॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विलासकाण्डम्

॥ षष्ठः सर्गः ॥
[ सीतारामयोर्दिनचर्यावर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथ रामो बंधुभिश्च निद्राशालां ययौ मुदा ।
स्तुतो बदिजनाद्यैश्च विवेशैकांतमन्दिरम् ॥ १ ॥
विसर्ज्य लक्ष्मणादींश्च दासीभिः परिवारितः ।
ददर्श जानकीं निद्राशालायां रघुनदनः ॥ २ ॥
साऽपिज्ञात्वाऽऽगतंरामं सारिक्रीडां विहाय च ।
प्रत्युज्जगाम रामाय सखीभिर्नूपुरस्वना ॥ ३ ॥
नत्वा रामं करे धृत्वा मंचके संन्यवेशयत् ।
दत्त्वा पातुं जलं तस्मै ददौ तांबूलमुत्तमम् ॥ ४ ॥
ततश्चकार श्रीरामो निद्रां सीतासमन्वितः ।
दासीभिर्वीजितश्चापि पर्यके रत्नभूषिते ॥ ५ ॥
मुहूर्तमात्रादुत्थाय घृताधोंकोपबर्हणा ।
तस्थौ सीता मंचकाधस्ततो रामोऽप्यबुध्यत ॥ ६ ॥
दृष्ट्‍वा समुत्थितं रामं दत्त्वा पातुं जलं पुनः ।
ददौ सीताऽथ तांबूलं राघवायातिहर्षिता ॥ ७ ॥
रामदास्यस्तथा रामं वीजयामासुरादरात् ।
केकिपक्षसमुद्‍भूतैश्चामरै रुक्मभूषितैः ॥ ८ ॥
सीतादास्यस्तथा सीतां बीजयामासुरादरात् ।
धेनुपुच्छोद्‍भवैदिव्यैश्चामरैर्हेममंडितैः ॥ ९ ॥
ततः सीताकरं धृत्वा द्राक्षावल्या सुमण्डपम् ।
ययौ रामोऽङ्‍गणोद्‍भूतं तस्थौ तदध आसने ॥ १० ॥
उपबर्हणसंस्पृष्टः सीतावामस्थितो मुदा ।
हस्त्यश्वोष्ट्रमंत्रिराजदूतैः कृत्रिमनिर्मितैः ॥ ११ ॥
हेमरत्नहस्तिदन्तसंभूतैरतिचित्रितैः ।
क्रीडां बुद्धबलेनैव चकार सीतया सुखम् ॥ १२ ॥
ततः पक्षिकुलैः सर्वैः पजरस्थैः ससीतया ।
क्रीडां चकार श्रीरामो दासीभिर्वीजितो मुहुः ॥ १३ ॥
एतस्मिन्नन्तरे तत्र सीतयाऽऽकारिताः पुरा ।
समाययुर्वारनार्यो ननृतुः शतशस्तदा ॥ १४ ॥
चक्रुर्गीतं सस्वरं ताः षड्जस्वरसमन्वितम् ।
ततस्ताभ्यो ह्यलङ्कारान् दत्त्वा वस्त्राणि जानकी ॥ १५ ॥
विसर्जयामास ताः सर्वास्ततो राघवमब्रवीत् ।
स्थित्वा प्रासादवर्येऽद्य कौतुकं हट्‍टजं त्वया ॥ १६ ॥
द्रष्टुमिच्छाम्यहं राम शीघ्रमुत्तिष्ठ राघव ।
तत्सीतावचनाद्‍रामः प्रासादं प्रति सीतया ॥ १७ ॥
गत्वा दिव्यासने स्थित्वा गवाक्षै रुक्मभूषितैः ।
रत्नोद्‍भवकपाटैश्च मुक्ताजालविराजितैः ॥ १८ ॥
राजवीथ्यां हट्टजातं ददर्श जनकौतुकम् ।
सीतायै दर्शयामास कौतुकानि स राघवः ॥ १९ ॥
स्वीयदक्षिणहस्तस्य तर्जन्या मुदिताननः ।
एतस्मिन्नन्तरे हट्‍टे द्विजपत्नी तु सीतया ॥ २० ॥
दृष्ट्‍वाऽलङ्कारवस्त्रात्रैर्हीना कटिधृताऽर्भका ।
गच्छन्ती राजमार्गेण कृशा भिक्षार्थमुद्यता ॥ २१ ॥
तां तादृशीं निरीक्ष्याथ दास्याहूय विदेहजा ।
पप्रच्छ भूषणाद्यैस्त्वं किमर्थं रहिता ह्यसि ॥ २२ ॥
सा प्राह तीर्थयात्रार्थं त्यक्त्वा मां तातलालिता ।
तातगेहे गतो भर्ता ततोऽपि जरठो मृतः ॥ २३ ॥
गुरुगेहेऽवंतिकायां वर्त्तेते भ्रातरौ मम ।
न पोषकः कोऽपि गेहेऽधुना सीतेऽस्ति वै मम ॥ २४ ॥
तस्मान्न सन्त्यलङ्‌कारवासांसि जनकात्मजे ।
इति तस्या वचः श्रुत्वा रामास्य सन्निरीक्ष्य सा ॥ २५ ॥
निजालङ्‍कारवासांसि ददौ तस्य विदेहजा ।
ब्राह्मणीं सा पुनः प्राह गच्छ त्वं लक्ष्मणं प्रति ॥ २६ ॥
हेममुद्रा लक्षमितास्त्वं गृहाण ममाज्ञया ।
तथेति जानकीं पृष्ट्‍वा सा ययौ लक्ष्मणं तदा ॥ २७ ॥
पूर्वाधिकानलकारान् स्वदेहे जानकी पुनः ।
दधार दिव्यवासांसि हेमतंतूद्‍भवानि सा ॥ २८ ॥
लक्ष्मण ब्राह्मणी गत्वा सीतावाक्यं न्यवेदयत् ।
ददौ तस्यै लक्ष्मणोऽपि हेममुद्रास्तथैव सः ॥ २९ ॥
सीतावक्याल्लक्षमिता मृषा मेने न तद्वचः ।
कः समर्थो रामराज्ये मृषां वक्तुं भवेदिति ॥ ३० ॥
अथ सीताऽपि सौमित्रिं स्वां दासीं प्रेष्य वै तदा ।
अयोध्यायां तथा राष्ट्रे घोषयामास दुन्दुभिम् ॥ ३१ ॥
सप्तद्वीपेषु सर्वत्र पृथग्वर्षेषु सादरम् ।
काचिन्नारी पुमान् वापि विना सद्वस्त्रभूषणैः ॥ ३२ ॥
दृष्टश्चारैर्मया ज्ञातो यद्देशे यत्पुरे कदा ।
तद्‍राज्ञश्चास्तु मे दण्डो रामस्यापि विशेषतः ॥ ३३ ॥
इति मच्छिक्षितं ज्ञात्वा स्वकोशैः स्वीयराष्ट्रके ।
वस्त्रालङ्‍कारभूषाभिर्भूषणीया द्विजादयः ॥ ३४ ॥
सप्तद्वीपनृपतयश्चेत्थं सीतासुशिक्षितम् ।
गजदुन्दुभिघोषेण श्रुता चक्रुस्तथैव च ॥ ३५ ॥
तदारभ्य जगत्यां न कश्चिद्विगतभूषणः ।
नारी वा पुरुषो वाऽसीत् कुत्राप्यवनिजाभयात् ॥ ३६ ॥
एवं नानाकौतुकानि भूम्यां सीताऽकरोन्मुदा ।
अथ रामः सभां गत्वा पुनर्यामे चतुर्थके ॥ ३७ ॥
चकार राजकर्माणि धर्मेणैव स्वबन्धुभिः ।
नटनाटकवेश्यानां कौतुकानि महांति च ॥ ३८ ॥
ददर्श स सभामध्ये स्तुतो मागधबंदिभिः ।
ततः सर्वान्विमृज्याथ ययौ सीतागृहं प्रभुः ॥ ३९ ॥
सायंसंध्यादिकं कृत्वा हुत्वा होमं यथाविधि ।
ततो गंधादिभिः पूज्य ब्राह्मणांश्चापि राघवः ॥ ४० ॥
नानोपहारनैवेद्यं दत्त्वा तेभ्यः स्वयं प्रभुः ।
कृत्वोपहारं श्रीरामः श्रुत्वा पौराणिकीं कथाम् ॥ ४१ ॥
कीर्तनैर्हरिदासानां वेश्यानां नर्तनैरपि ।
पौरोदिताभिर्वार्त्ताभिर्गायकानां च गायनैः ॥ ४२ ॥
सार्धयामां निशां नीत्वा ययौ निद्रास्थलं शनैः ।
ततो रत्नप्रकाशैः स जगाम जानकीं प्रति ॥ ४३ ॥
साऽपि प्रत्युञ्जमामाथ रत्नदीपैः सखीयुता ।
ततः स सीतया रामः पर्यङ्के रत्नचित्रिते ॥ ४४ ॥
चकार सीतया क्रीडां रंजयामास जानकीम् ।
ततस्तौ दंपती निद्रां चक्रतुर्वीजितौ मुहुः ॥ ४५ ॥
दासीभिर्व्यजनैश्चित्रैश्चामरैर्हेमभूषितैः ।
एवं रामेण सा सीता सुखमाप पतिव्रता ॥ ४६ ॥
सीतया राघवश्चापि सुखमाप विशेषतः ।
एषं नानाकौतुकानि प्रत्यहं रघुनंदनः ॥ ४७ ॥
चकार सीतया सार्द्धं परिपूर्णमनोरथः ।
कदा चंद्रस्य ज्योत्स्नायामंगणे सद्मनः प्रभुः ॥ ४८ ॥
चकार सीतया निद्रां कदा प्रासादमस्तके ।
कदा प्रासादान्तरे वाऽपि गवाक्षपवनैः शुभैः ॥ ४९ ॥
सुखमाप कदा रामः कदा रहसि मंदिरे ।
कदा कनकशृङ्खलासवितानसुमचके ॥ ५० ॥
कदा द्राक्षामंडपाधो जलयंत्रसमीपतः ।
काचभूम्यां रुक्मभूम्यां मणिभूम्यां कदाऽपिवा ॥ ६१ ॥
स्फटिकादिसुभूम्यां हि कदा सुष्वाप राघवः ।
कदा स पुष्पके वाऽपि रंगशालान्तरे कदा ॥ ५२ ॥
कदा स चित्रशालायां कदोशीरमये गृहे ।
कदा पुष्पमये गेहे कदा रंभावने वरे ॥ ५३ ॥
कदा पुष्पवाटिकायां कदा वृक्षोर्ध्वसद्मनि ।
शृङ्खलावृक्षसंवद्धदोलके रत्नचित्रिते ॥ ५४ ॥
कदा काष्ठमये दिव्ये मंचके रत्नभूषिते ।
कदा चकार तुलसीवाटिकायां रघूत्तमः ॥ ५५ ॥
निद्रां जनकनंदिन्या समायामथवा कदा ।
कदा द्वारोर्ध्वप्रासादे कदैकस्तंभसद्मनि ॥ ५६ ॥
कदा स्वगृहदेहल्यां कदा वृंदावनेऽपि च ।
एवं स सीतया रेमेऽयोध्यायां रघुनंदनः ॥ ५७ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद्
आनन्दरामायणे विलासकाण्डे वाल्मीकीये
सीतारामयोर्दिनचर्यावर्णनं नाम षष्ठः सर्गः ॥ ६ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP