॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विलासकाण्डम्
॥ पञ्चमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ सीता क्षणेनैव चकार परिवेषणम् । हेमपात्रेषु सर्वेषां पक्वान्नैर्विविधैर्मुदा ॥ १ ॥ कामधेनूद्भवैश्चैव मण्डकान् पूर्णपूरितान् । वटकान् फेनिकाश्चापि पायसान्युज्ज्वलानि च ॥ २ ॥ पर्पटकान् लडडुऽकांश्च कूष्मांडवटकांस्तथा । सुमृष्टतंडुलकृतान् दधिक्षीरं घृतं मधु ॥ ३ ॥ पृथक्कांचनद्रोणेषु जानकी पर्यवेषयत् । शर्कराः श्वेतवर्णाश्च तथैव खंडशर्कराः । ४ ॥ मरिचायुपचारैश्च संस्कृतं तक्रमुत्तभम् । घृतपाचितशाकाश्च ह्युपशका रुचिप्रदाः ॥ ५ ॥ तिलसम्मिश्रवटकानार्द्रकं बीजपूरकम् । आम्रादीनां रसांश्चापि रंभादीनि फलान्यपि ॥ ६ ॥ एवमादीन्यनेकानि चोष्यनि विविधानि च । तथा लेह्यानि पेयानि जानकी पर्यवेषयत् ॥ ७ ॥ ततो रामः सुहृन्मित्रैः कथा कुर्वन् सुखेन सः । अकरोदुपहारं च करशद्धिं विधाय सः ॥ ८ ॥ सर्वेषां निजहस्तेन ददौ तांबूलमुत्तमम् । स्वयं भुक्त्वाऽथ तांबूलं वामांसि परिधायसः ॥ ९ ॥ बद्ध्वा वस्त्राणि सर्वाणि दृष्ट्वादर्शे निजं मुखम् । आरुह्य शिबिकां दिव्यां मुक्तागुच्छविराजिताम् ॥ १० ॥ हैमीं रत्नादिभिश्चित्रां ययौ निजगृहाद्बहिः । बन्धुभिः सचिवैरिष्टैस्तैस्तैः सर्वत्र वेष्टितः ॥ ११ ॥ स्तुतो वन्दिजनैः सर्वैर्ययौ स जानकीगृहम् । तत्रनत्वाऽथ कौसल्यां तथा मातृर्यथाक्रमम् ॥ १२ ॥ आशीर्भिरीडितस्ताभिर्ययौ रामः सभां वराम् । तत्रसिंहासने स्थित्वा मंत्रिभिलक्ष्मणादिभिः ॥ १३ ॥ राजकार्याणि सर्वाणि चकार नीतिमत्तरः । शशास राज्यं धर्मेण बुद्धिमांश्चारुलोचनः ॥ १४ ॥ चारैर्ज्ञात्वा स्थितिं सर्वां स्वराज्यस्य च सर्वथा । शशास राज्यं धर्मेण राघवो दीर्घलोचनः ॥ १५ ॥ अथ सीतोपहारं स्वसखीभिश्चोर्मिलादिभिः । देवगणा कामिनीभिः स्वसृभिश्चाकरोत्सुखम् ॥ १६ ॥ करशद्धिं विधायाय भुक्त्वा तांबूलमुत्तमम् । परिधाय हरिद्वस्त्रं तथा रक्तां तु कञ्चुकीम् ॥ १७ ॥ हेमतन्तुसुपुष्पाढ्यां मुक्ताजालविगुम्फिताम् । गेहान्तर्वर्त्युपवनशालायां संस्थिताऽभवत् ॥ १७ ॥ सखीभिर्वेष्टिता रम्या घृताऽधोंकोपबर्हणा । ततो दिव्यानलङ्कारान्निजदेहे दधार सा ॥ १८ ॥ ये मया कथिता नैव पूर्वन्यस्तान् श्रमेण तान् । कस्तेषां वर्णने सक्तो भवेदत्र नरोत्तमः ॥ १९ ॥ चतुरास्यः कुण्ठितोऽभूत्पञ्चास्यश्च षडाननः । उच्चैःश्रवाश्च सप्तास्यः सहस्रास्योऽपि वर्णने ॥ २० ॥ श्रुत्वा सीतामुपवने गतां ते जलयन्त्रिणः । जलयन्त्राणि सर्वाणि चक्रुर्मुक्तानि वेगतः ॥ २१ ॥ रत्नमञ्चकसंस्था सा सीता चामरवीजिता । जलयन्त्रकौतुकानि ददर्श नगवीरुधः ॥ २२ ॥ एतस्मिन्नन्तरे रामो राजकार्याणि कृत्स्नशः । कृत्वा ययौ सभायाः स निजगेहं तु बन्धुभिः ॥ २३ ॥ तदा दुन्दुभिनिर्घोषा नववाद्यस्वना अपि । शङ्खानां गोमुखानां च भेरीणां तुमुलस्वनाः ॥ २४ ॥ बभूवुर्यत्र शब्दाश्च तुर्यादीनां स्वनाः शुभाः । ननृतुर्वारनार्यश्च तुष्टुवुर्मागधादयः ॥ २५ ॥ तं स्वन जानकी चापि श्रुत्वा चोपवने स्थिता । सम्भ्रमेण समुत्तीर्य मञ्चकाधो वरानना ॥ २६ ॥ वामहस्ते झर्झरीं तां ह्युपपात्र च दक्षिणे । धृत्वा करे सा वैदेही रामं प्रत्युज्जगाम वै ॥ २७ ॥ एतस्मिन्नंतरे रामस्त्यक्त्वा तां शिबिकां बहिः । विसर्ज्य सकलाँल्लोकान् विवेश बन्धुभिर्गृहे ॥ २८ ॥ एतस्मिन्नन्तरे दास्यः शतशो रुक्मभूषिताः । राघवाग्रे दुद्रुवुस्ताः स्वस्वकर्मसु तत्पराः ॥ २९ ॥ काचित्तं व्यजनेनैव वीजयामास वेगतः । दधार चामरे काचित्काचिदासनमुत्तमम् ॥ ३० ॥ काचित्ताबूलपात्रं मा काचिन्निष्ठीवनस्य च । पात्रं दधार काचित्तु जलकुम्भं मनोरमम् ॥ ३१ ॥ काचिद्दधार वस्त्राणां कोशं काचित्तु कार्मुकम् । काचिद्दधार तूणीरं काचित्खड्गं दधार सा ॥ ३२ ॥ एवमादीन्यनेकानि तदोपकरणानि ताः । जगृहू रामचन्द्रं तं वेष्टयामासुरादरात् ॥ ३३ ॥ ततो रामः शनैःपद्भ्यां ययौ जनकनन्दिनीम् । स्थितां तत्र प्रतीक्षन्ती पतिं जलरुहेक्षणम् ॥ ३४ ॥ गृहांगणाराममध्ये संस्थितां सस्मिताननाम् । दृष्ट्वात्मानं विलज्जन्तीं सुनासां चारुलोचनाम् ॥ ३५ ॥ कटाक्षैश्चारु पश्यन्तीं सखीभिः परिवेष्टिताम् । तां दृष्ट्वा राघवश्चापि किंचित् कृत्वा स्मिताननम् ॥ ३६ ॥ चकाराचमनं सम्यक् सीतार्पितजलेन सः । ततः स्थित्वाऽऽसने पीत्वा जलमग्रे ययौ पुनः ॥ ३७ ॥ जलयन्त्रसमीपस्थां शालां सीतासमन्वितः । तस्यां सिंहासने स्थित्वा लक्ष्मणं प्राह राघवः ॥ ३८ ॥ गच्छ भोजनशालां त्वं सर्वानाहूय वेगतः । ब्राह्मणादीनुर्मिलादिनारीणां त्वरयस्व हि ॥ ३९ ॥ सर्वं कृत्वा यथायोग्यं ततो मां कुरु सूचनाम् । तथेति रावचनाद्भरतेन स शत्रूहा ॥ ४० ॥ लक्ष्मणस्त्वरितो गत्वा सर्वानाहूय वेगतः । वसिष्ठादिमुनीन्मित्रमंत्रिणः सुहृदस्तथा ॥ ४१ ॥ त्वरयामासोर्मिलां च मांडवीं भरतप्रियाम् । श्रुतकीर्तिं च सौमित्रिः श्रीरामवचनात्तदा ॥ ४२ ॥ एतस्मिन्नन्तरे रामः केसरादिविनिर्मितैः । चित्ररागैः पूरितानि जलयन्त्राण्यनेकशः ॥ ४३ ॥ कारयित्वा तेषु सीतां बाहुपाशैर्दृढं मुदा । धृत्वाऽक्षिपत्पृथग्दास्यादिषु पश्यत्सु वै सुखम् ॥ ४४ ॥ ततः स्वयं पपातोच्चैर्जलयंत्रेषु वै पृथक् । जलक्रीडां स मैथिल्या चकार रघुनन्दनः ॥ ४५ ॥ भुजाभ्यां स समालिंग्य तां मुहुः प्राक्षिपन्मुदा । रञ्जयामास वैदेहीं सुरागाञ्जलिसेचनैः ॥ ४६ ॥ ततः सुगन्धतैलानि तथा परिमलानि हि । नानासगन्धद्रव्याणि माङ्गल्यानि बहूनि च ॥ ४७ ॥ दासीभिः शीघ्रमानीय तावुभौ हि परस्परम् । ववर्षतुः सुमाद्यैश्च क्रोडाद्रव्यैमनोरमैः ॥ ४८ ॥ कराभ्यां जलयंत्राणि मिथस्तौ संमुमोचतुः । रामाक्षिसंज्ञया दास्यः सीतासख्योऽपि सूचिताः ॥ ४९ ॥ वस्त्रभित्तिबहिर्दूरं गत्वा तस्थुर्विलञ्जिताः । काश्चिद्द्वारेषु तस्थुस्तास्तूष्णीं प्रमुदिताननाः ॥ ५० ॥ अदृष्ट्वाऽयं ततः सीतारामौ रहसि सादरम् । जलयन्त्रेषु तौ क्रीडां चक्रतुः सुचिरं मुदा ॥ ५१ ॥ मुष्टिभ्यां जानकी रामं ताडयामास कौतुकात् । सोऽपि तां ताडयामास मुष्ट्या पुष्पसमानया ॥ ५२ ॥ चुचुम्ब तस्या बिंबोष्ठं चूर्णयामाप तत्कुचौ । मुक्त्वा तत्कञ्चुकीबंधमालिंग्य हृदयेनताम् ॥ ५३ ॥ मुमोच कच्छं श्रीरामः सीतायाः स्वकरेण सः । उड्डीय वस्त्र हस्तेन तद्वम्भोरू ददशे सः ॥ ५४ ॥ ततः करेण तन्नीवीं रामश्चाकर्षयन्मुदा । सीताप्याकर्षयद्वेगाद्रामनीवीं स्मितानना ॥ ५५ ॥ एवं परस्परं क्रीडां चक्रतुर्दम्पती मुदा । कः समर्थस्तयोः क्रीडां सविस्तारां निवेदितुम् ॥ ५६ ॥ एतस्मिन्नन्तरे रामं भोजनार्थं तु सूचनाम् । कर्तुं ययौ स सौमित्रिः समाहूय सुहृज्जनान् ॥ ५७ ॥ निषेधितः स दासीभिर्वनद्वाराद्बहिः स्थितः । ता ऊचुः समयो नायं रामं गन्तुं च न क्षणम् ॥ ५८ ॥ स्थिरो भवात्र सौमित्रे रामो रहसि सीतया । करोति जलयन्त्रेषु जलक्रीडां यथासुखम् ॥ ५९ ॥ पुनस्ताः प्राह सौमित्रिर्युष्माभिर्वचनेन मे । निवेदनीयं रामाय सूचनार्थं हि लक्ष्मणः ॥ ६० ॥ समागतस्त्वामस्तीति ततो यास्याम्यहं गृहम् । ततस्तासु तदा त्वेका दासी गत्वा रधूत्तमम् ॥ ६१ ॥ वस्त्रभित्तेर्बहिः स्थित्वा भयर्भाताऽतिलज्जिता ।ं कथयामास सौमित्रेर्द्वारि ह्यागमनं शनैः ॥ ६२ ॥ तद्दासीवचनं श्रुत्वा जलयंत्रात्तु जानकीम् । बहिःकृत्वा निर्गतश्च रामस्तुष्टमनाः स्वयम् ॥ ६३ ॥ जलैरुष्णैः प्रभुः स्नात्वा देहमुद्वर्तनादिभिः । सुगधद्रव्यरागादीन् कृत्वा दूरं प्रियान्वितः ॥ ६४ । पीतकौशेयवासांसि परिधायाथ दम्पती । ददतुश्चार्द्रवस्त्राणि हेमतत्वंकितानि च ॥ ६५ ॥ दासीभ्यश्चाथ दासेभ्यो रागाद्यैश्चित्रितानि हि । तौ जग्मतुः पुष्पचितमार्गेणाप्यशनगृहम् ॥ ६६ ॥ तत्र पूर्वोपचाराधिकैर्नानोपचारकैः । ऊर्मिलादिभिरन्नं यत्कामधेनुसमुद्भवम् ॥ ६७ ॥ दर्वीभिः स्वर्णजाभिश्च पात्रेषु परिवेषितम् । मुनीश्वरैश्च गुरुणा सुहृन्मित्रसमन्वितः ॥ ६८ ॥ मन्त्रिभिर्बन्धुभिश्चापि रामोऽश्नंस्तोषमाप सः । तत्पात्रं वीजयामास जानकी चामरेण सा ॥ ६९ ॥ सविनोदैश्चाटुवापयै रञ्जयामास राघवम् । एवं कृत्वा भोजने तु कृत्वा तांबूलचर्वणम् ॥ ७० ॥ सीतासमर्पितं रामस्तस्थौ शृण्वन् कथाःसुखम् । मन्त्रिभिर्बन्धुभिर्मित्रैर्गेहांतः सदसि प्रभुः ॥ ७१ ॥ सीताऽपि भोजनं कुत्वा दिव्यालंकारमण्डिता । निद्राशालां समासीना सखीभिः परिवेष्टिता ॥ ७२ ॥ चकार सारिभिः क्रीडां दासीभिर्वीजिता मुदा । कुर्वन्ती रघुनाथस्य प्रतीक्षां द्वारलोचना ॥ ७३ ॥ इति श्रीमच्छतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये यागकाण्डे जलक्रीडावर्णनं नाम पञ्चमः सर्गः ॥ ५ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |