॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यागकाण्डम्
॥ पञ्चमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
विष्णदास उवाच गुरो ते प्रष्टुमिच्छामि तत्त्वं वद सविस्तरम् । कुम्भोदरेण मुनिना यत्स्तोत्रं समुदीरितम् ॥ १ ॥ अष्टोत्तरशतं नाम्नां राघवस्य शुभप्रदम् । श्रवणे तस्य मे प्रीतिर्जाताऽस्ति कथयस्व तत् ॥ २ ॥ श्रीरामदास उवाच शृणु शिष्य महाबुद्धे सम्यक् पृष्टं त्वया मम । अष्टोत्तरशतं नाम्नां राघवस्य वदाम्यहम् ॥ ३ ॥ सर्वेश्वरः सर्वमयः सर्वभूतोपकारकः । सर्वेषामुकारार्थं यः साकारो निराकृतिः ॥ ४ ॥ स भवत्येव लोकेऽस्मिन् संसारभयनाशनः । यदा यदा हि लोकानां भयमुत्पद्यते तदा ॥ ५ ॥ अवतीर्याकरोच्छ्रीमान् दुष्टदैत्यविमर्द्दनम् । मत्स्यकूर्मवराहादिरूपेण परमार्थदृक् ॥ ६ ॥ तत्कालेषु च सर्वेषु सर्वेषामुपकारकृत् । साधूनां समचित्तानां भक्तानां भक्तवत्सलः ॥ ७ ॥ उपकर्तुं निराकारः सदाकारेण जायते । प्रजाऽयं जायतेऽनन्तो विश्रुतो भूतभावनः ॥ ८ ॥ तदा तदाऽवतरति भक्तानामनुकंपया । क्षीराब्धौ देवदेवेशो लक्ष्मीनारायणो विभुः ॥ ९ ॥ अशेषैः शंखचक्राभ्यां देवैर्ब्रह्मादिभिः सह । शेषोभूल्लक्ष्मणे लक्ष्मीर्जानकी शंखचक्रके ॥ १० ॥ जातौ भरतशत्रुघ्नौ देवाः सर्वेऽपि वानराः । आसन् पुरैव सर्वेऽपि देवान। भयशांतये ॥ ११ ॥ तत्र नारायणो देवः श्रीराम इति विश्रुतः । सर्वलोकोपकाराय भूमौ स्वयमवातरत् ॥ १२ ॥ ध्यानमात्रेण देवेशो महापातकनाशकृत् । कीर्तनश्रवणाभ्यां च हत्याकोटिनिवारणः ॥ १३ ॥ कलौ स कीर्तनेनैव सर्व पापं व्यपोहति । राम रामेति रामेति ये वदन्त्यतिपापिनः ॥ १४ ॥ पापकोटिसहस्रेभ्यस्तानुद्धरति नान्यथा । अष्टोत्तरशतं नाम्नां तस्य स्तोत्रं वदाम्यहम् ॥ १५ ॥ ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमंत्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता । ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । ॐ नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः । ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा । ॐ नमो भगवते जानकीवल्लभाय नमः शिखायै वषट् । ॐ नमो भगवते रघुनंदनायामिततेजसे कवचाय हुम् । ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयायवौषट् । ॐ नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् । इति षडगन्यासः। एवं अलिन्यासः कार्यः । अथ ध्यानम् मन्दाराकृतिपुण्यधामविलसद्वक्षःस्थलं कोमलं शांतं कांतमहेन्द्रनीलरुचिराभासं सहस्राननम् । वंदेऽहं रघुनदनं सुरपतिं कोदण्डदीक्षागुरुं । रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् ॥ १६ ॥ सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः । नमः सहस्रहस्ताय सहस्रचरणाय च ॥ १७ ॥ नमो जीमूतवर्णाय नमस्ते विश्वतोमुख । अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥ १८ ॥ नमो हिरण्यगर्भाय पंचभूतात्मने नमः । नमो मूलप्रकृतये देवानां हितकारिणे ॥ १९ ॥ नमस्ते सर्वलोकेश सर्वदुःखनिषूदन । शंखचक्रगदापद्मजटामुकुटधारिणे ॥ २० ॥ नमोगर्भाय तत्त्वायज्योतिषां ज्योतिषे नमः । ॐ नमो वासुदेवाय नमो दशरथात्मज ॥ २१ ॥ नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय च । नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥ २२ ॥ नमो दांताय शांताय विश्वामित्रप्रियाय ते । यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥ २३ ॥ नमो नमः केशवाय नमो नाथाय शार्ङ्गिणे । नमस्ते रामचन्द्राय नमो नारायणाय च ॥ २४ ॥ नमस्ते रामचन्द्राय माधवाय नमो नमः । गोविन्दाय नमस्तुभ्यं नमस्ते परमात्मने ॥ २५ ॥ नमस्ते विष्णुरूपाय रघुनाथाय ते नमः । नमस्तेऽनाथनाथाय नमस्ते मधुसूदन ॥ २६ ॥ त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः । वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥ २७ ॥ नमो नमः श्रीधराय जानकीवल्लभाय च । नमस्तेऽस्तु हृषीकेश कदर्पाय नमो नमः ॥ २८ ॥ नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे । नमो राजीवनयन नमस्ते लक्ष्मणाग्रज ॥ २९ ॥ नमो नमस्ते काकुत्स्थ नमो दामोदराय च । विभीषणपरित्रातर्नमः संकर्षणाय च ॥ ३० ॥ वासुदेव नमस्तेऽस्तु नमस्ते शंकरप्रिय । प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ३१ ॥ सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम । अधोक्षज नमस्तेऽस्तु सप्ततालहराय च ॥ ३२ ॥ खरदूषणसंहर्त्रे श्रीनृसिंहाय ते नमः । अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥ ३३ ॥ जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय । उपेन्द्रचन्द्रवंद्याय मारीचमथनाथ च ॥ ३४ ॥ नमो बालिप्रहरण नमः सुग्रीवराज्यद । जामदग्न्यमहादर्पहराय हरये नमः ॥ ३५ ॥ नमो नमस्ते कृष्णाय नमस्ते भरताग्रज । नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ॥ ३६ ॥ अयोमयाधिपते तुभ्यं नमः शत्रुघ्नसेवित । नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ॥ ३७ ॥ अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः । नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥ ३८ ॥ अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने । नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ॥ ३९ ॥ सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने । नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥ ४० ॥ नमः कबन्धहन्त्रे च वालिहन्त्रे नमोऽस्तु ते । नमस्तेऽस्तु दशग्रोवप्राणसंहारकारिणे १०८ ॥ ४१ ॥ अष्टोत्तरशतं नाम्ना रामचन्द्रस्य पावनम् । एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ॥ ४२ ॥ प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज । तस्य कीर्तनमात्रेण जना यास्यति सद्गतिम् ॥ ४३ ॥ तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम् । यावन्नामाष्टकशतं पुरुषो न हि कीर्तयेत् ॥ ४४ ॥ तावत्कलैर्महोत्साहो निःशंकं संप्रवर्तते । यावत् श्रीरामचन्द्रस्य शतनाम्नां न कीर्तनम् ॥ ४५ ॥ तावयमभटाः क्रूराः संचरिष्यन्ति निर्भयाः । यावच्छ्रीरामचन्द्रस्य शतनाम्नां न कीर्तनम् ॥ ४६ ॥ तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम् । यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ॥ ४७ ॥ कीर्तितं पठितं चित्ते घृतं संस्मारितं मुदा । अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥ ४८ ॥ ब्रह्महत्यादिपापानां निष्कृतिं यदि वांछति । रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ॥ ४९ ॥ दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् । पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ॥ ५० ॥ श्रुतिस्मृतिपुराणेतिहासागमशतानि च । अर्हति नाल्पां श्रोरामनामकीर्तिकलामपि ॥ ५१ ॥ अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम् । अस्य संकीर्तनादेव सर्वान् कामाँल्लभेन्नरः ॥ ५२ ॥ पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् । स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ॥ ५३ ॥ कुंभोदरेण मुनिना येन स्तोत्रेण राघवः । स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ॥ ५४ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये यात्राकाण्डे श्रीरामनामाष्टोत्तरशतस्तोत्रं नाम पञ्चमः सर्गः ॥ ५ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |