॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

जन्मकाण्डम्

॥ द्वितीयः सर्गः ॥
[ उपवनक्रीडा ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथ सीता राघवेण रम्योपवनभूमिषु ।
क्रीडाश्चकार विविधास्त्रिदशैरपि संस्तुताः ॥ १ ॥
कदा वनांतःप्रासादे कदा वस्त्रगृहेष्वपि ।
कदाऽऽम्रवृक्षच्छायायां कदा पुष्पवनेषु सा ॥ २ ॥
कदा सा जलयंत्राणां समीपस्थवरासने ।
कदा सरोवरतटे कदा नद्यास्तटेऽपि च ॥ ३ ॥
नौकास्था सरयूतोये सा रामेणाकरोत्कदा ।
कदारात्रौ जलक्रीडां सा दिवाऽपि कदा मुदा ॥ ४ ॥
कदा तटाके नौकास्था कदा रंभावनेषु सा ।
कदा वृक्षोर्ध्वगेहेषु कदोशीरगृहेष्वपि ॥ ५ ॥
कदा सा सरयूनद्यां निर्मितेषु गृहेषु वा ।
कदा कृत्रिमगेहेषु पुष्पगेहेषु सा कदा ॥ ६ ॥
कदा सा चित्रशालायां पुष्पके वा कदा मुदा ।
कदा सा केतकीषण्डे कदैकस्तम्भसद्मनि ॥ ७ ॥
कदा नौकोर्ध्वगेहस्था सरय्वाः सैकते कदा ।
एकस्तम्भोर्ध्वगेहेऽपि सखीभिः परिवेष्टिता ॥ ८ ॥
कदा रामेण रहसि कदा दोलकसंस्थिता ।
पर्यङ्कचक्रमध्यस्था कदा सा दाडिमीवने ॥ ९ ॥
वृक्षसम्बद्धपर्यङ्कसंस्थिता राघवेण हि ।
चकार सा कदा क्रीडां पांडुरांगी पृथूदरी ॥ १० ॥
हरिद्वस्त्रयुतारक्तकंचुक्या जानकी बभौ ।
गोपयित्वा निजं देहं सीता वृक्षदलैर्घनैः ॥ ११ ॥
चकार व्याकुलं रामं विनोदेन स्मितानना ।
ज्ञात्वात्मानं राघवेण तुष्टां सम्यग्विविच्य च ॥ १२ ॥
दुद्राव संभ्रमाद्‌रामं तत्कण्ठे दोर्लतेऽकरोत् ।
एवं सीताघवयोः क्रीडनं परमाद्‍भुतम् ॥ १३ ॥
विस्तारेणेह को वक्तुं समर्थः पृथिवीतले ।
एक एव समर्थोऽभूद्‌वाल्मीकिर्मुनिसत्तमः ॥ १४ ॥
शतकोटिमितं येन चरितं वर्णितं तयोः ।
सारं सारं मया यस्माद्विविच्य त्वां प्रवर्ण्यते ॥ १५ ॥
वारस्त्रीणां कदा नृत्यं सीताऽऽरामे ददर्श सा ।
कदा शुश्राव वाद्यानि मञ्जुलानि महांति च ॥ १६ ॥
कदा चित्रकथा रम्याश्चेन्द्रजालानि वा कदा ।
कदा वंशारोहणादिकौतुकानि ददर्श सा ॥ १७ ॥
कदा स्तम्भोद्‍भवं दिव्यं ददर्श कौतुकं महत् ।
कदा कलानां कौशल्यं सूत्रबन्धैर्विनिमितम् ॥ १८ ॥
कदा कृत्रिमहस्त्यादिनानारूपाणि वै पतेः ।
सीता ददर्श कुशलैर्धृतान्यात्मयुतान्यपि ॥ १९ ॥
एवं सीताऽऽराममध्ये मासमेकं निनाय सा ।
ययौ रामेण नगरीं नृत्यगीतादिभिः शनैः ॥ २० ॥
सौधस्थाभिः पुरस्त्रीभिर्वर्षिता कुसुमादिभिः ।
नीराजिता कुम्भदीपैर्दीपैर्दध्योदनोद्‍भवैः ॥ २१ ॥
माषतैलसर्षषाद्यैर्नानाबलिभिरादरात् ।
ययौ निजगृहं सीता राघवेण समन्विता ॥ २२ ॥
एवं नानाकौतुकैश्च नानादोहदपूरणैः ।
रामस्तां रञ्जयामास साऽपि रामं स्वलीलया ॥ २३ ॥
षष्ठे मासे त्वथ प्राप्ते सीतया राघवो मुदा ।
सीमन्तोन्नयनं चैव वसिष्ठेन चकार सः ॥ २४ ॥
सुमेधा जनकं चापि समाहूयादरेण हि ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो रघूत्तमः ॥ २५ ॥
जनकः पूजयामास रामं स्त्रीबन्धुसंयुतम् ।
कौसल्यादींश्च साकेतवासिनो वसनादिभिः ॥ २६ ॥
पौराश्च सुहृदः सर्वे भोजनार्थं विदेहजाम् ।
स्वस्वगेहं पृथङ्‌निन्युः श्रीरामादिभिरुत्सवैः ॥ २७ ॥
नानावाद्यनिनादैश्च वारस्त्रीनृत्यगायनैः ।
स्त्रीमुक्तपुष्पवर्षाभिर्नानाकौतुकदर्शनैः ॥ २८ ॥
नानादेशनिवासिन्यः कोटिशस्ता नृपस्त्रियः ।
समाजग्मुरयोध्यायां सीतां द्रष्टुं मुदान्विताः ॥ २९ ॥
तासां सैन्यैश्च सर्वत्र वेष्टिता नगरी बभौ ।
ताः सर्वा नृपपत्‍न्यश्च सीतायाः परमान् वरान् ॥ ३० ॥
दोहदान् पूरयामासुर्दिव्यान्नादिभिरादरात् ।
ददुर्वस्त्राण्यलंकारान् दिव्यांश्चित्रविचित्रितान् ॥ ३१ ॥
स्वस्वदेशोद्‍भवैर्दिव्यैर्नानावस्तुभिरादरात् ।
जानकीं पूजयामासुस्ताः सर्वाः पार्थिवस्त्रियः ॥ ३२ ॥
स्थित्वा ता मासमेकं तु जग्मुर्देशं निजं निजम् ।
अथैकदा तु श्रीरामः सुमेधां जनकं तथा ॥ ३३ ॥
सीतायाः पुरतः प्राह गुह्यं रहसि हृत्स्थितम् ।
सीतामदृष्ट्वा सान्निध्ये क्षणाच्च विरहेण ताम् ॥ ३४ ॥
मयाऽऽगत्य तन्मुखेन्दुसुधया स्वास्थ्यमाप्यते ।
आत्मानं विह्वलं दृष्ट्वा सीतासान्निध्यमाश्रये ॥ ३५ ॥
अधुना जानकीं दृष्ट्वा कामो मेऽतीव बाधते ।
पञ्चमासोर्ध्वतः संगं गर्हयन्ति मुनीश्वरा ॥ ३६ ॥
प्रसूत्यग्रे पञ्चमासेः स्त्री स्वास्थ्यं प्राप्यते पुनः ।
पञ्चमासैर्विना सङ्गाद्दंपत्योः क्षीणतेरिता ॥ ३७ ॥
अत्र किं करणीयं हि वद त्वं श्वशुराय माम् ।
चेत्प्रेषणीया सीतेयं मिथिलां प्रति वै मया ॥ ३८ ॥
तर्हि तत्रापि मे गन्तुं भविष्यति समुद्यमः ।
किंचित्कालं तु सीताया वियोगो येन मे भवेत् ॥ ३९ ॥
उपायः स विधातव्यश्चिन्तितोऽस्ति मयाऽपि च ।
लोकापवादभीत्याऽहं रजकोक्तच्छलादपि ॥ ४० ॥
गङ्गाया दक्षिणे तीरे वाल्मीकेराश्रमे शुभे ।
त्यजामि जानकीं शुद्धां किञ्चित्कालांतरात्पुनः ॥ ४१ ॥
एनां समानयिष्यामि प्रत्ययं मां प्रदास्यति ।
ततोऽनया चिरं कालं नानाभोगान् भजाम्यहम् ॥ ४२ ॥
जनकाद्य त्वया तत्र निजपत्‍न्या सुमेधया ।
वाल्मीकेराश्रमे गत्वा स्थेयं वर्षाणि पञ्च वै ॥ ४३ ॥
तथेत्यंगीचकाराथ जनकोऽपि सुमेधया ।
सीताऽप्यंगीचकाराथ विहस्य तद्वचः पतेः ॥ ४४ ॥
अथ रामो ददावाज्ञां सस्त्रियं जनकं मुदा ।
स गत्वा मिथिलाराज्ये स्वीयं संस्थाप्य मन्त्रिणम् ॥ ४५ ॥
ययौ सुमेधया शीघ्रं वान्मीकेराश्रमं मुदा ।
किञ्चिद्दासीदाससैन्यवाजिवारणवेष्टितः ॥ ४६ ॥
नानोपचारान्सीताथं संगृह्य शकटादिभिः ।
चकार गेहं विपुलं वाल्मीकेश्च सुखावहम् ॥ ४७ ॥
सर्वसंपत्तिसंयुक्तं बहुगोमहिषीयुतम् ।
पूरितं धान्यसंघैश्च वस्त्रैराभरणादिभिः ॥ ४८ ॥
कासारोपवनारामपुष्पवाटिशतावृतम् ।
गवाक्षैश्चन्द्रकान्तानां कपाटैश्च समन्वितम् ॥ ४९ ॥
कृष्णागुरुसकर्पूरोशीरमाल्यादिमोदितम् ।
कांचनीशृंखलाबद्धरत्‍नपर्यङ्कमण्डितम् ॥ ५० ॥
हंसपारावतपिककेकीशुकनिनादितम् ।
मुक्तागुच्छवितानाद्यैः शोभितं चित्रचित्रितम् ॥ ५१ ॥
एवं मनोहरं गेहं सीतार्थं जनकोऽकरोत् ।
श्रीः साक्षादुगन्तुमुद्युक्ता यस्भिन्निवसितु चिरम् ॥ ५२ ॥
किं दुर्लभं हि तत्रास्ति वर्णनीयं मयाऽद्य किम् ।
यस्या नेत्रकटाक्षेण शक्रादीनां विभूतयः ॥ ५३ ॥
वाल्मीकये सर्ववृत्तं जनकोऽपि न्यवेदयत् ।
मुनिश्चाप्यतिसंतुष्टो मेने स्वतपसः फलम् ॥ ५४ ॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मीकीये जन्मकाण्डे उपवनक्रीडा नाम द्वितीयः सर्गः ॥ २ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP