॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विलासकाण्डम्

॥ तृतीयः सर्गः ॥
[ देहरामायणम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथ सा जानकी रामं विनयाल्लञ्जिताऽब्रवीत् ।
राम राजीवपत्रास किंचित्प्रष्टुं मम प्रभो ॥ १ ॥
वांछाऽस्ति चेत्करोष्याज्ञां तर्हिपृच्छाम्यहं तव ।
तत्सीतावचनं श्रूत्वा राघवः प्राह जानकीम् ॥ २ ॥
पृच्छस्व सीते यत्तेऽस्ति प्रष्टव्य मां सुखेन तत् ।
मा शंकां भज रम्भोरु गुह्यं चापि वदामि ते ॥ ३ ॥
तद्‍रामवचनं श्रुत्वा नत्वा तं प्राह जानकी ।
राम राम महाबाहो किंचिदुपदिशस्व माम् ॥ ४ ॥
येन मां तव संज्ञानं भवेच्चैव महोज्ज्वलम् ।
तत्सीतावचनं श्रुत्वा रामचन्द्रोऽब्रवीद्वचः ॥ ५ ॥
सम्यक पृष्टं त्वया सीते शृणुष्वैकाग्रमानसा ।
मम ज्ञानाय ते वच्मि परं कौतूहलं शुभम् ॥ ६ ॥
श्रीरामचन्द्र उवाच
सच्चिदानन्दरूपाख्यसागरस्य तदिच्छया ।
तरंगरूपयाऽऽत्मांशबिंदुः शुद्धो विनिर्गतः ॥ ७ ॥
आत्मनामा मातृभूतबुद्धेर्जठरसंभवः ।
शुद्धसत्त्वांतःकरणं पिता चात्मन ईरितः ॥ ८ ॥
तस्यात्मनश्च चत्वारो भेदास्ते बंधवः स्मृताः ।
तूर्यावस्थस्तत्र वरस्ततो जाग्रदवस्थकः ॥ ९ ॥
स्वप्नावस्थस्तृतीयश्चावरः सुषुप्त्यवस्थकः ।
हृदयाकाशस्तत्स्थानं मनोवेगो बहिर्गमः ॥ १० ॥
मनोदुर्वृत्तिघातश्च मनोवेगस्य खंडनम् ।
मायायोगस्ततस्तस्य पूर्वसंस्कारनिग्रहः ॥ ११ ॥
ततः कुबुद्धिहेतोर्हि भवारण्येऽटनं चिरम् ।
दंभस्य निग्रहस्तत्र पंचभूतात्मिका स्थिरा ॥ १२ ॥
आत्मनः पर्णकुटिका विश्रान्तिस्थानमीरिता ।
कामक्रोधलोभजयस्तत्राशाकृन्तनं स्मृतम् ॥ १३ ॥
मोहस्य निग्रहस्तत्र शुद्धमायाश्रयस्ततः ।
रजोरूपा तु या माया जठराग्नी तदा स्मृता ॥ १४ ॥
तामस्याश्चैव मायाया वियोगश्च तदा स्मृतः ।
सुखालाभो महान्क्लेशः शोकभंगस्ततः परम् ॥ १५ ॥
विवेकस्याश्रयस्तत्र भक्त्युद्रेकसमागमः ।
अविवेकवधश्चापि ह्युत्साहेन समागमः ॥ १६ ॥
अज्ञानतरणोपायस्त्रिगुणाश्रयसद्मनि ।
लिंगाख्यनिग्रहस्तत्र मदस्य संप्रकीर्तितः ॥ १७ ॥
निग्रहो मत्सरस्यापि ततोऽहंकारनिग्रहः ।
वियोगो लिंगदेहस्य मायानामैक्यता ततः ॥ १८ ॥
हृदयाकाशगमनमानंदैकसुखं ततः ।
मायात्यागस्ततश्चैव सात्त्विक्या ग्रहणं स्मृतम् ॥ १९ ॥
सात्त्विक्या मायया सार्धं हृदयाकाशमुत्तमम् ।
महाकाशे प्रणयनं सच्चिदानन्दसंज्ञके ॥ २० ॥
प्रवेशनं सागरे हि मुक्तिज्ञेयाऽऽत्मनः शुभा ।
सायुज्या सा परिज्ञेया भुक्तिर्मुक्तिचतुष्टये ॥ २१ ॥
एवं मयेयं ते प्रीत्या सीते संज्ञानपेटिका ।
वेदसारैर्गूढार्थैरज्ञानमतिनाशकैः ॥ २२ ॥
मज्ज्ञानदैः पचदशश्लोकरत्नैः प्रपूरिता ।
समर्पिता गृहाण त्वमस्यां बुद्ध्याऽवलोकय ॥ २३ ॥
भविष्यति मम ज्ञानमस्याः सम्यग्विचारतः ।
तद्‌रामवचनं श्रुत्वा सीता संज्ञानपेटिकाम् ॥ २४ ॥
निजहृन्मन्दिरे स्थाप्य बुद्धिदृष्ट्या मुहुर्मुहुः ।
सम्यगुद्धाट्य तुष्णीं सा मुहूर्तमवलोकयत् ॥ २५ ॥
तदा ज्ञात्वाथ सकलां निजक्रीडां विदेहजा ।
विहस्य रघुवीरस्य सा ननामांघ्रिपंकजे ॥ २६ ॥
आनंदनिर्भरा जाता सानंदाश्रुसमन्विता ।
आनदोत्फुल्लरोमाञ्चा तूष्णीमासीत्तदा क्षणम् ॥ २७ ॥
आनन्दनिर्भरां सीतां दृष्ट्‍वा तां राघवोऽब्रवीत् ।
पेटिकायां त्वया सीते किं दृष्टं तोषकारकम् ॥ २८ ॥
कच्चिद्‍गतं तवाज्ञानं कच्चिल्लब्धं मम त्वया ।
संज्ञानं वद मां सीते यथा ज्ञातं त्वया हृदि ॥ २९ ॥
ज्ञातं त्वया वा न ज्ञातं वेत्तुमिच्छामि त्वन्मुखात् ।
यदि किंचित्त्वया नास्यां ज्ञातं तद्बोधयाम्यहम् ॥ ३० ॥
इति रामवचः श्रुत्वा निमग्नाऽऽनन्दसागरे ।
मंचकस्था रामचन्द्रं जानकी वाक्यमब्रवीत् ॥ ३१ ॥
श्रीसीतोवाच
राम रावणदर्पघ्न त्वद्दत्ता ज्ञानपेटिका ।
मयाऽवलोकिता बुद्ध्या लब्धं ज्ञानं तव प्रभो ॥ ३२ ॥
निर्गुणो निर्विकारस्त्वं क्रीडेयं सकला त्वया ।
मत्संगाद्दर्शिता भूम्यां कृत्वा लोकहिताय हि ॥ ३३ ॥
पेटिकायां यथा ज्ञातं मयो तत्प्रवदामि ते ।
त्वया पंचदशश्लोकैर्युक्त गुह्यमुत्तमम् ॥ ३४ ॥
प्रकटं तत्करोम्यद्य तवाग्रे रघुनन्दन ।
सर्वेषां मन्दबुद्धीनां हिताय ज्ञानसिद्धये ॥ ३५ ॥
जनानां सम्बोधयितुं चरित्रं भवताऽत्र यत् ।
कृतं तस्य विचारेण ह्यात्मज्ञानं लभेन्नरः ॥ ३६ ॥
सच्चिदानंदरूपी यो विष्णुर्ज्ञेयः स सागरः ।
भूभारहरणादीच्छा विष्णोर्या जायते शुभा ॥ ३७ ॥
स व ज्ञेयस्तरंगोऽत्र तथात्मांशलवः शुभः ।
बहिःकृतः सागरात्स आत्माख्यः कथ्यते भुवि ॥ ३८ ॥
वृद्धिस्तु जननी चैव कौसल्या साऽत्र कथ्यते ।
शुद्धसत्वांतःकरणं पिता तस्यात्मनः स्मृतः ॥ ३९ ॥
राजा दशरथो ज्ञेयः श्रीमान्सत्यपराक्रमः ।
तस्यात्मनश्च चत्वारो भेदास्ते बन्धवः स्मृताः ॥ ४० ॥
रामसौमित्रिभरतशत्रुघ्ना एव चात्र हि ।
तुर्यावस्थस्तेषु वरः स त्वं दशरथात्मजः ॥ ४१ ॥
ततो जाग्रदवस्थश्च लक्ष्मणः सोऽत्र कथ्यते ।
स्वप्नावस्थस्तृतीयश्च भरतोऽपि निगद्यते ॥ ४२ ॥
अवरः सुषुप्त्यवस्थस्तु ज्ञेयः शत्रुघ्न एव सः ।
हृदयाकाशं तत्स्थानमयोध्याऽत्र स्मृता तु सा ॥ ४३ ॥
मनोवेगो बहिर्यात्रा विश्वामित्राध्वरे गमः ।
मनोदुर्वृत्तिघातश्च ताटिकाया वधोऽत्र सः ॥ ४४ ॥
मनोवेगस्य यो भंगः स धनुर्भंग उच्यते ।
मायायोगस्ततस्तस्य मत्पाणिग्रहणं स्मृतम् ॥ ४५ ॥
पूर्वसंस्कारनिग्रहो जामदग्नेर्विनिग्रहः ।
ततः कुबुद्धिहेतोर्हि कैकेय्या वरदानतः ॥ ४६ ॥
भवारण्येऽटनं प्रोक्तमटनं दंडकेऽत्र ते ।
दंभस्य निग्रहस्तत्र विराधस्यात्र निग्रहः ॥ ४७ ॥
आत्मनः पर्णकुटिका पंचभूतात्मकश्च सः ।
देहोऽयं पंचवटिका विश्रांत्यर्थ तवात्र सा ॥ ४८ ॥
कामस्य निग्रहः प्रोक्तः खरस्यात्र विनिग्रहः ।
क्रोधस्य निग्रहश्चापि दूषणस्यात्र निग्रहः ॥ ४९ ॥
लोभस्य मर्दनं तत्र त्रिशिरानिग्रहोऽत्र हि ।
तत्राशाकृंतनं प्रोक्तं बाणेनात्र विरूपणम् ॥ ५० ॥
तस्याः सूर्पणखायाश्च मोहस्य निग्रहः स्मृतः ।
मृगमारीचघातोऽत्र शुद्धमायाश्रयस्ततः ॥ ५१ ॥
ममाश्रयस्ते वामांगे सात्त्विक्या दंडके वने ।
रजोरूपा तु या माया जठराग्नौ स्मृता शुभा ॥ ५२ ॥
मम रजःस्वरूपायाः प्रवेशश्चानलेऽत्र सः ।
तामस्याश्चैव मायाया वियोगश्च तदा स्मृतः ॥ ५३ ॥
मम तमःस्वरूपाया हरणं रावणेन हि ।
सुखालाभो महान् क्लेशस्त्वत्तो मद्विरहस्ततः ॥ ५४ ॥
शोकवेगस्ततः प्रोक्तः कबंधस्य वधोऽत्र सः ।
विवेकस्याश्रयस्तत्र सुग्रीवस्याश्रयोऽत्र सः ॥ ५५ ॥
भक्त्युद्रेकलाभश्च तव लाभो हनूमतः ।
अविवेकवधः प्रोक्तश्चात्र वालिवधस्तथा ॥ ५६ ॥
उत्साहेन ततः संगः सा विभीषणमैत्रिकी ।
अज्ञानतरणोपायः सेतुबंधो महोदधौ ॥ ५७ ॥
त्रिगुणाश्रयगेहं वै लिंगदेहाह्वये शमे ।
त्रिकूटाचलसंस्थायां लंकायां रघुनन्दन ॥ ५८ ॥
मदस्य निग्रहस्तत्र कुंभकर्णवधस्त्वया ।
निग्रहो मत्सरस्यापि मेघनादवधोऽत्र सः ॥ ५९ ॥
तत्राहंकारघातश्च रावणस्य वधस्त्वया ।
मायानामैक्यता चापि त्रिविधा या ममैक्यता ॥ ६० ॥
वियोगो लिंगदेहस्य लंकात्यागस्त्वयाऽत्र सः ।
हदयाकाशगमगनमयोध्यागमनं पुनः ॥ ६१ ॥
आनंदैकसुखं तत्र राज्यभोगस्त्वया सोऽत्र हि ।
मायात्यागस्ततश्चैव वाल्मीकेराश्रमे मम ॥ ६२ ॥
त्यागोऽग्र भावि श्रीराम त्वया सोऽत्रप्रकाशितः ।
सात्त्विक्या ग्रहणं यच्च पुनर्मे ग्रहणं स्मृतम् ॥ ६३ ॥
सात्त्विक्या मायया सार्द्ध तवोद्योगो मया सह ।
ततश्च हृदयाकाशं महाकाशे विलापयेत् ॥ ६४ ॥
अयोध्यानगरीमग्ने वैकुण्ठं प्रति नेष्यसि ।
प्रवेशनं सागरे हि सच्चिदानन्दसंज्ञके ॥ ६५ ॥
नररूपं परित्यज्य विष्णुरूपप्रदर्शनम् ।
नृणां त्वया सैव मुक्तिः सायुज्यात्मन ईरिता ॥ ६६ ॥
एवं यद्यत्त्वया राम कृतं कर्म शुभाशुभम् ।
तत्सर्वं जनबोधाय सर्वेषां च हिताय हि ॥ ६७ ॥
कर्तव्यमप्यकर्तव्यं कर्मातीतस्य किं तव ।
गिर्गुणस्यात्मरूपस्य सच्चिदानन्दरूपिणः ॥ ६८ ॥
इत्थं त्वयोपदिष्टा मे शुभा संज्ञानपेटिका ।
अहं तस्या विचारेण जीवन्मुक्ता न संशयः ॥ ६९ ॥
देहे रामायणं सर्वं यत्त्वया मम दर्शितम् ।
पञ्चदशश्लोकरत्नैः कण्ठे तद्धारवत्कृतम् ॥ ७० ॥
श्लोकरत्नमयं यो वै कण्ठे हारं बिभर्ति हि ।
जीवन्मुक्तः क्षणादेव भविष्यति नरोत्तमः ॥ ७१ ॥
देहराभायणं नाम राम यत्कथितं त्वया ।
नेदृशं कथितं केन न कोऽप्यग्रे वदिष्यति ॥ ७२ ॥
मम प्रीत्योपदिष्टं हि त्वयैतद्‍रघुनन्दन ।
इत्थं कोऽपि न जानाति ब्रह्मादीनामगोचरम् ॥ ७३ ॥
गुह्यं रम्यं सुदुर्वोधं स्वल्पं ज्ञानप्रकाशितम् ।
देहरामायणं चैतच्छ्रवणात्पातकापहम् ॥ ७४ ॥
इति सीतावचः श्रुत्वा प्रहस्य राघवोऽब्रवीत् ।
विदेहतनये साध्वि धन्याऽसि गजगामिनि ॥ ७५ ॥
सम्यग्विचारिता बुद्ध्या त्वया सज्ञानपेटिका ।
किंचिन्न्यूनं तया नैव दृष्टमस्यां यथास्थितम् ॥ ७६ ॥
बुद्ध्या ज्ञानं मम ज्ञानं मोहजालनिकृंतनम् ।
कथनीयमिदं देहरामायण न कस्यचित् ॥ ७७ ॥
एतद्गुह्यतमं प्रोक्तं तव प्रीत्या विदेहजे ।
दांभिकाय न दातव्यं नास्तिकाय शठाय च ॥ ७८ ॥
अभक्ताय द्विजद्वेष्टे परदाररताय च ।
मलिनायातिक्रूराय निंदकाय जडाय च ॥ ७९ ॥
कलौ चैतत्तु वै गुह्यं भविष्यति न संशयः ।
सहस्रेषु नरः कश्चिज्ज्ञास्यत्येतन्न संशयः ॥ ८० ॥
सर्ववेदातसारं हि मया ते समुदीरितम् ।
देहरामायणं चैतद्भुक्तिमुक्तिप्रदं वरम् ॥ ८१ ॥
इत्युक्त्वा राघवः सीतां पर्यंके रत्नमण्डिते ।
सुष्वाप सीतया रात्रौ दासीभिर्वीजितः सुतम् ॥ ८२ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे
वाल्मीकीये विलासकाण्डे देहरामायणं नाम तृतीयः सर्गः ॥ ३ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP