॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विलासकाण्डम्
॥ द्वितीयः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
विष्णुदास उवाच गुरो ते प्रष्टुमिच्छामि तत्त्वं मां वक्तुमर्हमि । अयोध्यायां राघवेण सीतयाऽतिसुरूपया ॥ १ ॥ कथं भुक्ता वरा भोगाः किं किमाचरितं शुभम् । चरितं तस्य सकलं वद मंगलदायकम् ॥ २ ॥ श्रीरामदास उवाच सम्यक् पृष्टं त्वया वत्स सावधानमनाः शृणु । रणदीक्षां वाजिमेधदीक्षां च रघुनन्दनः ॥ ३ ॥ निर्वाप्य सीतयारेमेऽयोध्यायां बंधुभिः सुखम् । जानकीं रंजयाभास नानाभोगैर्मनोहरैः ॥ ४ ॥ तत्किंचिच्छृणु मांगल्यं विलासचरितं शुभम् । सीतया कोसलेंद्रस्य श्रवणान्मङ्गलप्रदम् ॥ ५ ॥ कः कृत्स्नं चरितं वक्तुं तयोः क्रीडान्वितं क्षमः । अतः संक्षेपतः किंचिद्वक्ष्यामि तव सन्निधौ ॥ ६ ॥ अथ सीतायुतो रामः पार्वत्या शंकरो यथा । क्रीडां चकार कैलासेऽयोध्यायां स तथाऽकरोत् ॥ ७ ॥ हेमरत्नमये दिव्यगेहे वैकुण्ठसन्निभे । निद्रास्थानं राघवस्य मनोज्ञं शशिसन्निभम् ॥ ८ ॥ भित्तौ रत्नोपला यत्र हेम्नः पंकोऽस्ति यत्र हि । यत्र स्तभाः स्फाटिकाश्च यत्र मारकतोद्भवाः ॥ ९ ॥ प्रतोल्यः शतशो रम्याः शेषं नीलादिभिश्चितम् । मुकुरैरुज्ज्वला यत्र भित्तयश्चित्रचित्रिताः ॥ १० ॥ यत्र हेममयी भूमिर्यत्र मुक्तामयं शुभम् । वितानं पुष्पहारैश्च मुक्तागुच्छैर्विराजितम ॥ ११ ॥ हेमतंतुमयान्यत्र भित्तिवस्त्राण्यनेकशः । यत्रायुतमनुष्यैश्च संमर्दो नैव जायतै ॥ १२ ॥ एवं तद्विस्तृतं रम्यं रत्नदीपैर्विराजितम् । हेमकुम्भा विराजन्ते प्रासादाग्रेषु चित्रिताः ॥ १३ ॥ यत्र चित्राण्यनेकानि मोहयन्ति मृगीदृशाम् । यत्र हेममया रम्याः पर्यंकाश्चित्रचित्रिताः ॥ १४ ॥ हेमकौशेयसंभूततंतुपट्टैविगुंफिताः । महार्हवसनैः पुष्पजालैराच्छादिताः शुभाः ॥ १५ ॥ चतुष्कोणे लंबमानमुक्ताघोषैर्विराजिताः । येषु दिव्याः कशिपवस्तथोपबर्हणानि च ॥ १६ ॥ केकिपक्षमयान्येषु चामराणि महांति च । गोपुच्छबालखर्जूरीसंभवादीनि संति हि ॥ १७ ॥ चतुष्कोणेषु सर्वेषां मंचकानां महोज्ज्वलाः । रत्नदीपाः प्रकाशंते सदैवाग्निशिखोपमाः ॥ १८ ॥ उशीरव्यजनादीनि चामरादीनि संति हि । यत्र ताम्बूलपात्राणि हेमरत्नोद्भवानि च ॥ १९ ॥ तथा निष्ठीवनार्थं हि पात्राणि राजतानि च । यत्र रंभोपमा दास्यः शतशो रत्नभूषिताः ॥ २० ॥ चामरैर्वीजयंत्यश्च सीतारामावहर्निशम् । यत्र हेममयाश्चित्रा बद्धास्ते पंजराः शुभाः ॥ २१ ॥ ये यागे नृपपत्नीभिः श्रीसीतायाः समर्पिताः । येषु वै केकिनो हंसाः सारसाः सारिकाः शुकाः ॥ २२ ॥ लावकाः कोकिलाद्याश्च नाना येऽस्य पतत्रिणः । नानाशब्दान्प्रकुर्वन्तः शतशस्तेषु संस्थिताः ॥ २३ ॥ तेषां शब्दस्य शिष्य त्वां किं प्राकट्यं वदाम्यहम् । ये रामस्मरणेनैव जीवन्मुक्ता न संशयः ॥ २४ ॥ पक्षिण ऊचुः जयतु राघवो जानकीयुतो जयत्वखिलराजराजकेश्वरः । दशरथात्मजो लक्ष्मणाग्रजो जयतु मापतिस्ताटिकांतकः ॥ २५ ॥ जयतु कौशिकस्याध्वरं गतो जयतु रक्षसां मारको महान् । जयतु गौतमाहल्यया स्तुतो जयतु जानकीतातमानितः ॥ २६ ॥ जयतु नः पतिश्चापखंडनो जनकजावरोन्मुक्तमालया । नृपसभांगणे कौशिकानुगः परमशोभितश्चातिहर्षितः ॥ २७ ॥ जयतु भूमिजांघ्रयोस्तदा मुदा निजकरोत्पले स्थाप्य राघवः । कमलहस्तकेनाकरोन्नतिं स रघुनन्दनः पातु नः सुखम् ॥ २८ ॥ जयतु भूमिजालिंगितो महान् जनमनोहरश्चातिशोभनः । परशुरामदं घृत्य वै धनुर्निजपितुस्तदाऽदर्शयद् बलम् ॥ २९ ॥ जयतु सीतया भोगकृच्चिरं जयतु कैकयीप्रेरितो वनम् । जयतु पर्वते वासकृच्चिरं जयति योऽत्रिणा पूजितो वने ॥ ३० ॥ जयतु स विराधस्य धातकृञ्जयतु दूषणादिप्रमर्दनः । जयतु यो मृगं मोचयद्भवाञ्जयतु यः कबंधं क्षणाज्जहौ ॥ ३१ ॥ जयतु वालिहा सेतुकारको जयतु रावणादिमर्दकः । जयतु स्वं पदं प्राप सीतया मंगलस्नानकृन्मुदा ॥ ३२ ॥ जयतु वाक्यतो भूसुरस्य यः सकलभूतलं पर्यटन् चिरम् । जयतु यागकृल्लोकशिक्षया जयतु जानकीं रंजयन् स्थितः ॥ ३३ ॥ श्रीरामदास उवाच रघुवरस्य यत्पक्षिभिः कुतं नवकमुत्तमं यः पठिष्यति । तपननिर्गमे भक्तितत्परो निजमनोऽर्थितं संगमिष्यति ॥ ३४ ॥ एतादृशे रम्यगेहे मया शिष्य प्रवर्णिते । सीतया स सुखं रेमे चैकपत्नीव्रतस्थितः ॥ ३५ ॥ अथ सा जानकी देवी रंजयामास राघवम् । स्थितं मंचकवर्ये तं निजक्रीडादिकौतुकैः ॥ ३६ ॥ मंचकस्थश्च श्रीरामस्त्वेकदा सुखनिर्भरः । सीतासौंदर्यमालोक्य वर्णयामास तां मुदा ॥ ३७ ॥ हे सीते कंजनयने ब्रह्मणा त्वं कथं चिता । जानाम्यहं वितर्केण तेन त्वं निर्मिताऽसि न ॥ ३८ ॥ त्वद्रूपसदृशीं नान्यां पश्यामि जगतीतले । प्रतिपच्चंद्रकलया स्पर्धयंति नखानि ते ॥ ३९ ॥ नखमध्या रक्तवर्णाः शुभा दाडिमबीजवत् । अंगुष्ठौ वर्तुलौ रम्यौ शिश्वंगुष्ठोपमौ तव ॥ ४० ॥ मृदुले ते पादतले कंजपत्रांतरोपमे । समे रेखाध्वजयुते स्वस्तिकादिसुचिह्निते ॥ ४१ ॥ सीते तेंघ्र्यूर्ध्वभागौ तौ निर्लोमौ मांसलौ शुभौ । अशिरौ मृदुलौ पीतौ नृपस्त्रीवंदनोचितौ ॥ ४२ ॥ पादमूले दघिजेन स्पर्द्धेते रक्तवर्तुले । पादपृष्ठे समे पीने कोमले लोमवर्जिते ॥ ४३ ॥ तव गुल्फौ रक्तवर्णौ वर्तुलौ मांसलौ शुभा । जंघे गोपुच्छसदृशे वर्तुले मांसले शुभे ॥ ४४ ॥ निर्लोमे मृदुले पीने ह्यशिरे सरले वरे । वर्तुलौ ते महाजानू मांसलौ बीजपूरवत् ॥ ४५ ॥ रंभास्तंभोपमे चोरू मांसलौ त्वतिकोमलौ । पीनौ घनौ वर्तुलौ तौ विलोमौ मे सुखोचितौ ॥ ४६ ॥ जघनं मांसलं रम्यं वर्तुलं गजकुंभवत् । पीनं विलोमं सुस्निग्धं मम चित्तैकमोहनम् ॥ ४७ ॥ नाहं ते वर्णने शक्तो रतिस्थानस्य भामिनि । गंभीरा वर्तुला नाभिस्तव रम्या प्रदृश्यते ॥ ४८ ॥ वलित्रयं तु जठरे दृश्यते तिसृवेणिवत् । मृगराजस्य कटिना तुल्यस्ते कटिरुत्तमा ॥ ४९ ॥ रम्यं तवोदरं सूक्ष्मं मृदुलं मांसलं शुभम् । विलोमं पीतवर्णं च पुत्रोत्पत्तिविसूचकम् ॥ ५० ॥ वशस्य शकलेनेव स्पर्द्धते तव मांसलः । पृष्ठस्तंभः कोमलश्च निम्नो लोमविवर्जितः ॥ ५१ ॥ पार्श्वेऽतिमृदुले पीते मांसले लोमवर्जिते । कुक्षी पीने लोमहीनं मांसले किंचिदुन्नते ॥ ५२ ॥ हृदयं कोमलं रम्यं मांसलं पीनमुन्नतम् । विस्तीर्णं लोमहीनं च सुस्निग्धं सौख्यदं मम ॥ ५३ ॥ हेमकुंभसमानौ द्वौ कुचौ पीनौ घनौ शुभौ । गजशुंडादंडतुल्यौ पीनौ ते कोमलौ भुजौ ॥ ५४ ॥ कृशा रम्याः कोमलाश्च तेऽङ्गुल्यो जनकात्मजे । रक्ते पाणितले शंखध्वजमत्स्यादिचिह्निते ॥ ५५ ॥ मांसले कोमले प्रोच्चैः सुरेखामण्डिते वरे । करपृष्टे लोमहीने मांसले कोमले शुभे ॥ ५६ ॥ पीनौ स्कंधौ वर्तुलौ ते जत्रुस्ते मांसपूरितः । कंबुकंठोऽतिपीनश्च सबलित्रय उत्तमः ॥ ५७ ॥ मध्ये निम्नं सुपीनं ते चिबुकं वर्तुलं मृदु । प्रवालबिंबसदृशश्चारक्तः कोमलो घनः ॥५८ ॥ सीते तेऽधोऽधरो भाति मधुरोऽमृतसन्निभः । कुदपुष्पकलिकया स्पर्द्धन्ते दशनास्तव ॥ ५९ ॥ सांद्राः कृत्रिमवर्णैश्च कृष्णवर्णा मनोहराः । हेमपुष्पैर्हेमतंतुबंधैश्चित्रविचित्रिताः ॥ ६० ॥ ऊर्ध्वाधरः कोमलस्ते रक्तवर्णो विभात्ययम् । ऋजु घ्राणमुन्नसं ते दिव्यं भाति मनोहरम् ॥ ६१ ॥ तव नेत्रे कंजपत्रतुल्ये दीर्घे मनोहरे । हरिणीनेत्रसदृशे कामवाणाविव प्रिये ॥ ६२ ॥ तव कर्णौ घनौ पीनौ बहुभारसहौ वरौ । तव सीतेऽतिसुस्निग्धे प्रोच्चे गंडस्थले शुभै ॥ ६३ ॥ कृशे भ्रुवौ चापतुल्ये कृष्णवर्णे सुकोमले । ललाटं तव विस्तीर्णं मांसलं हि समं मृदु ॥ ६४ ॥ गङ्गाकूलोपमः सीते सीमंतस्तव सुंदरः । हेमतंतुऽसमानास्ते केशाः स्निग्धाः सुकोमलाः ॥ ६५ ॥ मस्तकस्तव सूक्ष्मश्च वर्तुलो मांसलः शुभः । वेणीबन्धो वरः सीते जघने पतितस्तव ॥ ६६ ॥ चंपपुष्पोपमो वर्णः सौकुमार्यमपि प्रिये । सीते तवाननस्पर्द्धी शशांकः क्षयमाप सः ॥ ६७ ॥ त्वन्नेत्रविजिता सीते मृगी धावति कानने । सीते त्वद्भ्रुकुटिस्पर्द्धि चापं भग्नं मया पुरा ॥ ६८ ॥ तव नेत्रकटाक्षेण मुनीनां मदनोद्भवः । नेत्रयोस्तव चांचल्यं मकरान् लञ्जयत्यहो ॥ ६९ ॥ तव घ्राणं शुको दृष्ट्वाऽऽत्मानं धिक्करोति हि । दृष्ट्वौष्ठयोः शोणिमां ते सौकुमार्यमपि प्रिये ॥ ७० ॥ सहकारतरोश्चापि रक्तः कोमलपल्लवः । लञ्जया हरितो भाति त्वक्त्वा स्वीयां सुरक्तताम् ॥ ७१ ॥ सौकुमार्यं तथा त्यक्त्वा लञ्जया ते घनोऽपि सः । एवं किं किं मया कान्ते सौदर्यं तव जानकि ॥ ७२ ॥ वर्णनीयं महद्दिव्यं तत्र ब्रह्माऽपि कुंठितः । इत्युक्त्वा राघवः सीतां प्रीत्या तां परिषस्वजे ॥ ७३ ॥ तच्छ्रुत्वा वर्णनं स्वीयं लञ्जयाऽधः कृतानना । किंचित्स्मितानन कृत्वा तस्थावंके पतेश्च सा ॥ ७४ ॥ इतिश्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे विलासकाण्डे वाल्मीकीये सीतावर्णनं नाम द्वितीयः सर्गः ॥ २ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |