास्तत्ते वदाम्यहम् ।
किंतु हत्वा दशग्रीवं सीतामावृत्य राघवः ॥ २४ ॥
अमर्षं पृष्ठतः कृत्वा स्ववेश्म प्रत्यपादयत् ।
कीदृशं हृदयं तस्य सीतासंभोागज सुखम् ॥ २५ ॥
या हृता विजने पूर्वं रावणेन वने तदा ।
अकस्मादपि दुष्कर्म योषित्स्वमर्षदं भवेत् ॥ २६ ॥
यादृग्भवति वै राजा तादृश्यो नियताः प्रजाः ।
इति नानाविधा वाचः प्रवदन्ति पुरौकसः ॥ २७ ॥
अन्यत्किंचित्प्रवक्ष्यामि सांप्रतं रजकोदितम् ।
दुर्मार्गगां स्वरजकीं भार्यां क्रोधवशेन सः ॥ २८ ॥
रजकः प्राह भो रंडे सोऽहं रामो न मैथिलीम् ।
रावणस्य गृहे स्पष्टं स्थितामगीचकार यः ॥ २९ ॥
यथेच्छं गच्छ रंडे त्वं नाहं रामवदाचरे ।
गच्छता च मया मार्गे रजकेन समीरितम् ॥ ३० ॥
इति राम श्रुतं पूर्वं त्वया पृष्ट निवेदितम् ।
यत्पश्यसि हितं चात्र तत्कुरुष रघूत्तम ॥ ३१ ॥
श्रुत्वा तद्वचनं रामः श्वजनान्पर्यपृच्छत ।
तेऽपि नत्वाऽब्रुवन् राममेवमेतन्न संशयः ॥ ३२ ॥
ततो विसृज्य सचिवान्विजयं सुहृदस्तथा ।
आहूय लक्ष्मणं रःमो वचनं चेदमब्रवीत् ॥ ३३ ॥
लोकापवादस्तु महान्सीतामाश्रित्य मेऽभवत् ।
सीतां प्रातः समानीय वाल्मीकेराश्रमांतिके ॥ ३४ ॥
त्यक्त्वा शीघ्रं रथेन त्वं पुनरायाहि लक्ष्मण ।
वक्ष्यसे यदि वा किंचिदत्र मां हतवानसि ॥ ३५ ॥
छित्वा सीताभुजं लोकप्रत्ययार्थं समानय ।
इत्युक्त्वा लक्ष्मणं रामः कैकेयीं द्रष्टुमाययौ ॥ ३६ ॥
एतस्मिन्नन्तरे सीतां कैकेयी रहसि स्थिता ।
पप्रच्छ कौतुकात्सीते भित्तौ लेख्य दशाननम् ॥ ३७ ॥
मामत्र दर्शयस्वाद्य तां प्राह जानकी तदा ।
मयाऽवलोकितो नैव कदाऽपि स दशाननः ॥ ३८ ॥
यदा हतु पचवट्यां मां प्राप्तो गौतमीतटे ।
तदा दृष्टस्तदंगुष्ठो मया दक्षिणपादजः ॥ ३९ ॥
तत्सीतावचनं श्रुत्वा कैकेयी प्राह तां पुनः ।
यथा दृष्टस्न्वयांगुष्ठस्तथा भित्तौ लिखस्व हि ॥ ४० ॥
तयेति जानकीं लेख्य तदंगुष्ठं भयानकम् ।
कैकेय्यै दर्शयामास तामामंत्र्य गृहं ययौ ॥ ४१ ॥
अंगुष्ठोपरि कैकेय्या यथायोग्यो दशाननः ।
लिखितः स्वेन हस्तेन रामं द्रष्टुं कुबुद्धितः ॥ ४२ ॥
तावद्‍रामं समायातं दृष्ट्‍वा सा संभ्रमान्विता ।
भित्त्यंतिके राघवाय ददावासनमुत्तमम् ॥ ४३ ॥
रामोऽपि नत्वा कैकेयीमासने संस्थितोऽभवत् ।
ददर्श भित्तौ लिखितं विचित्रं तं दशाननम् ॥ ४४ ॥
रामः पप्रच्छ केनात्र लिखितोऽथं दशाननः ।
कैकेयी कथयामास सीतया लिखितस्त्विति ॥ ४५ ॥
यत्र यत्र मनो लग्नं स्मर्यते हृदि तत्सदा ।
स्त्रियाश्चरित्रं को वेत्ति शिवाद्यामोहिताः स्त्रिया ॥ ४६ ॥
कैकेयीवचनं चेत्थं श्रुत्वा रामो महामनाः ।
सीताश्रयं सभावृत्तं कैकेयीमाह विस्तरात् ॥ ४७ ॥
लक्ष्मणेन त्यजाम्यम्ब श्वः सीतां जाह्नवीतटे ।
सीताभुजं वने छित्त्वा समानयतु मद्‍‍गिरा ॥ ४८ ॥
सौमित्रिस्त्वां तथा पौरान्दर्शयिष्यति निश्चयात् ।
सीतया लिखितो यस्मात्स्वभुजेन दशाननः ॥ ४९ ॥
स्त्रीहत्याभयमालक्ष्य तद्वधे लक्ष्मणो मया ।
न चोदितश्च तां हिंस्रा भक्षयिष्यति वै क्षणात् ॥ ५० ॥
इति रामवचः श्रुत्वा कैकेयी मुदिताऽभवत् ।
सीताया विरहाद्रामो नेदं राज्यं प्रशास्यति ॥ ५१ ॥
सेवार्थं रामचन्द्रस्य लक्ष्मणोऽपि न शास्यति ।
तदा श्रीरामवाक्येन भरतो मे प्रशास्यति ॥ ५२ ॥
इति संचिंत्य हृदये कैकेयी मुदिताऽभवत् ।
रामोऽपि नत्वा कैकेयी सुमित्रां स्वां च मातरम् ॥ ५३ ॥
सभावृत्तं च कैकयीगेहे यञ्जातमादरात् ।
श्रावयामास सकलं वृत्तं सीताश्रयं प्रभुः ॥ ५४ ॥
नत्वा सुमित्रां कौसन्यां रामः सीतागृहं ययौ ।
सीतया दत्तपाद्यार्घासनमंगीचकार सः ॥ ५५ ॥
सभावृत्तं च कैकेयीगेहे यददृष्टमादरात् ।
श्रावयामास तत्कृत्स्नं वृत्तं तं जानकीं मुदा ॥ ५६ ॥
तच्छ्रुत्वा जनकीं प्राह कैकेय्या वचनान्मया ।
अंगुष्ठं एव लिखितस्तयोर्ध्वं लिखितो धिया ॥ ५७ ॥
अगुष्ठस्यानुरूपेण दशास्यो दुष्टबुद्धितः ।
सत्सीतावचनं श्रत्वा जानकीमाह राघवः ॥ ५८ ॥
कौटिल्यबुद्धिं कैकेय्याः समग्रां वेद्म्यहं प्रिये ।
इत्युक्त्वा राघवः सीतामालिंग्यास्यं चुचुंब सः ॥ ५९ ॥
सीतया हेमपर्यङ्‌‍के भुक्त्वा भोगान्सुपुष्कलान् ।
विनोदार्थं रघुपतिः प्राह रात्रौ विदेहजाम् ॥ ६० ॥
स्त्रीणां सीते सगर्भाणां वांछितं वांछते मनः ।
का ते वांछा वदस्व त्वं तत्ते दास्यामि निश्चितम् ॥ ६१ ॥
इति रामवचः श्रुत्वा भाविकार्येण यंत्रिता ।
सा प्राह राघवं रामं गंगांस्तीरस्थितांस्तरून् ॥ ६२ ॥
मुनीनामाश्रमाँश्चापि ऋषिपत्‍नीश्च तद्वनम् ।
वांछते मे मनो द्रष्टुं शीघ्रं प्रेषय तत्र माम् ॥ ६३ ॥
इति सीतावचः श्रुत्वा तथाऽस्त्विति रघूत्तमः ।
प्राह सीते लक्ष्मणः श्वो नेष्यति त्वां ममाज्ञया ॥ ६४ ॥
पुनः प्राह रघुश्रेष्ठः सीते ते क्रीडनादिभिः ।
जपध्यानादिकं सर्वं विस्मृतं तन्मया पुरा ॥ ६५ ॥
तत्करोम्यधूना सीते गतायां त्वयि काननम् ।
इत्युक्त्वा जानकीं रामः सुखं सुष्वाप मंचके ॥ ६६ ॥
सीताऽपि चिंतयामास यत्र माता पिता मम ।
किं मां न्यूनं हि तत्रास्ति किंचिद्वस्त्वादिकं सह ॥ ६७ ॥
नाहंनेष्यामिश्वस्तूष्णीं सख्यादास्या समन्विता ।
लक्ष्मणेन रथे स्थित्वा गच्छामि मुदिता सुखम् ॥ ६८ ॥
इति निश्चित्य सा रात्रौ सुखं सुष्वाप मंचके ।
अथ प्रभाते सोत्थाय स्नाता स्नातं रघूत्तमम् ॥ ६९ ॥
पक्वान्नादीनि सत्पात्रे पर्यवेषयदुत्तमम् ।
उपहारे कृते भर्त्रा स्वयं कृत्वोपहारकम् ॥ ७० ॥
पृष्ट्वोर्मिलादिकाः स्त्रीश्च ततः श्वश्रूः प्रणम्य च ।
गङ्‌गातीरस्थितान् वृक्षान्मुनीन्द्रष्टुं समुद्यता ॥ ७१ ॥
ताः पप्रच्छ सखीयुक्ता दास्या सस्मार लक्ष्मणम् ।
ततोऽसौ लक्ष्मणो भ्रात्रा चोदितस्तां ययौ जवात् ॥ ७२ ॥
दास्यासख्यातुलस्याथ सीता कृत्वा रथस्थिताम् ।
ययौ दक्षिणमार्गेण वायुवेगात्स जाह्नवीम् ॥ ७३ ॥
इन्द्राद्या निर्जराश्चक्रः सीतासन्मार्गसत्क्रियाम् ।
उल्लंघ्य तमसां पुण्यां गोमतीं जाह्नवीमपि ॥ ७४ ॥
यमुनां तां महापुण्यां तथा मदाकिनीं नदीम् ।
द्वितीयां तमसां पुण्यां समुल्लंघ्य स लक्ष्मणः ॥ ७५ ॥
चित्रकूटोपत्यकायां वाल्मीकेराश्रमांतिके ।
पिप्पलाधो मैथिली तां सख्या दास्या वरासने ॥ ७६ ॥
निवेश्य नत्वा स प्राह साश्रुनेत्रः सगद्‍गदः ।
लोकापवादभीत्या त्वां त्यक्तवान् राघवो वने ॥ ७७ ॥
दोषो न कश्चिन्मे मातर्गच्छाश्रमपदं मुनेः ।
इत्युक्त्वा तां परिक्रम्य सख्या दास्याऽपि वीजिताम् ॥ ७८ ॥
ययौ रथेन सौमित्रिः पूर्वमार्गेण जाह्नवीम् ।
शिष्यैः श्रुत्वाऽथ वाल्मीकिर्जनकेन सुमेधसा ॥ ७९ ॥
ययौ स्त्रीभिर्द्विजैर्युक्तः पूजयामास जानकीम् ।
शिवबिकायां सन्निवेश्य वीजितां चामरादिभिः ॥ ८० ॥
नानावाद्यनिनादैश्च वेश्यानां नर्तनैर्वरैः ।
स्तवनैर्मागधादीनां नटादीनां सुगायनैः ॥ ८१ ॥
निनाय जनकः सीतां वाल्मीकेराश्रमे मुदा ।
मुनिपत्‍न्यो वन्यपुष्पैर्ववर्षुर्जानकी मुदा ॥ ८२ ॥
जानकीशिबिकाग्रे ते दुद्रुवुर्वेत्रपाणयः ।
एवं विवेश सा सीता वाल्मीकेराश्रमं शनैः ॥ ८३ ॥
चक्रुर्नीराजनं दीपैर्मुनिपत्न्यश्च जानकीम् ।
जानकी हेमपर्यंके धृताधोंकोपबर्हणा ॥ ८४ ॥
सुखमापाश्रमे तस्य वाल्मीकेश्च तपस्विनः ।
जानकीं पूजयामासुर्मुनिपत्‍न्यः पृथक पृथक् ॥ ८५ ॥
दिव्यान्नैर्वनसंभूतैर्वन्यपुष्पैर्निरन्तरम् ।
ज्ञात्वा परात्मनोलक्ष्मीं मुनिवाक्येन भक्तितः ॥ ८६ ॥
दोहदान् पूरयामासुः सीतयास्ता द्वनिस्त्रियः ।
शिबिकासंस्थिता सीता ददर्श वनकौतुकम् ॥ ८७ ॥
यथापूर्वं तु साकेते सुखमाप विदेहजा ।
तथा मुनेराश्रमेऽपि सुखमाप पतिव्रता ॥ ८८ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमदानन्दरामायणे वाल्मीकीये
जन्मकाण्डे सीताया वाल्मीक्याश्रमगमनं नाम तृतीयः सर्गः ॥ ३ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP