॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यागकाण्डम्
॥ चतुर्थः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ ते ऋत्विजः सर्वे मंगलैर्विविधैः शुभैः । सम्यक् प्रवर्तयामासुर्वाजिमेधं यथाविधि ॥ १ ॥ तत्रर्त्पिजो वाजिमेधे रत्नकौशेयवाससः । ससदस्या विरेजुस्ते यया वृत्रहणोऽध्वरे ॥ २ ॥ एतस्मिन्नन्तरे तत्र सुरेशसहितैः सुरैः । स्वामिना विघ्नराजेन पार्वत्या वृषभस्थितः ॥ ३ ॥ महेश्वरो यज्ञवाटं रामाहूतो ययौ गणैः । शिवमागतमाज्ञाय प्रत्युद्गम्याथ लक्ष्मणः ॥ ४ ॥ वारर्णेद्रं पुरस्कृत्य पताकाध्वजतोरणैः । नानावाद्यसुघोषैश्च वारस्त्रीणां प्रनर्तनैः ॥ ५ ॥ संपूज्य शंकरं भक्त्या चानयामास मंडपम् । पंच सप्त पदान्यग्रे गत्वा रामोऽपि शंकरम् ॥ ६ ॥ नमस्कृत्य समालिंग्य विश्वेशं गिरिजायुतम् । हेमासनै सन्निवेश्य हेमपात्रे स्वहस्ततः ॥ ७ ॥ पादप्रक्षालनं शंभोश्चकार सीतया प्रभुः । हेमनिर्मितझर्झर्या मणिरत्नादिचित्रया ॥ ८ ॥ जलधारां यथायोग्यां मोचयामास जानकी । ततस्ते राघव सीतां दृष्ट्वा देवगणास्तदा ॥ ९ ॥ अनिमेषाः कजनेत्रकटाक्षाः सन्निराक्ष्य हि । तयोश्चिनोपमा आसन् न विदुः के वयं त्विति ॥ १० ॥ तुष्टुवुस्तत्र केचित्ते सुराः श्रीराधवं मुदा । जानकीं तुष्टुवुः केचित् प्रबद्धकरसम्पुटाः ॥ ११ ॥ एवं निर्जरसंघानां संतोषस्तत्र वै ह्यभूत् । अनौपम्यं तयोर्दृष्ट्वा रूपं कोटिरविप्रभम् ॥ १२ ॥ अथ रामः सीतया हि शंकरं गिरिजामपि । स्वयं संपूज्य सकलान् देवान् सौमित्रिणा ऋषीन् ॥ १३ ॥ पूजयित्वाऽब्रवीद्वाक्यं शंकरं लोकशंकरम् । अद्य धन्योऽस्म्यहं देव दर्शनात्तव सीतया ॥ १४ ॥ अद्य मे सूर्यवंशेऽस्मिन् जन्म साफल्यतां गतम् । इति रामस्य वचनं श्रुत्वा स शशिभूषणः ॥ १५ ॥ विहस्य राघवं प्राह वेद्मि मायां हरे तव । त्वन्नाभिकमले ब्रह्मा जातस्तस्मान्मुनीश्वराः ॥ १६ ॥ मरीच्याद्याः सम्बभूवुः पौत्राः सप्ताहतौजसः । मरीचेः कश्यपः पुत्रः सृष्ट्युत्पत्तिविएधायकः ॥ १७ ॥ कश्यपात्सविता जज्ञे पौत्रपौत्रस्तव प्रभो । रवेर्जातः सूर्यवंशस्तद्वंशे तव जन्म वै ॥ १८ ॥ त्वद्वंशसंभबः सूर्यः किं मां मोहयसि प्रभो । देवानां कार्यसिद्धर्थंमवतीर्णोऽसि मायया ॥ १९ ॥ कुरु क्रीडां यथेच्छं त्वं यात्रायज्ञादिकौतुकैः । शिक्षां करोषि लोकानां वेद्म्यहं चेष्टितं तव ॥ २० ॥ इति श्रुत्वा शंभुवाक्यं सीतारामौ विहस्य च । यज्ञकुंडसमीपे तु तस्थतुर्गुरुसन्निधौ ॥ २१ ॥ एतस्मिन्नंतरे तत्र सागजग्मुः सहस्रशः । गन्धर्वाः किन्नराः सिद्धास्तथा चाप्सरसां गणाः ॥ २२ ॥ लोकपालाश्च दिक्पाला रसातलनिवासिनः । नवग्रहाः षडृतवः षष्टिसंवत्सरास्तथा ॥ २३ ॥ ऋक्षाणि तिथयो योगाः करणानि च राशयः । पर्वतास्तरवः सर्वे सागराश्च नदा अपि ॥ २४ ॥ सरोवराणि नद्यश्च वाप्यः कूपास्तथाऽपरे । घृत्वा जंगमरूपाणि ययुस्ते यज्ञमण्डपम् ॥ २५ ॥ समागतश्च संपातिर्गुहको मकरध्वजः । समाययौ स लङ्काया राक्षसैश्च विभीषणः ॥ २६ ॥ मानिता राघवेणापि सर्वे तस्थुः प्रपूजिताः । स्वान्तिके स्थापिताः पूर्वं तत्रैवासन् प्लवंगमाः ॥ २७ ॥ एतस्मिमन्नंतरे तत्र समायातो मुनीश्वरः । कुम्भोदरो महातेजाः सीमाचारैर्विलोकितः ॥ २८ ॥ तं दृष्ट्वा भयभीतास्ते सर्वे प्रोचुः परस्परम् । हा कष्टं पुनरायातः सोऽयं कुम्भोदरो मुनिः ॥ २९ ॥ यात्राश्रमो राघवस्य यन्निमित्तो बभूव हु । यद्वाक्यादश्वमेधोऽपि सर्वेषां संबभूव ह ॥ ३० ॥ महान् श्रमोऽश्वपृष्ठे तु भ्रमतां जगतीतले । अधुनाऽपि समायातः किमग्रे वै पुनस्त्वयम् ॥ ३१ ॥ करिष्यति न तद्विद्मो राघवस्यापि निंदकः । एवं नानाविधा वाचः सीमाचारगणेरिताः ॥ ३२ ॥ शृण्वन् कुम्भोदरस्तूष्णीं ययौ यज्ञभुवं प्रति । तदागमनपूर्वं स सीमाचारैर्निवेदितः ॥ ३३ ॥ धावद्भिर्वेपमानैश्च स्खलद्वाग्भिस्त्वरान्वितैः । राम राम महाबाहो हे लक्ष्मण शृणु प्रभो ॥ ३४ ॥ यात्रायज्ञश्च यद्वाक्यात् समायातः स वै पुनः । कुम्भोदरो मुनिश्रेष्ठो राम त्वय्यपि निष्ठुरः ॥ ३५ ॥ तद्दूतवचनं श्रुत्वा सर्वे तद्दर्शनोत्सुकाः । त्यक्त्वा स्वीयानिकर्माणि चोत्तस्थुस्तद्दिदृक्षया ॥ ३६ ॥ ऋत्विजो राघवः सीता न भयं मेनिरे मुनेः । कुम्भोदरो यज्ञवाटं ययौ सर्वेर्विलोकितः ॥ ३७ ॥ अतिखर्वः स्थूलशिराः श्यामकर्णः सपादुकः । स्थूलोदरः पिंगनेत्रः सकोपीना जटाधरः ॥ ३८ ॥ चीरवासाः खर्वपादः खर्वहस्तो महामुनिः । युवा किंचित् श्मश्रुयुक्तो धृतदण्डकमण्डलुः ॥ ३९ ॥ तं दृष्ट्वा सकला लोका भय प्रापुः स्वचेतसि । पूर्वकर्म च संस्मृत्य संश्रुत्य च परस्परम् ॥ ४० ॥ एतस्मिन्नन्तरे रामः शीघ्रं प्रत्युज्जगाम तम् । साष्टांगं प्रणिपत्याथ करे धृत्वा तु मंडपम् ॥ ४१ ॥ आनयामास श्रीरामो ददौ हैमासनं वरम् । कुभोदरो मुनिः शीघ्रं भूमौ दडकमडलू ॥ ४२ ॥ स्थापयामास चीराणि ननाम रघुनायकम् । रामः शीघ्रकराभ्यां तं प्रत्युत्थाप्य मुनीश्वरम् ॥ ४३ ॥ गाढमालिंग्य बाहुभ्यां ततो मुनिमभाषत । नाहं योग्यो वंदनार्थं त्वया रावणघातकः ॥ ४४ ॥ इति रामवचोरूपैर्बाणैः संताडिनो हृदि । कुंभोदरस्तदोवाच यज्ञवाटे रघूत्तमम् ॥ ४५ ॥ राम राम महाबाहो न कोपः क्रियतां मयि । अपराध्यस्म्यहं ते हि क्षमस्व रघुनायक ॥ ४६ ॥ न मया स्वार्थसिद्ध्यर्थं दोषारोपः कृतस्त्वयि । कृतः परोपकारार्थं तथा कीर्त्यै तवापि च ॥ ४७ ॥ शिक्षार्थं सकलान्लोकान् तज्ज्ञातं च त्वयापि हि । यथैते मुनयः सर्वे तव सत्रेऽन्ननिर्मिते ॥ ४८ ॥ शतशो भोजनं चक्रुस्तथा भुक्तं मयाऽपि च । तदा कुतो महत्कीर्तिस्तव मे रघुनंदन ॥ ४९ ॥ इति निश्चित्य हृदये मया पूर्वं हिताय हि । लोकानां च कृतो यत्नस्त्वयि दोषानुकीर्तनैः ॥ ५० ॥ नोचेद्यात्रासमुद्योगः कथं राम भवेत्तव । यत्र यत्र च देशेषु तीर्थेषूपवनेषु च ॥ ५१ ॥ आश्रमारामग्रामेषु नदीवनगिरिष्वपि । ये ये जनाश्च सर्वत्र नानाकर्मसु तत्पराः ॥ ५२ ॥ तव दर्शनलाभस्तु तेषां जातः सुखप्रदः । तत्राहं कारणं मन्ये चात्मानं रघुनन्दन ॥ ५३ ॥ ममालमुपकारस्तु जनैः सर्वत्र कीर्त्यते । कुंभोदरप्रसादेन नः सीतारामदर्शनम् ॥ ५४ ॥ जातं विषयलुब्धानामिति मे कृतकृत्यता । जाता समंततः कीर्तिस्त्वयि दोषानुकीर्तनात् ॥ ५५ ॥ तवापि कीर्तिः सर्वत्र जाताऽत्र रघुनंदन । रामेश्वराश्च सर्वत्र रामतीर्थान्यनेकशः ॥ ५६ ॥ यावद्भूम्यां प्रगीयेत तावर्त्कीतिस्तवापि च । अन्यच्च लोकशिक्षाऽपि जाता मद्वाक्यकारणात् ॥ ५७ ॥ कुंभोदरेण मुनिना राघवस्य महात्मनः । दोषारोपः कृतः पूर्वं कथं नो न भविष्यति ॥ ५८ ॥ स्वदोषपरिहारार्थं राघवेण महात्मना । तीर्थयात्रा कृता पूर्वमस्माकं का कथा पुनः ॥ ५९ ॥ इति स्मृत्वा भयं चित्ते सर्वत्र जगतीतले । करिष्यन्ति जना यात्रां स्वदोषक्षालनाय हि ॥ ६० ॥ त्वयि ब्रह्मणि पूर्णे च दोषारोपः कथं भवेत् । पद्मपत्रे जलस्पर्शो न घटेत यथा तथा ॥ ६१ ॥ यस्य भ्रूभंगमात्रेण ब्रह्मांडप्रलयो भवेत् । ब्रह्मांडांतर्गतान् जीवान् हरसि त्वं यदा मुहुः ॥ ६२ ॥ तदा दोषानुरोपस्ते किं घटेत जनार्दन । सर्वेषां च क्षयं मृत्युर्विदधाति तवाज्ञया ॥ ६३ ॥ तत्र संख्यात्र का कार्या त्वया दोषः कृतस्त्विति । यथाचित्राणि कुड्ये हि लिखितानि सहस्रशः ॥ ६४ ॥ संमार्जितानि तेनैव तत्र दोषो भवेत्कथम् । तथा त्वमपि श्रीराम त्रिधा भूत्वा त्रिभिर्गुणैः ॥ ६५ ॥ सृष्टिं करोषि रजसा सत्त्वरूपेण पालनम् । तमोरूपेण संहारं विधिविष्णुशिवात्मकः ॥ ६६ ॥ अस्माभिस्तव तोषार्थं तीर्थयात्रा विधीयते । तव तीर्थस्तु किं राम तीर्थीभूतगुणस्य च ॥ ६७ ॥ सर्वतीर्थेषु मुख्या या कीर्त्यते स्वर्धुनी भुवि । तव दक्षिणपादस्यांगुष्ठाग्राञ्जनिता तु सा ॥ ६८ ॥ तवांघ्रिरजसः स्पर्शान्पवित्रा कीर्तिता भुवि । तव पादरजोमिश्रा दृश्यतेऽद्यापि सा सिता ॥ ६९ ॥ रजांस्यद्यापि दृश्यन्ते तव भागीरथीजले । इति नानाविधैर्वाक्यैस्तोषयामास राघवम् ॥ ७० ॥ अष्टोत्तरशतं यावत् श्रीमद्रामस्तवेन च । स्तुत्वा रामं राघवेण पूजितः स्थितवान्मुनिः ॥ ७१ ॥ रामोऽपि गुरुसान्निध्ये तस्थौ सीतासमन्वितः । निजासनेषु सर्वत्र तस्थुस्ते सकला जनाः ॥ ७२ ॥ इति श्रीशतकोटिरामचरितांतर्गतश्रीमद् आनन्दरामायणे वाल्मीकीये यागकाण्डे कुम्भोदरदर्शनं नाम चतुर्थ सर्गः ॥ ४ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |