॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यागकाण्डम्

॥ षष्ठः सर्गः ॥
[ रामदिनचर्यावर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथ कुम्भोदरे दिव्ये आसनोपरि संस्थिते ।
यज्ञस्तम्मे श्यामकर्णं बबन्धुस्ते हि ऋत्विजः ॥ १ ॥
तस्याङ्‌गानि समस्तानि पृथङ्‌ मन्त्रैर्यथाविधि ।
सम्मन्त्र्यापि शमित्रा तं निहन्युर्द्विजपुङ्‌गवाः ॥ २ ॥
तन्मासखण्डैराज्याक्तैर्होमं चक्रुः सविस्तरम् ।
तथा नानाविधैर्द्रव्यैः सक्तुपायसगोघृतैः ॥ ३ ॥
मध्वाक्ततिलदूर्वाद्यैः समिधाभिश्च सादरम् ।
गोघृतेन वसोर्धारां वह्नौ स्थूलामखण्डिताम् ॥ ४ ॥
गोमुखेनोर्ध्वबद्धेन ददुमंत्रैः सविस्तरम् ।
चिरकालं होमकुडे यावद्‌यज्ञसमापनम् ॥ ५ ॥
तदा धूमचयैर्व्याप्तमाकाशं च समन्ततः ।
नाद्यापि दृश्यते शुभ्रं नीलवर्ण प्रदृश्यते ॥ ६ ॥
चैत्रमासे महापुण्ये वसन्तर्तौ सुखावहे ।
एवं प्रवर्तयामासुर्वाजिमेधं मुनीश्वराः ॥ ७ ॥
ईजुस्ते यज्ञविधिना ह्यग्निहोत्रादिलक्षणैः ।
प्राकृतैवैकृतैयज्ञैद्रव्यज्ञानक्रियेश्वरम् ॥ ८ ॥
प्रत्यहं प्रातरुत्थाय रामचद्रः ससीतया ।
नत्वा शंभुं विधिं देवान् मुनींश्चापि पयक् पृयक् ॥ ९ ॥
कौसल्याद्याश्च मातृश्च कामधेनु हृदि स्थितम् ।
चिंतामणिं कौस्तुभं च कंठे बद्ध रविप्रभम् ॥ १० ॥
पुष्पकं यज्ञवाटस्य देवता यज्ञपूरुषम् ।
ततो गत्वा रामतीर्थे स्नात्वा रामो यथाविधि ॥ ११ ॥
कृत्वा नित्यविधिं सर्वं पूजयामास शंकरम् ।
उपहारान् समर्प्याथ कामधेनुसमुद्‌भन् ॥ १२ ॥
समानीतान् रन्नपात्रैः सीतया रघुनंदनः ।
ततः संपूज्य तां धेनु विधिं पूज्य सविस्तरम् ॥ १३ ॥
ऋत्विग्जनं तु संपूज्य तस्थौ स गुरुसन्निधौ ।
प्रभाते ऋत्विजः सर्वे सहयज्ञा मुनिश्वराः ॥ १४ ॥
स्नात्वा नित्यविधिं कृत्वा तस्थुर्यज्ञस्य मंडपे ।
रामाज्ञयाऽथ सौमित्रिनृपादीनां प्रपूजनम् ॥ १५ ॥
दिव्यैर्नानोपहाराद्यैः कामधेनुसमुद्भवैः ।
ततश्चकार सौमित्रिर्नृपादीनां प्रपूजनम् ॥ १६ ॥
तथा सीताया स्त्रीणामुला लक्ष्मणप्रिया ॥ १७ ॥
मांडवीं श्रुतकीर्तिश्च सर्वाश्चक्रुः प्रपूजनम् ।
अथ ते ऋत्विजश्चक्रुः स्वाहाकारैर्यथाविधि ॥ १८ ॥
होमं नानाविधैद्रव्यैः सुगन्धेर्यज्ञमडपे ।
पुरोडाशान् वरान् दिव्यानश्रन् रामोऽपि सीतया ॥ १९ ॥
वाजिमेधे राघवस्य साक्षाद्देवाः स्वयं मुदा ।
हवींषि भक्षयामासुस्त्यक्तमात्राणि पावके ॥ २० ॥
अस्तु श्रौषडिति प्रोचुर्वाद्यघोषः स मेघवत् ।
श्रूयते यज्ञशालासु सर्वत्रर्त्विजकीर्तितः ॥ २१ ॥
मध्ये कुंड महारम्यं व्याप्तमृत्विग्जनैः शुभम् ।
ततो मुनीश्वराः सर्वे ततो देवाः समंततः ॥ २२ ॥
ततः सर्वाः स्त्रियः श्रेष्ठास्ततो विद्याधराः स्थिताः ।
ततो यक्षाश्च गंधर्वाः किन्नराः प्लवगात्तमाः ॥ २३ ॥
ततस्ते क्षत्रियाः सर्वे ततस्तेषां तु सेवकाः ।
ततः स्थिता वारनार्यस्ततो मागधवंदिनः ॥ २४ ॥
ददृशुः संस्थिता यज्ञमंडपे यज्ञकौतुकम् ।
मध्याह्नावधि हुत्वा ते ऋत्विजश्च सविस्तरम् ॥ २५ ॥
ततो माध्याह्निकं कर्तुं ययुस्तां सरयूं नदीम् ।
कृत्वा माध्याह्निकं कर्म गत्वा तु यज्ञमंडपे ॥ २६ ॥
हैमासने तु सर्वत्र नेमिरेखोपमे स्थितः ।
देवाश्चापीश्वाराद्यास्ते तस्थुर्दिव्यासनोपरि ॥ २७ ॥
लक्ष्मणस्तान् प्रपूज्याथ भरतेन स शत्रुहा ।
संस्थाप्य हेमपात्राणि सर्वेषां पुरतस्तदा ॥ २८ ॥
जानकीं त्वरयामास परिवेषणकर्मणि ।
अथ सातोर्मिला रम्या तथा सा मांडवी शुभा ॥ २९ ॥
श्रुतकीर्तिमंत्रिपत्‍न्यः सुहृत्पत्न्यः सहस्रशः ।
परिवेषणकर्माणि चक्रुस्ता यज्ञमंडपे ॥ ३० ॥
नानाविधैवरान्नैश्च कामधेनुभमुद्भवैः ।
मुनाश्वरादिकाः सर्वे तोषमापुस्तदाऽध्वरे ॥ ३१ ॥
सीतादीनां हि नारीणां तदा यज्ञस्य मंडपे ।
नूपुराणां किंकिणीनां शुश्रुवे सर्वतो ध्वनिः ॥ ३२ ॥
यथेच्छ भुंजतां सर्वे याच्यतां यद्धृदि स्थितम् ।
मा शंका भोजने कार्या त्यक्तव्य यन्न रोचते ॥ ३३ ॥
अयाचितानि देयानि पक्वान्नानि यथारुचि ।
अखंडिताज्यधाराऽत्र कार्या राघवशासनात् ॥ ३४ ॥
गृह्यतां किंचिदूचुस्ते नेति नेति द्विजाः पुनः ।
इति भोजनकाले वै शुश्रुवे सर्वतो ध्वनिः ॥ ३५ ॥
किंचिदपेक्षितं स्वामिन्निति रामेण प्रार्थिताः ।
चक्रुस्ते भोजनं सर्वे वीजिता व्यजनादिभिः ॥ ३६ ॥
जलैरुष्णोदकैश्चक्रुः करशुद्धिं मुनीश्वरौ ।
ततो गृहीततांबूला मुनयस्ते तु निर्जराः ॥ ३७ ॥
गृहीत्वा हेममुद्रां हि राघवेण पृथक् पृथक् ।
समर्पिता दक्षिणार्थं जग्मुर्वासस्थलानि हि ॥ ३८ ॥
ततः पूर्वोपचाराद्यैः कथितैरेव पार्थिवाः ।
चक्रुस्ते भोजनं सर्वे चक्रुर्वेश्यास्ततः परम् ॥ ३९ ॥
स्त्रीणां भोजनशालासु पूर्व भुक्त्वाऽमरस्त्रियः ।
सहिता मुनिपत्‍नीभिस्ततस्ताः क्षत्रियस्त्रियः ॥ ४० ॥
चक्रुर्वै भोजनं सर्वाः सीतया प्रार्थिता मुहुः ।
ततो वैश्यास्त्रयश्चक्रुः पौरनार्यस्ततः परम् ॥ ४१ ॥
ततः शूद्रस्त्रियश्चापि मुदा चक्रुश्च भोजनम् ।
शालासु पुरुषाणां च ततो वानरराक्षसाः ॥ ४२ ॥
ऋक्षाः पौरा जानपदाश्चक्रुर्भोजनमुत्तमम् ।
ततः सूद्रादयः सर्वे ततः पार्थिवसेवकाः ॥ ४३ ॥
नकश्चित् क्षुधितस्तत्र नासीत्कस्य निषेधनम् ।
ततो रामः सुहृन्मित्रैर्बंधुभिः सचिवादिभिः ।४४ ॥
चकार भोजनं स्वस्थः सीतया प्रार्थितो मुहुः ।
यावंतो भूमिकणिका यावंतस्तोयबिंदवः ॥ ४५ ॥
यांवत्युडूनि गगने तावन्तो राघवाध्वरे ।
प्रत्यहं भोजनं चक्रुर्विप्राद्यास्तत्स्त्रियोऽपि च ॥ ४६ ॥
श्वश्रूभिर्मंत्रिपत्‍नीभिस्तथा देवरपत्‍निभिः ।
चकार भोजनं सीता दिव्यान्नैः स्वस्थमानसा ॥ ४७ ॥
ततश्चतुर्थप्रहरे सभां कृत्वा तु मंडपे ।
कथाभिः कीर्तनैर्गीतैः शास्त्रवादैः सुपुण्यदैः ॥ ४८ ॥
वारस्त्रीणां नृन्यगीतैर्निन्ये रामो दिनक्षयम् ।
ततः संध्यादिकं कृता पुनर्हुत्वा यथाविधि ॥ ४९ ॥
पूर्वोक्तैस्तु कथाद्यैश्च निशायाः प्रहरद्वयम् ।
संगतिक्रम्य निद्रार्थं सर्वानाज्ञापयत्तदा ॥ ५० ॥
गत्वा स्वस्वस्थलं सर्वे निद्रां चक्रर्यथासुखम् ।
पट्टकूलासने भूम्यां सीतया स जितेंद्रियः ॥ ५१ ॥
चकार निद्रां श्रीरामो हृदि चित्येष्टदैवताः ।
आज्ञाभंगो नरेन्द्राणां विप्राणां मानखडनम् ॥ ५२ ॥
पृथक् शय्या च नारीणामशस्त्रवध उच्यते ।
अतः स सीतया युक्तश्चकार शरणं प्रभुः ॥ ५३ ॥
एवमासीन्प्रत्यहं वै दिनचर्याऽध्वरे प्रभोः ॥ ५४ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये
यागकाण्डे यज्ञारंभे रामदिनचर्यावर्णनं नाम षष्ठः सर्गः ॥ ६ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP