॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विलासकाण्डम्

॥ प्रथमः सर्गः ॥
[ शंकरकृतरामस्तवराज ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


रामदास उवाच
गुरो ते प्रष्टुमिच्छामि तद्वदस्व सविस्तरम् ।
स्तुतो रामः शिवेनात्र येन रामस्तवेन हि ॥ १ ॥
तं रामस्तवराजं मे विस्तरेण प्रकाशय ।
श्रीशिव उवाच
इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीद्वचः ॥ २ ॥
श्रीरामदास उवाच
सम्यक् पृष्टं त्वया वत्स सावधानमनाः शृणु ।
प्रोच्यते रामचन्द्रस्य स्तवराजो मयाऽधुना ॥ ३ ॥
यत्परं यद्‌गुणाधारं यज्ज्योतिरमलं शिवम् ।
तदेव परमं तत्त्वं कैवल्यपददायकम् ॥ ४ ॥
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञितम् ।
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ५ ॥
श्रीराम राम रामेति ये वदंत्यपि सर्वदा ।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ६ ॥
स्तवराजः पुरा प्रोक्तः शिवेन परमात्मना ।
तमहं संप्रवक्ष्यामि हरिध्यानपुरःसरम् ॥ ७ ॥
तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम् ।
दारिद्र्यदुःखशमनं सर्वसंपत्प्रदायकम् ॥ ८ ॥
विज्ञानफलदं पुण्यं मोक्षैकफलदायकम् ।
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णमनामयम् ॥ ९ ॥
अयोध्यानगरे रम्ये रत्नमंडपमध्यगे ।
ध्यायेत्कल्पतरोर्मूले रत्नसिंहासने शुभे ॥ १० ॥
तन्मध्येऽष्टदलं पद्मं नानारत्नोपशोभितम् ।
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥ ११ ॥
पितुरासनमासीनमिंद्रनीलसमप्रभम् ।
कोमलांगं विशालाक्षं विद्युद्वर्णांबरावृतम् ॥ १२ ॥
भानुकोटिप्रतीकाशं किरीटेनविराजितम् ।
रत्नग्रैवेयकेयूरवरकुडलमंडितम् ॥ १३ ॥
रत्नकंकणमंजीरकटिसूत्रैरलंकृतम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४ ॥
चिंतामणिसमायुक्तं रत्नमालाविराजितम् ।
दिव्यरत्नसमायुक्तं मुद्रिकाभिरलंकृतम् ॥ १५ ॥
कर्पूरागरुकस्तूरीदिव्यगंधानुलेपनम् ।
तुलसीकुंदमंदारपुष्पमाल्यैरलंकृतम् ॥ १६ ॥
राघवं द्विभुजं वीरं राममीषत्स्मिताननम् ।
योगशास्त्रेष्वभिरतं योगेश योगदायकम् ॥ १७ ॥
सदा सौमित्रिभरतशत्रुघ्नैरुपसेवितम् ।
विद्याधरसुराधीशसिद्धगंधर्वकिन्नरैः ॥ १८ ॥
योगींद्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम् ।
विश्वामित्रवसिष्ठाद्यैर्ऋषिभिः परिसेवितम् ॥ १९ ॥
सनकादिमुनिश्रेष्ठैर्योगिवृन्दैः समावृतम् ।
रामं रघुवरं वीरं धनुर्वेदविशारदम् ॥ २० ॥
मंगलायतनं देवं रामं राजीवलोचनम् ।
सर्वशास्त्रार्थतत्त्वज्ञमानन्दमतिसुन्दरम् ॥ २१ ॥
कौसल्यातनयं रामं धनुर्बाणधरं हरिम् ।
एवं संचिंतयेद्विष्णुं यज्ज्योतिर्ज्योतिषां परम् ॥ २२ ॥
प्रहष्टमानसो भूत्वा सभायां वृषभध्वजः ।
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् ॥ २३ ॥
कृतांजलिपुटो भूत्वा चिन्तयन्नद्‌भुतं हरिम् ।
श्रीशिव उवाच
यदेकं तत्परं नित्यं यदनन्तं चिदात्मकम ॥ २४ ॥
यदेकं व्यापकं लोके तद्‍रूपं चिन्तयाम्यहम् ।
सर्वत्रैलोक्यसौख्यार्थं रामभक्त्यतिवृद्धये ॥ २५ ॥
विज्ञानहेतुं विमलायताक्षं
प्रज्ञानसंदिव्यसुखैकरूपम् ।
श्रीरामचन्द्रं हरिमादिदेवं
विश्वेश्वरं राममहं भजामि ॥ २६ ॥
कविं पुराणं पुरुषं परेशं
सनातनं योगिनमीशितारम् ।
अणोरणीयांसमनंतवीर्यं
प्राणेश्वरं राममहं भजामि ॥ २७ ॥
नारायणं जगन्नाथमभिरामं जगत्पतिम् ।
कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २८ ॥
राजराजं रघुवर कौसल्यानंदवर्द्धनम् ।
भर्गं वरेण्यं विश्वेशं रघुनाथ जगद्गुरुम् ॥ २९ ॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं प्रभुम् ।
सोमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ ३० ॥
आदित्यं रविमीशानं घृणिं सूर्यमनामयम् ।
आनन्दरूपिणं सौम्यं राघवं करुणाकरम् ॥ ३१ ॥
जामदग्न्यं तपोमूर्ति रामं परशुधारिणम् ।
वाक्पतिं वरद वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३२ ॥
शार्ङ्‍गधारिणं रामं चिन्मयानंदविग्रहम् ।
हलधारिणमीशानं बलरामं कृपानिधिम् ॥ ३३ ॥
श्रीवल्लभ कलानाथं जयन्मोहनमच्युतम् ।
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३४ ॥
वासुदेवं जगद्योनिमनादिनिधनं हरिम् ।
गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३५ ॥
गोपालं गोपरीवारं गोपकन्यासमावृतम् ।
विद्युत्पुंजप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३६ ॥
गोगोपिकासमाकीर्णं वेणुवादनतत्परम् ।
कामरूपं कलावंतं कामिनां कामदं प्रभुम् ॥ ३७ ॥
मन्मथं मथुरानाथं माधवं मकरध्वजम् ।
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३८ ॥
भूतेशं भूपतिं भद्रं भूतिदं भूरिभूषणम् ।
सर्वदुःखहरं वीरं दुष्टदानवमर्दनम् ॥ ३९ ॥
श्रीनृसिंहं महाविष्णुः महांतं दीप्ततेजसम् ।
चिदानंदमयं नित्यं प्रणवं ज्योतिरूपकम् ॥ ४० ॥
आदित्यमंडलगतं निश्चितार्थस्वरूपिणम् ।
भक्तिप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ४१ ॥
कौसल्येयं कलामूतिं काकुत्स्थं कमलाप्रियम् ।
सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥ ४२ ॥
विश्वामित्रप्रियं दांतं स्वदारनियतव्रतम् ।
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४३ ॥
सत्यसंधं जितक्रोधं शरणागतवत्सलम् ।
सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ ४४ ॥
दशग्रीवहरं रुद्रं केशवं केशिमर्दनम् ।
बालिप्रशमनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४५ ॥
नरवानरदेवैश्च सेवितं हनुमत्प्रियम् ।
शुद्धं सूक्ष्मं परं शांतं तारकब्रह्मरूपिणम् ॥ ४६ ॥
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् ।
सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४७ ॥
निरामयं निराभासं निरवद्यं निरंजनम् ।
नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४८ ॥
परात्परतरं नित्यं सत्यानन्दचिदात्मकम् ।
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४९ ॥
भूतोद्भवं वेदविदां वरिष्ठमादित्यचद्रानिलसुप्रभावम् ।
सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात् ॥ ५० ॥
निरञ्जनं निष्प्रतिमं निरीहं निराश्रयं कारणमादिदेवम् ।
नित्यं ध्रुवं निर्विषयस्वरूपं निरंतरं राममहं भजामि ॥ ५१ ॥
भवाब्धिपोतं भरताग्रजं तं भक्तिप्रियं भानुकुलप्रदीपम् ।
भूताधिनाथं भुवनाधिपत्यं भजामि रामं भवरोगवैद्यम् ॥ ५२ ॥
सर्वाधिपत्यं रणरंगधीरं सत्यं चिदानन्दसुखस्वरूपम् ।
सत्यं शिवं सज्जनहृन्निवास ध्येयं परानन्दमहं भजामि ॥ ५३ ॥
कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम् ।
कुमारवेषं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ ५४ ॥
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुम् ।
महाबलं वेदनिधिं सुरेशं सनातनं राममहं भजामि ॥ ५५ ॥
वेदांतवेद्यं कविमीशितारमनादिमध्यांतमचिंत्यमाद्यम् ।
अगोचरं निर्मलमेकरूपं परात्परं राममहं भजामि ॥ ५६ ॥
अशेषवेदात्मकमादिदेवमजं हरिं राममनन्तमूर्तिम् ।
अपारसंवित्सुखमेकरूपं नमामि राम तमसः परस्तात् ॥ ५७ ॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् ।
राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममह भजामि ॥ ५८ ॥
योगींद्रसंघैरपि सेव्यमानं नारायणं निर्मलमादिदेवम् ।
नतोऽस्मि नित्यं जगदेकनाथ हरिं चिदानंदमयं मुकुन्दम् ॥ ५९ ॥
अशेषविद्याधिपतिं नमामि रामं पुराणं तमसः परस्तात् ।
विभूतिदं विश्वसृजं परेशं राजेंद्रमीशं रघुवंशनाथम् ॥ ६० ॥
अचिंत्यमव्यक्तमनंतरूपं ज्योतिर्मयं राममहं भजामि ।
अशेषससारविकारहीनमानंदसंपूर्णसुखाभिरामम् ॥ ६१ ॥
नारायणं विष्णुमहं भजामि समस्तसाक्षिं तमसः परस्तात् ।
मुनींद्रगुह्यं परिपूर्णमेकं कलानिधिं कल्मषनाशहेतुम् ॥
परात्परं यत्परमं पवित्रं नमामि रामं महतो महांतम् ॥ ६२ ॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेंद्रो देवतास्तथा ।
अदित्यादिग्रहाश्चैव त्वमेव रघुनंदन ॥ ६३ ॥
तापसा ऋषयः सिद्धाः साध्याश्च मुनयस्तथा ।
विप्रा वेदाश्च यज्ञाश्च पुराणं धर्मसंहिताः ॥ ६४ ॥
वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च ।
नागा यक्षाश्च गन्धर्वा दिक्पाला दिग्गजा दिशः ॥ ६५ ॥
वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ।
तारका द्वादशादित्यास्त्वमेव रघुनायक ॥ ६६ ॥
सप्त द्वीपाः समुद्राश्च नदा नद्यस्तथा द्रुमाः ।
स्थावरा जंगमाश्चैव त्वमेव रघुनन्दन ॥ ६७ ॥
देवतिर्यङ्‍मनुष्याणां दानवानां दिवौकसाम् ।
माता पिता तथा भ्राता त्वमेव रघुनन्दन ॥ ६८ ॥
सर्वेशस्त्वं परं ब्रह्म त्वद्‌रूपं विश्वमेव च ।
त्वमक्षरं परं ज्योतिस्त्वमेव रघुपुंगव ॥ ६९ ॥
शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।
राजीवलोचन रामं प्रणमामि जगत्पतिम् ॥ ७० ॥
ततः प्रसन्नः श्रीरामः प्रोवाच वृषभध्वजम् ।
श्रीराम उवाच
तुष्टोऽहं गिरिजाकांत वृणीष्व वरमुत्तमम् ॥ ७१ ॥
श्रीशिव उवाच
यदि तुष्टोऽसि देवेश श्रीराम करुणानिधे ।
तवाद्य दर्शनेनैव कृतार्थोऽहं न संशयः ॥ ७२ ॥
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम ।
अद्य मे सफलं कर्म ह्यद्य मे सफलं तपः ॥ ७३ ॥
अद्य मे सफलं ज्ञानमद्य मे सफलं श्रुतम् ।
अद्य मे सफलं सर्वं त्वत्पदांभोजदर्शनात् ॥ ७४ ॥
अद्वैतं विमलं ज्ञानं त्वन्नामस्मरणं तथा ।
त्वत्पदांभोरुहद्वन्द्वे सद्‍भक्तिं देहि राघव ॥ ७५ ॥
ततः परं सुसंप्रीतो रामः प्राह सदाशिवम् ।
गिरिजेश महाभाग पुनरिष्टं ददाम्यहम् ॥ ७६ ॥
श्रीशिव उवाच
वरं न याचे रघुनाथ युष्मत्पदाब्जभक्तिः सततं ममास्तु ।
इदं प्रियं नाथ वरं प्रयच्छ पुनः पुनस्त्वामिदमेव याचे ॥ ७७ ॥
श्रीरामदास उवाच
इत्येवमीडिता समः प्रादात्तस्मै वरांतरम् ।
तेनोक्तस्तवराजाय ददौ नानावरान् बहून् ॥ ७८ ॥
एवं शिवेन यः प्रोक्तः स्तवराजः शुभावहः ।
स एवाद्य त्वया पृष्टस्तवाग्रे कथितो मया ॥ ७९ ॥
अयं श्रीरघुनाथस्य स्तवराजो ह्यनुत्तमः ।
सर्वसौभाग्यसंपत्तिदायको मुक्तिदः स्मृतः ॥ ८० ॥
कथितो गिरजेशेन तेनादौ सारसंग्रहः ।
गुह्याद्गुह्यतरो नित्यस्तव स्नेहात्प्रकीर्तितः ॥ ८१ ॥
यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।
ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ८२ ॥
हेमस्तेयसुरापानगुरुतल्पायुतानि च ।
गोवधाद्युपपापानि चिंतनात्संभवानि च ॥ ८३ ॥
सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्‍भवैः ।
मानसं वाचिकं पापं कर्मणा समुपार्जितम् । ८४ ॥
श्रीरामस्मरणेनैव व्यपोहति न संशयः ।
इदं सत्यमिदं सत्यं सत्यं नैवान्यदुच्यते ॥ ८५ ॥
रामः सत्यं परं ब्रह्म रामात्किंचिन्न विद्यते ।
तस्माद्‌रामस्वरूपं हि रामः सर्वमिदं जगत् ॥ ८६ ॥
श्रीरामचन्द्र रघुपुङ्गव राजवर्यं
राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रधुनायक रामचंद्र
दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ८७ ॥
उत्फुल्लामलकोमलोत्पदलश्यामाय रामाय
चाकामाय प्रशमाय निर्मलगुणग्रामाय रामात्मने ।
ध्यानारूढमुनींद्रमानससरोहंसाय संसारविध्वंसाय
स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ८८ ॥
एवं शिष्य मया प्रोक्तो यथा पृष्टस्त्वया मम ।
स्तवराजो राघवस्य श्रवणात्पापनाशनः ॥ ८९ ॥
इतिश्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे
विलासकाण्डे वाल्मीकीये
शंकरकृतरामस्तवराजो नाम प्रथमः सर्गः ॥ १ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP