॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विलासकाण्डम्
॥ चतुर्थः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच चतुर्नाङ्यवशिष्टायां निशायां रघुनायकम् । उद्बोधनार्थं संप्राप्ता रतशालाबहिः स्थिताः ॥ १ ॥ वन्दिनो मागधाः सूता नर्त्तक्यश्च नटादयः । वादयामासुर्वाद्यानि ननृतुश्चाप्सरोगणाः ॥ २ ॥ जयुर्मङ्गलगीतानि स्तोत्राणि विविधानि च । प्राभातिकीं स्तुतिं प्रोचुः कलकण्ठैर्मनोरमैः ॥ ३ ॥ विघ्नेश्वरः सकलविघ्नविनाशदक्षो दक्षात्मजा भगवती हि सरस्वती च । दृप्ताष्टभैरवगणा नव दिव्यदुर्गा देव्यः सुरास्तु नृपते तव सुप्रभातम् ॥ ४ ॥ भानुः शशी कुजबुधौ गुरुशुक्रमन्दा राहुः सकेतुरदितिर्दितिरादितेयाः । शक्रादयः कमलभूः पुरुषोत्तमेनोः रुद्रः करोतु सततं तव सुप्रभातम् ॥ ५ ॥ पृथ्वी जलं ज्वलनमारुतपुष्कराणि सप्ताद्रयोऽपि भुवनानि चतुर्दशैव । शैला वनानि सरितः परितः पवित्रा गङ्गादयो विदधतां तव सुप्रभातम् ॥ ६ ॥ दिक्चक्रमेतदखिलं दिगिभा दिगीशा नागाः सुपर्णभुजगा नगवीरुधश्च । पुण्यानि देवसदनानि बिलानि दिव्या- न्यव्याहतं विदधतां तव सुप्रभातम् ॥ ७ ॥ वेदाः षडङ्गसहिताः स्मृतयः पुराणं काव्यं सदागमपथो मुनयोऽपि दिव्याः । व्यासादयः परनकारुणिका ऋषीणां गोत्राणि वै विदधतां तव सुप्रभातम् ॥ ८ ॥ इति बंदिजनैः सूतैः स्तोत्रैर्गीतादिभिः स्तुतः । नानापांक्षसमूहैश्च पूर्वोक्तः पंजरस्थितैः ॥ ९ ॥ स्तुतो वादित्रनिनदैर्नववाद्यस्वनैरपि । सुप्रबुद्धो बभूवाथ रामचन्द्रः ससीतया ॥ १० ॥ आदौ प्रबुद्धा सा सीता पश्चाद्बुद्धो रघूत्तमः । रामः सुरान्मुनींस्तातं मातरं सरयूं गुरुम् ॥ ११ ॥ चिंतामणिं कामधेनुं चिंतयामास चेतसि । ततः सीताऽपि सा दुर्गां गंगां वाणीं रधूत्तमम् ॥ १२ ॥ चिंतयामास कौसल्यां गुरुपत्नीं स्वमातरम् । ततो नत्वा रामचन्द्रं विनयावनता स्थिता ॥ १३ ॥ आवश्यकं तु संपाद्य कृत्वा शौचविधिं क्रमात् । दंतशुद्धिं चकाराथ रामचन्द्रः सविस्तरम् ॥ १४ ॥ आवश्यकं तु संपाद्य कृत्वाशौचविधिं क्रमात् । हुत्वाऽग्निहोत्रविधिना कृत्वा देवार्चनं गृहे ॥ १५ ॥ ददौ दानान्यनेकानि ब्राह्मणेभ्यो यथाक्रमम् । एतस्मिन्नंतरे स्नात्वा सति। देवी प्रपूज्य च ॥ १६ ॥ देवानग्नीन्द्विजान्नत्वा श्वश्रूर्नत्वा यथाक्रमम् । ततो नत्वा रामचन्द्रं तत्पार्श्वे यत्नतः स्थिता ॥ १७ ॥ अथ रामो वसिष्ठस्य मुखात्पौराणिकीं कथाम् । सीतया मातृभिर्युक्तो बंधुभिश्च सुहृज्जनैः ॥ १८ ॥ सम्यक् श्रुत्वैकचित्तेन पूजयामास तं गुरुम् । ततो नत्वा गुरुं रामो गुरुपत्नीं च मातरम् ॥ १९ ॥ सर्वा मातॄश्च विप्रांश्च पंडितान् वैदिकान् मुनीन् । योगनिष्ठांस्तपोनिष्ठान् विप्रान् ज्योतिर्विदस्तथा ॥ २० ॥ मीमांसकांस्तार्किकांश्च मंत्रशास्त्रविशारदान् । धर्मशास्त्रविदश्चैव वंद्यानन्यान् वयोधिकान् ॥ २१ ॥ पूजयामास श्रीरामः मीतया प्रणनाम तान् । अथ सीता हेमपात्रे पूजोपकरणानि सा ॥ २२ ॥ गृहीत्वा स्वसखीभिश्च नत्वा सुरभिमर्चयत् । नानोपचारैः सम्पूज्य पकान्नैनवनिर्मितैः ॥ २३ ॥ विचित्रैः पायसाद्यैश्च सा तां धेनुमतोषयत् । ततः प्रदक्षिणां कृत्वा प्रार्थयामास जानकी ॥ २४ ॥ कामधेनो नमस्तुभ्यं पक्वान्नादीनि वेगतः । दिव्यान्नानि भूसुरेभ्यो रामादिभ्यस्त्वमर्पय ॥ २५ ॥ इति सा प्रार्थनां कृत्वा कामधेनोस्तु जानकी । तदधो रुक्मपात्राणि स्थापयामास कोटिशः ॥ २६ ॥ दिव्यान्नैः परिपूर्णानि चकार सुरभिस्त्वपि । ततः शीघ्रं हेमपात्रैर्गृह्यान्नानि पृथग्जवात् ॥ परिवेषणार्थं सन्तुष्टा ययौ नूपुरगर्जिता ॥ २७ ॥ एतस्मिन्नन्तरे रामश्चोपाहारार्थमादरात् । विप्रानिष्टान्मन्त्रिणश्च समाहूय सहस्रशः ॥ २८ ॥ उपाविशद्भोजनस्य शालायां तैः समन्वितः । रुक्मपीठे तु सर्वे ते नेमिरेणोपमाः स्थिताः ॥ २९ ॥ पीतकौशेयवस्त्राद्यैर्भूषिता रुक्ममण्डनैः । पूजिता राघवेणापि गन्धमाल्यादिभिर्मुदा ॥ ३० ॥ स्त्रीभी रुक्मत्रिपदासु रुक्मपात्राणि च पृथक् । रंगावलीविचित्रायां भूमौ न्यस्तानि तत्पुरः ॥ ३१ ॥ हेमोद्भवानि पानीयपात्राण्यपि पृथक् पृथक् । सोमपात्राणि चित्राणि रत्नदीपयुतानि च ॥ ३२ ॥ स्थापयामासुः श्रीरामबन्धुपत्न्यस्त्वरान्विताः । एतस्मिन्नन्तरे सर्वैः श्रुतो मंजुलनिःस्वनः ॥ ३३ ॥ नूपुराणां किंकिणीनां कंकणानां मनोरमः । रत्नमौक्तिकमालानां घर्षणादुत्थितो महान् ॥ ३४ ॥ तं मजुलस्वनं श्रुत्वा कस्यायं श्रूयते स्वनः । इति संदिग्धचित्तास्ते व्यग्रनेत्रैरितस्ततः ॥ ३५ ॥ अपश्यन् ब्राह्मणाद्याश्च तावत्सीतां व्यलोकयन् । तडित्पुंजोपमां दिव्यां शतकोटिरविप्रभाम् ॥ ३६ ॥ यस्यांगुलिषु सर्वत्र पादयोर्विविधानि च । मत्स्यकच्छपनक्रादिचिह्नितान्युज्ज्वलानि च ॥ ३७ ॥ ददृशू रत्नचित्राणि हैमान्याभरणानि ते । तत ऊर्ध्वं किंकिणीनां पादयोर्नूपुराणि च ॥ ३८ ॥ शृंखला विविधा रम्यास्तथा गुर्जरदेशजाः । नानानूपुरभेदाश्च कंकणान्युज्ज्वलानि च ॥ ३९ ॥ रत्नकंकणगर्भाणि दिव्यरुक्कोद्भवानि च । मदृशुस्ते हि सीताया माणिक्यचित्रितानि च ॥ ४० ॥ तस्याः कट्यां ददृशुस्ते पीतकौशेयमुज्ज्वलम् । मुक्ताजालरुक्मतंतुपुष्पराजिविराजितम् ॥ ४१ ॥ नवीनं गतिचांचल्यात्कृतमंजुलनिःस्वनम् । आदर्शबिंबसंयुक्तं सुगन्धामोदमोदितम् ॥ ४२ ॥ वस्त्रोपरि ददृशुस्ते रशनां रुक्मतन्तुजाम् । रत्नकङ्कणगर्भामिः किंकिणीभिर्विराजिताम् ॥ ४३ ॥ केकिसिंहवृषव्याघ्रमृगचित्रविचित्रिताम् । पीतरक्तहरिन्नीलकृष्णमाणिक्यमण्डिताम् ॥ ४४ ॥ तत ऊर्ध्वं ददृशुस्ते पदकान्युज्ज्वलानि हि । रंभाफलोपमान्येव हैमान्याभरणानि च ॥ ४५ ॥ सकांचनशृंखलानि काचद्रवयुतानि च । नानारत्नविचित्राणि मुकुरैमंडितान्यपि ॥ ४६ ॥ नानामाणिक्ययुक्तानि दीप्तिमन्त्युज्ज्वलानिहि । ततो ददृशुस्ते दिव्यान् रुक्महारान् विचित्रितान् ॥ ४७ ॥ नवरत्नयुतान् हारान् मुक्ताहारांश्च शृंखलाः । मूर्तिमाला रुक्मजाश्च यवमाला विचित्रिताः । ४८ ॥ पुष्पमालाः कांचनजाः सारिका रत्नमण्डिताः । रुक्मगुंजान्विता माला हेमधात्रिफलाविताः ॥ ४९ ॥ प्रवालमणिमुक्तासम्मिश्रिताश्चित्रचित्रिताः । चंपसूक्ष्मकलिकया सदृशा हेममालिकाः ॥ ५० ॥ कंठे मंगलसूत्रं च पेटिका रत्नभूषिता । कांचनानां सुसूक्ष्माणां मणीनां विविधानि च ॥ ५१ ॥ गुच्छैः कण्ठभूषणानि मुक्तागुच्छयुतान्यपि । ददृशुस्ते हि सीतायाः कण्ठे हैमान्यनेकशः ॥ ५२ ॥ रशनासदृशान्येव ग्रीवायां भूषणान्यपि । प्रवालमणिमाणिक्यरचितान्युज्ज्वलानि च ॥ ५३ ॥ मुक्तागुच्छान् काचगुच्छान् मणिगुच्छैविचित्रितान् । प्रवालमणिगुच्छांश्च रत्नपुष्पविगुंफितान् ॥ ५४ ॥ ततो ददृशुस्ते सर्वे मैथिलीकुचकंचुकीम् । हेमतन्तुभवां चित्रां मुक्तामाणिक्यगुंफिताम् ॥ ५५ ॥ आदर्शबिंबसंयुक्तां पुष्पराजिविराजिताम् । मयूरशुकवृक्षैश्च लवंगैस्तन्तुनिर्मितैः ॥ ५६ ॥ चित्रितां श्रमघर्मेणार्द्रां संलग्नां दृढं तनौ । ततो ददृशुर्भुजयोः केयूरे रत्नमंडिते ॥ ५७ ॥ वज्रकंकणसादृश्ये हेममाणिक्यनिर्मिते । रत्नचित्रविचित्राश्च भुजयोः पेटिकाः शुभाः ॥ ५८ ॥ हेमतन्तुभवैर्ंबमानगुच्छैः सुमण्डिताः । प्रवालमणिमुक्तानां नानागुच्छैर्युता अपि ॥ ५९ ॥ तदधः करयोः सर्वे ददृशुर्भषूणानि ते । रत्नमाणिक्यमुक्ताभिश्चित्रितौ हेमसम्भवौ ॥ ६० ॥ करचूडौ दीप्तिमंतौ हेमपुष्पादिचित्रितौ । काचकंकणमध्यस्थौ चन्द्रसूर्योपमौ त्विषा ॥ ६१ ॥ तदूर्ध्वाधः कंकणानि हेमजानि घनानि च । रत्नमाणिक्यमुक्ताभिश्चित्रितान्युज्ज्वलानि च ॥ ६२ ॥ प्रवालमणिमुक्तानां करहारादिचित्रितान् । करयोः सारिके दिव्ये ह्यूर्ध्वाधो रत्नमण्डिते ॥ ६३ ॥ तदूर्ध्वं कंकणान्येव पुष्पवल्ल्यंकितानि हि । दंतराज्युपमादीनि रत्नहेमोद्भवानि च ॥ ६४ ॥ अंगुलीषु ददृशुस्ते मुद्रिका रुक्मनिर्मिताः । रत्नमाणिक्यण्क्ताभिर्नीलमारकतैरपि ॥ ६५ ॥ प्रवालचन्द्रकांतैश्च सूर्यकांतैर्विचित्रिताः । नानापुष्पोपमा दिव्याः प्रतिपर्वसमाश्रिताः ॥ ६६ ॥ ततो ददृशुः सीताया रम्यं घ्राणेऽतिसोज्ज्वलम् । दिव्यं मयूरं चित्रं च वररुक्मविनिर्मितम् ॥ ६७ ॥ मणिमाणिक्यमुक्ताभिर्वररत्नैः सुमण्डितम् । लंबितैर्मौक्तिकादीनां वरगुच्छैः सुवेष्टितम् ॥ ६८ ॥ ततो ददृशुः सीतायाः कर्णयोर्भूषणानि ते । मकरध्वजसादृश्ये ताटके रत्नचित्रिते ॥ ६९ ॥ मणिमाणिक्यमुक्ताभिर्गुम्फिते सोज्ज्वले वरे । रत्नपुष्पादिभिश्चित्रैश्चित्रिते रविभास्वरे ॥ ७० ॥ ततो भ्रमरिके दिव्ये रुक्मरत्नविचित्रिते । मुक्ताभिर्गुम्फिते रम्ये हेमपुष्पाणि वै तथा ॥ ७१ ॥ कर्णयोः शृंखलाश्चित्रा ददृशू रुक्मनिर्मिताः । मुक्तागुच्छैर्गुम्फिताश्चरत्नमाणिक्यमण्डिताः ॥ ७२ ॥ आकर्णाभ्यां च सीमन्तपर्यन्तं भालपार्श्वयोः । हारवद्रुक्मजालानि माणिक्यसहितानि हि ॥ ७३ ॥ मुक्तागुच्छैर्गुम्फितानि वैदूर्यचित्रितान्यपि । ततस्तदूर्ध्वं सीताया ददृशुः शिरसि द्विजाः ॥ ७४ ॥ सीमन्तस्योत्तरे याम्ये केशेषु शशिभास्करौ । रुक्मजौ रत्नवैदूर्यमणिमुक्ताविचित्रितौ ॥ ७५ ॥ नीलकाश्मीरकांतैश्च विद्रमैरतिशोभितौ । चन्द्रसूर्याविव स्वीयभासा दीपयतो दिशः ॥ ७६ ॥ निटिले तिलकं रत्नमणिमुक्ताविराजितम् । हैमं दिव्यमुज्ज्वलं च कोटिसूर्यसमप्रभम् ॥ ७७ ॥ ततो ददृशुः सीमंत मुक्ताहारैर्महोज्ज्वलम् । नानारत्नविचित्रं च सर्वोणेतिलकावधि ॥ ७८ ॥ चूडामणिं च ददृशुस्ते जनकेन समर्पितम् । नानारत्नविचित्रं च मुक्तागुच्छविराजितम् ॥ ७९ ॥ ततो ददृशुः शिरसि मुक्ताजालानि भूसुराः । हेमन्ततन्तुगुंफितानि रत्नपुष्पयुतान्यपि ॥ ८० ॥ मणिवैदूर्यकाश्मीरविद्रुमैश्चित्रितानि हि । तदूर्ध्वं पुष्पजालानि सुगंधीनि व्यलोकयन् ॥ ८१ ॥ ततो वेण्यां भूषणानि ददृशुस्ते वराणि हि । नानापक्ष्युपमान्येव माणिक्यचित्रितानि हि ॥ ८२ ॥ पल्लवांतरवर्तीन्यतिदीप्त्युज्ज्वलानि च । हेमतन्तुमयान् गुच्छान् मुक्ताहारविमिश्रितान् ॥ ८३ ॥ लम्बमानान् ददृशुस्ते मणिमाणिक्यसंयुतान् । वेण्यग्रेसंस्थितान् रम्यान् पुष्पापाडसमन्वितान् ॥ ८४ ॥ एवं सीतां ददृशुस्ते श्रमन्यस्तविभूषणाम् । सर्वालङ्काररहितां तां द्रष्टुं कोऽपि न क्षमः ॥ ८५ ॥ दिव्यालंकाररत्नानां प्रभया हतलोचनाः । वामहस्तेन पात्रं च दर्वी दक्षिणसत्करे ॥ ८६ ॥ दधानां पद्मचरणां रत्नोत्पलकरां वराम् । पद्मास्यां पद्मपत्राक्षी पद्मगर्भस्वरूपिणीम् ॥ ८७ ॥ दिव्यकर्पूरगंधैश्च चन्दनैरपि चर्चिताम् । स्फुरन्मंजीरचरणां दिव्यकंकणमण्डिताम् ॥ ८८ ॥ स्वपदालक्तवर्णेन गतिं दर्शयतीं निजाम् । रत्नांगदधरां सीतां ददृशुस्ते द्विजादयः ॥ ८९ ॥ गर्जेद्रगमनां रम्यां दिव्यपुष्पैः सुशोभिताम् । दिव्यमंदारकुसुममालाभिश्च सुशोभिताम् ॥ ९० ॥ कस्तूरीकृततिलकां कुंकुमेन सुशोभिताम् । हरिद्रया कज्जलाद्यैर्मण्डितां च स्मिताननाम् ॥ ९१ ॥ इति दृष्ट्वा जानकीं तेऽभूवन् चित्रोपमास्तदा । आत्मानं न विदुः सर्वे सीतासौंदर्यविस्मिताः ॥ ९२ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये विलासकांडे सीतालंकारवर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |