॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विलासकाण्डम्
॥ नवमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच एकदा सीतया रामः कुरुक्षेत्रं स्वबंधुभिः । ययौ सूर्योपरागे वै स्नातुं पुष्पकसंस्थितः ॥ १ ॥ तत्र देवाः सगन्धर्वाः किन्नराः पन्नगा ययुः । नानाऽऽश्रमेभ्यो मुनयः पार्थिवाश्च सहस्रशः ॥ २ ॥ तत्र स्नात्वा रवौ ग्रस्ते राघवः सीतया सह । चकार नानादानानि हस्त्युष्ट्ररथवाजिनाम् ॥ ३ ॥ ततस्ते पार्थिवाः सर्वे नानोपायनपाणयः । ययुस्ते राषवं द्रष्टुं राजपत्न्यश्च जानकीम् ॥ ४ ॥ अथ सीता राजपत्नीः समालिंग्य वरासने । सखीभिर्मुनिदारैश्च सुखं चोपाविशत्तदा ॥ ५ ॥ एतस्मिन्नन्तरे तत्र सीतया पूजिता स्थिता । लोपामुद्रामऽब्रवीद्वाक्यं जानकीं रंजयन्मुदा ॥ ६ ॥ हे सीते कंजनयने धन्याऽसि गजगामिनि । किंचिद्वर्णय रामस्य पौरुषं श्रुतितोषदम् ॥ ७ ॥ तत्तस्या वचनं श्रुत्वा वर्णयामास जानकी । स्वपाणिग्रहणात्पत्युः कुरुक्षेत्रावधिं कथाम् ॥ ८ ॥ लोपामुद्राऽपि तच्छ्रुत्वा विहस्य प्राह जानकीम् । सर्वं योग्यं कृतं सीते राघवेण महात्मना ॥ ९ ॥ एक एव वृथा क्लेशः कृतस्तेनेति वेद्म्यहम् । महान् श्रमः सेतुबंधे किमथ हि कृतः पुरा ॥ १० ॥ कथं न कथितं कुम्भजन्मने राघवेण हि । क्षणात्तं चुलुके कृत्वा पीत्वेमं लवणार्णवम् ॥ ११ ॥ शुष्कं कृत्वा कपीन्मार्गोऽभविष्यदत एव हि । वृथा ते श्रमिताः सर्वे वानराः सेतुबंधने ॥ १२ ॥ इति तस्या वचः श्रुत्वा सगर्वं जानकी तदा । लोपामुद्रां विहस्याह लोपामुद्रे पतिव्रते ॥ १३ ॥ सम्यक्कृतं राघवेण यत्सेतोर्बंधनं वरम् । तत्कारणं वदाम्यद्य शृणु त्वं स्वस्थमानसा ॥ १४ ॥ शृण्वंत्विमाः समायाता मद्वाक्यं पार्थिवस्त्रियः । वाणेन शोषणीयश्चेत्सागरो राघवेण हि ॥ १५ ॥ भविष्यति तदा हत्या बहवश्चेति शंकितम् । उल्लंघनीयो जलधिश्चेद्रामेण विहायसा ॥ १६ ॥ तदा रामं मनुष्यं च कदा ज्ञास्यति रावणः । हनुमत्पृष्ठमारुह्य गन्तव्यं चेत्परे तटे ॥ १७ ॥ लंकां प्रति तदा रामपौरुषं किं वदन्ति हि । यदि तीर्त्वा प्रगन्तव्यं बाहुभ्यां राघवेण हि ॥ १८ ॥ नोल्लधनीयं विप्रस्य मूत्रं चेति विशंकितम् । चेन्मुनिः कुभजन्मा वै प्रार्थनीयः पतिस्तव ॥ १९ ॥ रामेण चुलुकं कर्तुं तदा तल्लवणांबुधे । मंत्रितं राघवेणापि तदा हृदि सविस्तरम् ॥ २० ॥ पीतोऽयं जलधिः पूर्वं श्रुतं क्रोधादगस्तिना । मूत्रद्वाराद्बहिस्त्यक्तो यस्मात्क्षारत्वमागतः ॥ २१ ॥ सर्वथा मूत्रवत्क्षारः स कथं पातुमर्हति । स. ऋषिर्मम वाक्येन चुलुकं तु करिष्यति ॥ २२ ॥ भविष्यति ममाकीर्तिः सर्वत्र जगतीतले । मूत्रपानं ब्राह्मणेन स्वकार्यार्थं निजोक्तिभिः ॥ २३ ॥ कारितं येन रामेण सोऽयं चेतीति शंकितः । न मुनिं प्रार्थयायाप्त राघवो धर्मतत्परः ॥ २४ ॥ एवं संमंत्र्य रामेण स्वकीर्त्यै सेतुबंधनम् । कृतं केनापि न कृतं न कोऽप्यग्रे करिष्यति ॥ २५ ॥ येन रामेण जलधौ शिलाः संतारिताः पुरा । सोऽयं दाशरथी समश्चेति ख्यातिं गतो भवि ॥ २६ ॥ इति सीतावचोभिः सा लोपामुद्रा जिता तदा । तृष्णीमास क्षणं नारीसभायां लञ्जिताऽभवत् ॥ २७ ॥ ततो विहस्य वैदेही लोपामुद्रां प्रपूजयत् । मुनिपत्नीश्च संपूज्य प्रार्थयामास तां मुहुः ॥ २८ ॥ मयाऽपराधितं तेऽद्य तत्क्षमस्व पतिव्रते । स्नेहात्प्रसंगतश्चोक्तं त्वदग्रे रामपौरुषम् ॥ २९ ॥ त्वद्भर्तुराशिषा रामे पौरुषं चेति वेद्म्यहम् । इति संप्रार्थ्य ताः सर्वा मुनिपत्नीर्व्यसर्जयत् ॥ ३० ॥ पूजिता नृपपत्नीभिर्ययौ सीता रघूत्तमम् । ततो रामोऽपि पृथ्वीशैः पूजितो गजवाजिभिः ॥ ३१ ॥ ययौ स नगरीं तुष्टः सीतया गरुडे स्थितः । ये ये समागतास्तत्र कुरुक्षेत्रे रविग्रहे ॥ ३२ ॥ तै सर्वे स्वस्थलं जग्मू रामदर्शनहर्षिताः । रामोऽपि नगरीमध्ये पुरस्त्रीभिर्मुहुः पथि ॥ ३३ ॥ नीराजितः कुंभदीपैर्ययौ निजगृहं मुदा । रेमे जनकनन्दिन्या चिरकालं यथासुखम् ॥ ३४ ॥ एवं रामेण साकेतपुर्यामवनिकन्यया । नानाक्रीडाकौतुकानि कृतान्यतिमहान्त्यपि ॥ ३५ ॥ कथा कृता राघवेण सुखं क्रीडा च सीतया । तथैवोर्मिलया रेमे लक्ष्मणोऽपि यथासुखम् ॥ ३६ ॥ मांडव्या भरतश्चापि रेमे रामो यथा स्त्रिया । तथैव श्रुतकीर्त्याऽपि शत्रुघ्नः क्रीडनं व्यधात् ॥ ३७ ॥ एवं ते स्वीयपत्नीभिः पौराः क्रीडाः प्रचक्रिरे । तथैव विविधद्वीपान्नानादेशनिवासिनः ॥ ३८ ॥ रेमिरे तेऽपि पत्नीभिः स्वीयाभिर्मुदिताः सुखम् । सीतया राघवो रेमे यथा गौर्या स शंकरः ॥ ३९ ॥ रामे शासितराज्येऽत्र न कोऽपि जगतीतले । परदाररतो वेश्यागामी मादकवस्तुभुक् ॥ ४० ॥ न दरिद्री नैव रोगी चिन्ताग्रस्तो न विह्वलः । न पापात्मा जडो नासीन्न चौरो नापि हिंसकः ॥ ४१ ॥ एवं शिष्य मया प्रोक्तं विलासचरितं वरम् । सीतया रामचद्रस्य साकेते सौख्यदं नृणाम् ॥ ४२ ॥ विलासकण्डमेतद्वै यः पठिष्यति मानवः । प्रातः काले च मध्याह्ने निशायां रामसन्निधौ ॥ ४३ ॥ स ज्ञेयो राघवः साक्षाद्भुवि मानवरूपधृक् । विलासकाण्डपठनाद्धनार्थी धनमाप्नुयात् ॥ ४४ ॥ भोगानाप्नोति भोगार्थी पुत्रार्थी पुत्रमाप्नुयात् । विलासकाण्डमेतद्वै रामभक्त्येकमानसः । यः शृणोति नरः कश्चित्स सुखं प्राप्नुयाद्भुवि ॥ ४५ ॥ विलासकाण्डश्रवणान्नरः पापात्प्रमुच्यते । विलासकाण्डं परमं रम्यं जनमनोहरम् ॥ ४६ ॥ आनन्ददायकं चित्रं श्रुतिसौख्यप्रदं महत् । ये पठंत्यथ शृण्वंति सर्वान्कामान् लभंति ते ॥ ४७ ॥ धर्मार्थी प्राप्नुयाद्धर्मान् धनार्थी प्राप्नुयाच्छ्रियम् । कामानाप्नोति कामार्थी मोक्षार्थी मोक्षमाप्युयात् ॥ ४८ ॥ निशायां मंचके स्थित्वा निजपत्न्या पठेत्तु यः । विलासकांडं षण्मासं तस्य पुत्रो भविष्यति ॥ ४९ ॥ अथवा मंचके व्यासं सन्निवेश्याथ तत्पुरः । द्वितीये मंचके स्थित्वा स्वयं दयितया सह ॥ ५० ॥ यः शृणोति निशायां हि विलासाख्यं मनोरमम् । एतत्काडं पवित्रं च नवमासान् पुनः पुनः ॥ ५१ ॥ तस्यापुत्रस्य पुत्रः स्यान्नात्र कार्या विचारणा । पुत्रार्थमेव श्रोतव्यं मञ्चके ह्युपविश्य च ॥ ५२ ॥ श्रोतव्यं नान्यकामेषु मञ्चकस्थैर्नरैः कदा । विलासकाण्डमेतद्वै स्त्रीकामाद्यः पठेन्नरः ॥ ५३ ॥ स भार्या प्राप्नुयाद् रम्यां नवमासैर्न संशयः । कुमारी शृणुयादेतत्पत्यर्थं काण्डमुत्तमम् ॥ ५४ ॥ पुनः पुनस्तु षण्मासं लभिष्यति वरं पतिम् । विलासकांडमेतद्वै याः शृण्वन्ति वराः स्त्रियः ॥ ५५ ॥ सौभाग्यलक्ष्म्या न कदा ता विहीना भवन्ति हि । भर्तुरायुष्यवृद्ध्यर्थं स्त्रीभिश्च स्नानपूर्वकम् । श्रवणीयं विलासाख्यमेतत्काण्डं मनोरमम् ॥ ५६ ॥ रम्यं विचित्रं मधुरं पवित्रं विलासकांडं हि यथेक्षुदडम् । पाठादिना पापचयप्रदंडं धर्मैककुंड भवरोगदंडम् ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे विलासकाण्डे कुरुक्षेत्रयात्रावर्णनं नाम नवमः सर्गः ॥ ९ ॥ विलासकाण्डम् समाप्तम् श्रीसीतारामचन्द्रार्पणमस्तु |