॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यागकाण्डम्
॥ तृतीयः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ मुक्तस्तदा वाजी राघवेण महात्मना । यज्ञांगः श्यामकर्णः स पूर्वदेशं ययौ जवात् ॥ १ ॥ शत्रुघ्नेन च सैन्येन प्राप्तो भागीरथीतटम् । एतस्मिन्नन्तरे रामः स्वप्रतापं प्रदर्शयन् ॥ २ ॥ चकार कौतुकं तत्र शत्रुघ्नस्य पुरो महत् । ब्रह्मावर्तं महादेशं त्यक्त्वा गङ्गातटं प्रति ॥ ३ ॥ यावत्प्राप्तः श्यामकर्णस्तावदासीद्धनैर्विना । गङ्गायां च महापूरो यत्र नौकाऽपि कुंठिता ॥ ४ ॥ शबुघ्नेनापि तद्दृष्ट्वा कुण्ठिता गतिमीक्ष्य च । कालातिक्रमभीत्या स निजचित्ते व्यचिंतयत् ॥ ५ ॥ आदावेवापि मे विघ्नमुत्पन्नं गमने महत् । ग्रासे प्राथमिके यद्वन्मक्षिकापतनं तथा ॥ ६ ॥ तर्हीदानीं रामचन्द्रप्रतापेनास्तु मे गतिः । निश्चित्येत्थं स शत्रुघ्नो रथस्थो जाह्नतीतटे ॥ ७ ॥ स्थित्वा प्रोवाच गङ्गां स प्रतिपूज्य सविस्तरम् । शृण्वत्सु सर्वलोकेषु मुनिदेवगणेषु च ॥ ८ ॥ देवि गङ्गे महापुण्ये यदि सत्यं रघूत्तमे । दीयतां तर्हि पथा मे शीघ्रं सैन्ययुतस्य च ॥ ९ ॥ इति शत्रुघ्नवचनं श्रुत्वा सा जाह्नवी तदा । स्ववेगं खंडयामास स्वोदरं चाप्रदर्शयत् ॥ १० ॥ पद्भिर्वाजी तदा शीघ्रं परं तीरं ययौ क्षणात् । तथा सैन्येन शत्रुघ्नः ससुमंत्रः समाययौ ॥ ११ ॥ मागधाख्यं महादेशं स एव कीकटः स्मृतः । पूर्ववच्च महापूरो जाह्नव्यां संबभूव ह ॥ १२ ॥ प्रतापं रामचन्द्रस्य सर्वैर्बुध्वा महाद्भुतम् । चक्रुस्ते जयशब्दांश्च सीतारामाख्यया मुहुः ॥ १३ ॥ श्यामकर्णस्ततः शीघ्रं ययौ पूर्वदिशं प्रति । मगधेशो नृपश्चाथ श्रुत्वा तुरगमागतम् ॥ १४ ॥ प्रत्युज्जगाम सैन्येन पुरस्कृत्याथ वारणम् । निनायाश्वं पठित्वा तद्भालपत्रं पुरं निजम् ॥ १५ ॥ पूज्यादरात्ससैन्यं तं शत्रुघ्नं विभवैर्निजैः । समस्तं निजकोशादि समर्प्य मगधाधिपः ॥ १६ ॥ पौरान् जानपदान्त्यस्त्रीः सुहृत्तनयमंत्रिणः । पौरपत्नीर्जानपदपत्नीविप्रान् पुरोधसम् ॥ १७ ॥ प्रेषयामास साकेते वाहनैरध्वरं प्रति । स्वयं सैन्येन तुरगचरणाननुलक्ष्य च ॥ १८ ॥ शत्रुघ्नवागनुवर्ती बद्धहस्तपुटो ययौ । एवं सर्वेऽपिराजानो ज्ञातव्याःसर्वदिक्स्थिताः ॥ १९ ॥ न केनापि श्यामकर्णो बद्धो नृपतिना भुवि । इन्द्रायैर्निर्जरैर्नापि नासुराद्यैः कदाचन ॥ २० ॥ ततो वाजी पूर्वदेशानंगवंगकलिंगकान् । तथा नानाविधान्देशान् विलंघ्य जलधेस्तटम् ॥ २१ ॥ दृष्ट्वा नृपकुलैर्युक्तो दक्षिणाभिमुखो ययौ । गोदावरीं नदीं तीर्त्वा देशमांध्रं च द्राविडम् ॥ २२ ॥ अतिक्रम्यारवाराख्यं देशं समतिक्रम्य च । काञ्चीप्रदेशान्सकलान् पश्यन्नानाविधान् शुभान् ॥ २३ ॥ कावेरीं समतिक्रम्य चोलदेशं विलंध्य च । सेतुबंधं ततो दृष्ट्वा पश्चिमाभिमुखो ययौ ॥ २४ ॥ ताम्रपर्णी विलंघ्याथ समतिक्रम्य केरलान् । द्विषट्प्रकारान् देशांश्च गोकर्ण च ततौ ययौ ॥ २५ ॥ कृष्गातीरप्रदेशांश्च समतिक्रम्य घोटकः । कर्णाटकं महादेशं समतिक्रम्य सत्वरम् ॥ २६ ॥ कोंकणं समतिक्रम्य तत्तद्देशनृपैः सह । भीमान्देशान् स सकलाञ्श्यामकर्णः शुभावहः ॥ २७ ॥ पश्यन् ययौ महाराष्ट्रं गौतमीं तां विलंघ्य च । विदर्भ समतिक्रम्य ययावाभाग्मडलम् ॥ २८ ॥ मालवं समतिक्रम्य तीर्त्वा पुण्यां महानदीम् । तीर्त्वा स भ्रमतीं पुण्यां समनिकम्य गुर्जरम् ॥ २९ ॥ प्रभासं च ततो गत्वा ययावानर्तमुत्तमम् । सौवीरान्समतिक्रम्य ययौ वाजी स माथुरान् । सौराष्ट्रान्समतिक्रम्य मरुदेशं ययौ हयः ॥ ३० ॥ धन्वदेशमतिक्रम्य ययौ सारस्वतानथ । मत्स्यान्देशानतिक्रम्य ययौ वाजी स माठरान् ॥ ३१ ॥ शूरसेनानतिक्रम्य पांचालांस्तुरगो ययौ । कुरुक्षेत्रं ततो गत्वाऽतिक्रम्य कुरुजांगलान् ॥ ३२ ॥ देशं कैकेयमुल्लंघ्य ययौ काश्मीरमुत्तभम् । भिल्लदेशं गौडदेशं शकदेशं ययौ हयः ॥ ३३ ॥ यवनांस्ताम्रदेशांश्च समतिक्रम्य वेगतः । पश्यन्नानाविधान् देशान करतोयातटेन वै ॥ ३४ ॥ ययौ वाजी वायुगत्या शीघ्रं ज्वालामुखीं प्रति । दोषभीत्या करतोयां तीर्त्वा नैवाग्रतो गतः ॥ ३५ ॥ कर्मनाशानदीस्पर्शात् करतोयाविलंघनात् । गंडकीं बाहुतरणाद्धर्मः स्खलति कीर्तनात् ॥ ३६ ॥ हरिद्वारं ययौ वाजी ततो गङ्गातटेन हि । हिमाद्रेः सन्निधौ देशान् समतिक्रम्य वेगतः ॥ ३७ ॥ बद्रिकाश्रममालोक्य कलापग्रामवासिभिः । संमानितस्तदा वाजी गत्वा तन्मानसं सरः ॥ ३८ ॥ दृष्ट्वा हरिहरक्षेत्रं मिथिलां प्राप सेनया । नानादेशानतिक्रम्य ह्यार्यावर्तं ययौ हयः ॥ ३९ ॥ दृष्ट्वा काशीं त्रिवेणीं च ह्यंतर्वेदीं ययौ जवात् । शृङ्गवेरपुरं गत्वा तमसां तां विलंघ्य च ॥ ४० ॥ गत्वा स नैमिषारण्यं समुल्लघ्याथ गोमतीम् । ब्रह्मावर्तं सरो गत्वा पश्यन् देशान् मनोरमान् ॥ ४१ ॥ कोसलाख्यं महादेशं दृष्ट्वा वाजी मनोरमम् । ततः साकेतविषये षण्मासैः प्राप चाध्वरम् ॥ ४२ ॥ नानादेशनृपैः सार्धं शत्रुघ्नेनाभिरक्षितः । आगतं श्यामकर्णं तं ज्ञात्वा सीतापतिस्तदा ॥ ४३ ॥ आज्ञापयच्च सौमित्रिं सोऽपि प्रत्युज्जगाम तम् । वारणेद्रं पुरस्कृत्य भेरीदुदुभिनिःस्वनैः ॥ ४४ ॥ वारस्त्रीणां नृत्यगीतैर्वेदघोषैद्विजैरितैः । संपूज्याथ श्यामकर्णं नृपतींश्च सविस्तरम् ॥ ४५ ॥ आनयामास सौमित्रिः शनैरध्वरमंडपम् । महोत्सवो महानासीत्तदा तुरगदर्शने ॥ ४६ ॥ दशयोजनपर्यंतं सर्वत्र जगतीतलम् । व्याप्तं समं ततोऽयोध्याबहिर्नृपगणैस्तदा ॥ ४७ ॥ तत्र सर्वत्र राजानः पूर्वसंप्रेषिताञ्जनान् । पौरान् जानपदान्स्त्रीश्च पश्यतो भ्रमरोपमाः ॥ ४८ ॥ सैन्येन बभ्रमुः सर्वे स्वीयदर्शनलालसाः । न प्रापुर्दर्शनं तेषां जनौघेऽध्वरमंडपे ॥ ४९ ॥ केचित्ते दर्शनं स्वानां प्रापुस्तत्र परेऽहनि । केचित्तृतीये दिवसे पंचमे सप्तमेऽथ वा ॥ ५० ॥ केचिद्दुंदुभिघोषेण प्रापुः स्वानां प्रदर्शनम् । केचित् पक्षानन्तरं हि मासेनानंतर जनाः ॥ ५१ ॥ केषां वियोग एवासीच्चिरकालं तदाऽध्वरे । तज्ज्ञात्वा रामचंद्रोऽपि लक्ष्मणं प्राह सादरम् ॥ ५२ ॥ परस्परं वियोगोऽत्र समर्द्देन तु लक्ष्मण । जायतेतत्र युक्तिं त्वं मत्तः श्रुत्वा कुरुष्व ताम् ॥ ५३ ॥ तमसायास्तटे शालां कृत्वाऽद्य महतीं शुभाम् । घोषणीयश्च सर्वत्र महादुंदुभिनिःस्वनैः ॥ ५४ ॥ येषां वियोगस्तैर्गत्वा तमसातटशोभिताम् । शालां प्रवेशयध्वं हि स्वानां योगोऽस्तु तत्र हि ।५५ ॥ चतुष्पदादिवस्तूनि ज्ञात्वा यस्य लघून्यपि । तत्रैव स्थापनीयानि स्वं स्वगृह्णन्तु ते जनाः ॥ ५६ ॥ इति रामवचः श्रुत्वा तथेत्युक्त्वा स लक्ष्मणः । तथा चकार तत्सर्वं येन योगः परस्परम् ॥ ५७ ॥ सर्वे तत्र जनाः प्रापुः स्वानां स्त्रीबालमंत्रिणाम् । चतुष्पदादिवस्तूनां तत्र लाभो बभूव ह ॥ ५८ ॥ यत्किंचिद्विस्मृतं येन तद्दृष्ट्वाऽन्येन वै तदा । शालायां स्थापितं दृष्ट्वा त्वयं जग्राह तत्र सः ॥ ५९ ॥ एवं श्रीरामयज्ञे हि समर्दः संबभूव ह । न तत्र शुश्रुवे शब्दः कर्णेऽप्युक्तो जनैस्तदा ॥ ६० ॥ ततस्ते पार्थिवाः सर्वे तस्थुर्वसनसद्मसु ॥ ६१ ॥ इति श्रीशतकोटिरामचरितांतर्गत श्रीमद् आनंदरामायणे वाल्मीकीये यागकाण्डे अश्वागमनं नाम तृतीयः सर्गः ॥ ३ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |