॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यागकाण्डम्
॥ द्वितीयः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ रामः ससीतस्तु मुहूर्ते सप्तमेऽहनि । नवनीतोद्वर्तनाद्यैः स्नात्वा कृत्वाजनादिकम् ॥ १ ॥ तूर्यनादैर्द्विजानां च वेदघोषैर्विशेषतः । पौरस्त्रीणां गायनैश्च पौराणां च जयस्वनैः ॥ २ ॥ आगत्य मंडपे रम्ये तस्थौ चित्रासनोपरि । ददौ कौशेयवस्त्राणि गुरुं रामस्त्वरुन्धतीम् ॥ ३ ॥ पौरांश्च पौरपत्नीश्च मातॄश्चाथ सुवासिनीः । श्वश्रूश्चापि द्विजान् सर्वान् जनकंसुहृदस्तथा ॥ ४ ॥ बन्धूश्च बन्धुपत्नीश्च वयस्यांश्च ततः परम् । मंत्रिणश्चाथ वीरांश्च दासदासीजनांस्तथा ॥ ५ ॥ नटनर्तकवंद्यादीन् वारस्त्रीश्च ततः परम् । आचांडालादिकान् दत्त्वा ततः सीतां ददौ वरम् ॥ ६ ॥ हेमतन्तुसमुद्भूतं मुक्तामाणिक्यगुंफितम् । रत्नकाश्मीरनीलाद्यैर्मध्ये मध्ये विचित्रितम् ॥ ७ ॥ मुक्ताप्रवालघोषाद्यैर्मणिभिः सर्वतो वृतम् । आदर्शबिम्बसदृशं विद्यत्तेजोपमं महद् ॥ ८ ॥ ततः स्वयं रामचन्द्रः पीतकौशेयमुत्तमम् । हेमतत्वंकितं नानवल्लीपुष्पविचित्रितम् ॥ ९ ॥ दधारान्यत्तूत्तरीयं वासोऽलंकारमण्डितः । व्यन्जिताशेषगात्रश्रीर्मणिद्वयविराजितः ॥ १० ॥ केयूरकुण्डलैर्मुक्ताहारैश्च कटकैर्युतः । ततो वसिष्ठवर्यस्तं मुक्तानां स्वस्तिकोपरि ॥ ११ ॥ निवेश्य राघवः सीतामाहूय बटुकैर्निजैः । निवेश्य रामवामांगे मुनिभिः परिवेष्टितः ॥ १२ ॥ रामेण कारयामास विघ्नेशादिप्रपूजनम् । पुण्याहादित्रयं चापि ददौ दीक्षा ततस्तयोः ॥ १३ ॥ ध्वजारोपविधानेन स्थापयित्वा ध्वजोत्तमान् । रामेण वरयामास गुरुः षोडश ऋत्विजः ॥ १४ ॥ वसिष्ठस्तत्र सजातोऽध्वर्युः सकलकर्मावत् । ब्रह्माऽभूच्च स्वयं ब्रह्मा होता गाधिसुतो ह्यभूत् ॥ १५ ॥ उद्गाताऽभूच्छतानंदो गुरुर्यो जनकस्य च । यमो बभूव शमिता कश्यपाद्या मुनीश्वराः ॥ १६ ॥ वृणीता वाजिमेधे हि राघवेण महात्मना । ऋत्विजः पोडश शुभास्तथाऽन्ये सर्वकर्मसु ॥ १७ ॥ पृथक् पृथक् संवृणीताः शतशस्ते मुनीश्वराः । कुण्डेऽग्निस्थापनं कृत्वा पात्राण्यासाद्य विस्तरात् ॥ १८ ॥ श्यामकर्णं जयित्वा मोचयामास भूतले । सव्यं प्रदक्षिणां कर्तुं तस्य संरक्षणाय हि ॥ १९ ॥ रथारूढं सुमंत्रेण सैन्येनायुतसंख्यया । शत्रुघ्नं प्रेषयित्वाऽय तूष्णीं तस्थौ द्विजैर्गुरुः ॥ २० ॥ यज्ञवाटे मुनिगणापूरिते सरयतूटे । रामोऽपि सीतया तूष्णीं तस्थौ शृण्वन् कथाः शुभाः ॥ २१ ॥ कृष्णाजिनधरो दांतः कुशपाणिः कृतोचितः । कोटिसूर्यप्रतीकाशस्तस्थौ स गुरुसन्निधौ ॥ २२ ॥ तद्दीक्षायां प्रवृत्तायां भ्रातरः पुष्करस्रजः । स्नाताः सुवाससः सर्वे रेजिरे सुष्ठ्वलंकृताः ॥ २।३ ॥ तन्महिष्यश्च मुदिता निष्ककंठ्यः सुवाससः । दीक्षाशलामुपाजग्मुश्चालिप्ता वस्तुपाणयः ॥ २४ ॥ तदा निनेदुर्वाद्यानि ननृतुर्वारयोषितः । एतस्मिन्नन्तरे तत्र समायाता मुनीश्वराः ॥ २५ ॥ दिन दिनेऽश्वमेधस्य वार्तां श्रुत्वा सहस्रशः । कश्यपोऽत्रिभरद्वाजो विश्वामित्रोऽथ गौतमः ॥ २६ ॥ मार्कण्डेयो मृकण्डश्च च्यवनो मुद्गलोऽसितः । जामदग्न्यो देवलश्च व्यासो नारायणः क्रतुः ॥ २७ ॥ विभांडको नारदश्च तुम्बुरुर्गालवो मुनिः । शिवदासो भानुदासो हरिदासो महातपाः ॥ २८ ॥ शिववर्मा रुद्रवर्मा शिवशर्मा मुनाश्वरः । एकशृंगश्चतुःशृङ्गः सप्तशृङ्गस्त्रिशृङ्गकः ॥ २९ ॥ तिलभांडां भृगुश्चैव भार्गवो वाक्पतिस्तथा । धौम्यः कण्वश्चैकपादस्त्रिपादश्चोर्ध्वबाहुकः ॥ ३० ॥ ऊर्ध्वपादश्चोर्ध्वनेत्रश्चोर्ध्वास्यस्त्रिशिरास्तथा । वृद्धगौतमनामाऽथ पर्णादश्चद्रसंज्ञकः ॥ ३१ ॥ ऋष्यशृंगो मतंगोऽथ जाबालिः कुंभसंभवः । दधीचिः शौनकः सूतः सुतीक्ष्णो लोमशस्तथा ॥ ३२ ॥ वाल्मीकिश्चापि दुर्वासा मुनिर्वेदनिधिर्महान् । एते चान्ये च मुनयः स्त्रीशिष्यतनयादिभिः ॥ ३३ ॥ केचित्पर्णाशनाः केचिद्वायुभक्षास्तथाऽपरे । कुशाग्रजलपानाश्च केचित्त्यक्ताशनास्तथा ॥ ३४ ॥ भिक्षाशनास्तथा केचित् परदत्ताशनाः परे । अयाञ्चाव्रतिनः केचित्त्यक्तसंभाषणाः परे ॥ ३५ ॥ केचिद्वल्कलसंवीताः केचित्काषायवस्त्रिणः । मृगचर्मधराः केचित् केचिदाकाशवस्त्रिणः ॥ ३६ ॥ वृक्षपल्लववस्त्राश्च केचित्पंचाग्निसाधकाः । धूम्रपानव्रताः केचित् केचित्त्यक्तेषणाः परे ॥ ३७ ॥ एवं नानावनारामगिरिदुर्गाश्रमादिषु । वासिनस्ते समायाताः सदाराश्च सबालकाः ॥ ३८ ॥ सशिष्या रामचन्द्रस्य द्रष्टुं यज्ञोत्सवं वरम् । दशदिग्भ्यो मुनिश्रेष्ठाः कोटिशश्च दिने दिने ॥ ३९ ॥ तान्सर्वान् रामचंद्रोपि प्रत्युत्थानासनादिभिः । मधुपर्कादिपूजाभिस्तोषयामास सादरम् ॥ ४० ॥ यज्ञवाटे महारम्ये कामधेनुं रघूत्तमः । पूजयामास विधिवद्वस्त्रैराभरणेरपि ॥ ४१ ॥ सुवर्णशृंगभूषाभिः किंकिणीनूपुरादिभिः । एवं तां शोभयित्वाऽथ प्रार्थयामास राघवः ॥ ४२ ॥ धेनो सागरसंभूते त्वमन्नानि द्विजादिकान् । दातुमर्हस्यध्वरे मे प्रसीद जगदंबिके ॥ ४३ ॥ एवं संप्रार्थ्य तां कामधेनुं गमः प्रणम्य च । बबन्ध पाकशालायां पट्टकूलासनोपरि ॥ ४४ ॥ अथ सा सुरभिस्तुष्टा षड्रसान्नानि सादरात् । ददौ जनकनन्दिन्यै सा देवाध्वरकर्मणि ॥ ४५ ॥ नाग्निकार्यं च तत्रासीत् पाकशालासु चैकदा । इच्छाशनैः सदा पुष्टा बभूवुर्मुनिसत्तमाः ॥ ४६ ॥ यान्यान्कामान् रामचद्रश्चिन्तयामास चेतसि । तांस्तानुभौ मणी शीघ्रं कल्पयामासतुर्द्रुतम् ॥ ४७ ॥ तथा सीताऽपि यान् कामांश्चिन्तयामास चेतसि । कामधेनुर्ददौ ताँस्ताञ्छीघ्रं त्रैलोक्यदुर्लभान् ॥ ४८ ॥ सर्वत्र यज्ञवाटे हि द्विजाद्यैश्च समंततः । पंक्तिषु भूमिजादीनां परिवेषणकर्मणि ॥ ४९ ॥ स्त्रीणां कंकणनादश्च शुश्रुवे नूपुरध्वनिः । अथ रामश्च सौमित्रिं समाहूयेदमब्रवीत् ॥ ५० ॥ सीमाचारान्समाहूय मम वाक्याच्च सादरम् । आज्ञापयस्व शीघ्रं त्वं शासनं यन्मयोच्यते ॥ ५१ ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थाश्रमी यतिः । यःकश्चिद्वा समायाति पथिकः न ममाज्ञया ॥ ५२ ॥ निवारणीयो युष्माभिर्न कदाप्यध्वरे मम । ममाज्ञां न प्रतीक्षध्वं कोपः कार्यो न कस्यचित् ॥ ५३ ॥ इति रामवचः श्रुत्वा तथेत्युक्त्वा स लक्ष्मणः । सीमाचारान समाहूय राघवोक्तं न्यवेदयत् ॥ ५४ ॥ ततो रामः पुनः प्राहः समाहुयाथ लक्ष्मणम् । ब्रह्मचारी गृहस्थो वा वानप्रस्थाश्रमा यतिः ॥ ५५ ॥ मुनीनां दयिता बालाः शिष्याः सम्बन्धिनस्तथा । पौरा जानपदस्थास्तु तेषां संवधिनः स्त्रियः ॥ ५६ ॥ दासीदासजनाः सर्वे यद्यद्वांछंति लक्ष्मण । मामपृष्ट्वा तु तत्तेषां दातव्यं ह्यविचाग्तिम् ॥ ५७ ॥ अन्त्यजावधि सर्वान्हि तोषयध्वं निरन्तरम् । न केषामभिलाषा च विकला हि विधीयताम् ॥ ५८ ॥ अयोध्यां कामधेनु च जानकीं कौस्तुभं मणिम् । चितामणिं पुष्पकं च राज्यं कोशादिकं च मे ॥ ५९ ॥ एतेष्वपि च यो यद्वै याचयिष्यति तत्त्वया । न दत्तं चेति वै श्रुत्वा ममातोषो भवेत्त्वयि ॥ ६० ॥ अतो ज्ञात्वा भयं मत्तो ददस्व ह्यविचारतः । याञ्चाभङ्गः कृतश्चेद्धि मच्छिरोहा भविष्यसि ॥ ६१ ॥ सदा स्मर गिरं मे त्वमिमां लक्ष्मण सादरम् । इति रामक्रतां शिक्षामंगीकृत्य स लक्ष्मणः ॥ ६२ ॥ तथा चकार तत्सर्व यथा रामेण शिक्षितम् ॥ ६३ ॥ इति श्रीशतकोटिरामचरितांतर्गत श्रीमद् आनन्दरामायणे वाल्मीकीये यागकाण्डे लक्ष्मणाज्ञाकरणं नाम द्वितीयः सर्गः ॥ २ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |