॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विलासकाण्डम्
॥ अष्टमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रारामदास उवाच आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः । आत्रेयो देवशर्मेति वेदवेदांगपारगः ॥ १ ॥ आतिथेयोऽग्निशुश्रूषी सौरव्रतपरायणः । सूर्यमाराधयन्नित्यं साक्षात्सूर्य इवापरः ॥ २ ॥ तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता । अपुत्रः स स्वशिष्याय चन्द्रनाम्ने ददौ सुताम् ॥ ३ ॥ तमेव पुत्रवन्मेने स च तं पितृवद्वशी । तौ कदाचिद्वनं यातौ कुशेध्महरणाय वै ॥ ४ ॥ हिमाद्रिपादे वेगेन चेरस्तुस्तावितस्ततः । तावत्तौ राक्षसं घोरमपश्येतां पुरस्थितम् ॥ ५ ॥ भयविह्वलसर्वाङ्गावसमर्थौ पलायितुम् । निहतौ रक्षसा तेन कृतांतसमरूपिणा ॥ ६ ॥ तौ तत्क्षेत्रप्रभावेण धर्मशीलतया पुनः । वैकुण्ठभुवनं यातौ नीतौ विष्णुगणैस्तदा ॥ ७ ॥ यावञ्जीवं तु यत्ताभ्यां सूर्यपूजादिकं कृतम् । कर्मणा तेन सन्तुष्टो विष्णुस्ताभ्यां बभूव ह ॥ ८ ॥ शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः । तमेव प्राप्नुवन्तीह वर्षापः सागरं यथा ॥ ९ ॥ एकः स पंचधा जातः क्रियया नामभिः किल । देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ॥ १० ॥ ततश्च तौ तद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ । तत्तुल्यरूपौ हरिसन्निधानगौ दिव्यांगनाचन्दनभोगभोगिनौ ॥ ११ ॥ ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ । पितृभर्तृजदुःखार्ता विललाप भृशातुरा ॥ १२ ॥ सा गृहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत् । तयोश्चक्रे यथाशक्ति परलोकक्रियां तदा ॥ १३ ॥ तस्मिन्नेव पुरे वासं चक्रे प्रसृतिजीविनी । विष्णुभक्तिपरा शांता सत्यशौचा जितेन्द्रिया ॥ १४ ॥ व्रताष्टकं तया सम्यगाजन्ममरणात्कृतम् । एकादशीव्रतं सम्यक् सेवनं कार्तिकस्य च ॥ १५ ॥ माघे चैत्रे माधवेऽपि स्नानानि प्रतिवत्सरम् । संमार्जनं विष्णुगेहे स्वस्तिकादिनिवेशनम् ॥ १६ ॥ नित्यं विष्णोः पूजनं च भक्त्या तत्परमानसा । इत्थं व्रताष्टक सम्यक् सा चकारातिभक्तितः ॥ १७ ॥ एकदा सा गुणवती पौराणिकमुखेन हि । श्रुत्वा महत्फलं शिष्य साकेते सरयूजले ॥ १८ ॥ चैत्रस्नानस्य कैवल्यदायकं जनसंयुता । ययौ श्रीरामनगरीं राभतीर्थेऽवसच्छुहा ॥ १९ ॥ सैकदा राघवं द्रष्टुं सरयूसैकतस्थितम् । वासोगेहे रहः पत्न्या ययौ बंधुसमन्वितम् ॥ २० ॥ पूजापात्राणि हस्ताभ्यां बिभ्रती द्वारसंस्थिता । प्रतीहारेण रामाय वेदिता सा विवेश ह ॥ २१ ॥ वासोगेहं ददर्शाथ सीतया रघुनायकम् । रत्नमचकसंलग्न धृताधोंकोपबर्हणम् ॥ २२ ॥ क्रीडन्तं सारिभिः पाशैः सीतया लक्ष्मणेनच । कैकेयीतनयाभ्यां च सखीभिः परिवारितम् । २३ ॥ मयूरपिच्छसम्भूतचामरैः परिवीजितम् । रत्नचित्ररुक्मभवे नूपुरे पदयोर्वरे ॥ २४ ॥ बिभ्रन्तं रशनां कट्यां रत्नरुकमविभूषिताम् । रत्नरुक्मभवे दिव्यकङ्कणे करयोर्वरे ॥ २५ ॥ बिभ्रन्तं भुजयोर्दिव्यकेयूरे रत्नभूषिते । कण्ठदेशे कौस्तुभं च हृदि चितामणिं शुभम् ॥ २६ ॥ बिभ्रन्तं विविधान्हारान् रत्नमाणिकयनिर्मितान् । तथाजालरुक्मजांश्च मुक्ताहारान् विचित्रितान् ॥ २७ ॥ तुलसीकाष्ठहारांश्च पुष्पहारननेकशः । प्रवालमणिहारांश्च शृङ्खलाः कांचनोद्भवाः ॥ २८ ॥ पदकानि विचित्राणि रत्नमाणिकवंत्यपि । रंभाफलांब्जसदृशानलंकारान्विचित्रितान् ॥ २९ ॥ रत्नमाणिक्यसंयुक्तान्मुकुरैरतिमंडितान् । नीलमारकतैश्चित्रान्रामनामांकितानपि ॥ ३० ॥ अंगुलीष्वपि बिभ्रन्तं हस्तयोमुद्रिकाः शुभाः । रत्नमाणिक्यमुक्ताभिश्चित्रा रुक्मविनिर्मिताः ॥ ३१ ॥ रामनामांकिताश्चापि पवित्रा उज्ज्वला अपि । रत्नमुक्ताहेममये कर्णयोः कुहले वरे ॥ ३२ ॥ बिभ्रन्तं महिसादृश्यानलंकाराननेकशः । बिभ्रन्नु रविसादृश्यं मुकुटं रत्नचित्रितम् ॥ ३३ ॥ नानामणिसमायुक्तं कलशैरतिशोभितम् । मुक्ताप्रवालवैदूर्ययुक्तं हेममयं वरम् ॥ ३४ ॥ एवं गुणवती रामं कोटिसूर्यसमप्रभम् । हेमवर्णं महारम्य कजपत्रायतेक्षणम् ॥ ३५ ॥ सोमाननं कंजहस्तं दृष्ट्वा तं प्रणनाम सा । तां समुत्थापयद्रामस्तया सम्यक् प्रपूजितः ॥ ३६ ॥ तद्दत्तैरुपहाराद्यैः सुप्रीतस्तां तदाऽब्रवीत् । वरं वरय मामद्य यत्ते मनसि वर्तते ॥ ३७ ॥ इति रामवचः श्रुत्वा सा तुष्टा राममब्रवीत् । राम राजीवपत्राक्ष यथेमास्ते सहस्रशः ॥ ३८ ॥ दास्यः संति तथा मां त्वमंगीकर्तुमिहार्हसि । इति तद्वचनं श्रुत्वा राघवः प्राह सस्मितः ॥ ३९ ॥ कथं त्वं ब्राह्मणी चेत्थं वदस्यद्य शुभव्रते । मत्सेवां कर्तुमिच्छाऽस्ति तव तर्हि वदाम्यहम् ॥ ४० ॥ शृणुष्व त्वं गुणवति कृष्णरूपधरो ह्यहम् । द्वापरे द्वारकायां हि भविष्याम्यन्यजन्मनि ॥ ४१ ॥ भजिष्यसि तदा मां त्वं स्त्रीरूपेण न संशयः । सत्राजिद्देवशर्मा ते भविष्यति पिता पुनः ॥ ४२ ॥ यश्चन्द्रनामा सोऽक्रूरो भविष्यति सखा मम । सःयशमेति नाम्ना त्वं भविष्यसि प्रिया मम ॥ ४३ ॥ तदा कुरुष्व दास्यं मे यत्ते मनमि वर्तते । इति रामवचः श्रुत्वा तुष्टा गुणवती मुहुः ॥ ४४ ॥ नन्वा श्रीराघवं सीतां ययौ सा स्वस्थलं प्रति । चैत्रस्नानानन्तरं सा हरिद्वारं ययौ जनैः ॥ ४५ ॥ आयुःशेषं समाप्याथ गंगायां कुणपं निजम् । सत्वरं स्नानसमये त्यक्त्वा नाकं चिरं गता ॥ ४६ ॥ ततः कालातरेणासीत्सत्राजित्तनया भुवि । बभूव पत्नी कृष्णस्य द्वापरे द्वारकापुरि ॥ ४७ ॥ एकदा पिंगलानाम्नी वेश्यारात्रौ विनिद्रितम् । सीतया दिव्यपर्यंके ययौ सा राघवं रहः ॥ ४८ ॥ विहाय नूपुरादीनि स्वनवंति पदोः शनेः । इतस्ततो निरीक्षन्ती दिव्यवस्त्रादिभूषिता ॥ ४९ ॥ सीताभयात्प्रकंपन्ती कामबाणप्रपीडिता । मण्डिता पुष्पमालाद्यैर्भूषणैरतिशोभिता ॥५० ॥ अज्ञाता द्वारपालैः सा निद्रितैर्मञ्चकं ययौ । स्वकरेण पदस्पर्शं कृत्वा रामं प्रबोधयत् ॥ ५१ ॥ तदा प्रबुद्धः श्रारामस्तां ददर्श पुरःस्थिताम् । सा धूत्वा तत्पदे गाढं प्रार्थयामास राघवम् ॥ ५२ ॥ राम राजीवपत्राक्ष मया तेऽद्यापराधितम् । त्वं क्षमस्व कृपां कृत्वा मयि चानुग्रहं कुरु ॥ ५३ ॥ तत्तस्यावचनं श्रुत्वा ज्ञात्वा तां कामपीडिताम् । तां समाश्वसितुं प्राह राघवः कञ्जलोचनाम् ॥ ५४ ॥ एकपत्नीव्रतं मेऽस्मिन्भवे त्वं वेत्सि पिंगले । अतस्त्वत्कामपूर्त्यर्थं वदामि तच्छृणुष्व हि ॥ ५५ ॥ यदाऽहं मथुरामग्रे व्रजाच्छ्रीकृष्णरूपधृक् । यास्यामि मातुलं कंसं हत्वा स्थास्यामि तत्पुरीम् ॥ ५६ ॥ तदा भजिष्यसि त्वं मां कुब्जारूपेण पिंगले । गच्छ दासास्वरूपेण तिष्ठ त्वं कंसवेश्मनि ॥ ५७ ॥ आयुःक्षये त्विमं देहं विसृज्य बहुभुक्तकम् । इत्युक्त्वा पिंगलां रामो ददावाज्ञां भयात्स्त्रियाः ॥ ५८ ॥ शिक्षयामासद्वारस्थान्दासान्दासीर्विनिद्रिताः । ततः सीतां प्रबोध्याथ वेश्यावृत्त न्यवेदयत् ॥ ५९ ॥ तच्छ्रुत्वा जानकीरुष्टा त्यक्त्वा पर्यङ्कमुत्तमम् । राघवं प्राह सक्रोधा कथं नाहं प्रबोधिता ॥ ६० ॥ तदैवाद्य मया ज्ञातमेकपत्नीव्रतं मृषा । भुत्वादौ पिगलां तूष्णीं त्ययाऽह बोधिता ततः ॥ ६१ ॥ तां विसृज्य चिरादद्य ज्ञातुं ते चरितं मया । मृषा त्वया प्रतिज्ञातं पुरा व्यासमुनेः पुरः ॥ ६२ ॥ एकपत्नीव्रतं मेऽस्ति कौसल्यायदृशी मम । अन्या स्त्रीति मृपा वाक्यं कत्थसे त्वं पुनः पुनः ॥ ६३ ॥ क्व गतं तद्वचस्तेऽद्य क्व गतं तद्व्रतं तव । अद्यैव जीवितं स्वीयं त्यजामि सरयूजले ॥ ६४ ॥ वेश्यायाः पृष्ठसंलग्नां शय्यां नाद्य स्पृशाम्यहम् । वेश्यासक्तं स्वामिनं त्वां दृष्ट्वा द्वेषो भवेत्वयि ॥ ६५ ॥ मृतायां मयि यद्भाव्यं वेश्यासक्तस्य ते भवेत् । वेश्यासक्तपार्थिवस्य चिरं राज्यं न तिष्ठति ॥ ६६ ॥ इत्युक्त्वा राघवं नत्वा देहत्यागाथमुद्यता । ययौ वेगेन सरयूं वस्त्रगेहात्तडित्प्रभा ॥ ६७ ॥ गच्छतीं राघवो दृष्ट्वा मुक्तकच्छः प्रदुद्रुवे । संभ्रमाज्जानकीं धृत्वा भुजाभ्यां सैकतेऽमले ॥ ६८ ॥ अब्रवीन्मधुरं वाक्यं मा रुष त्वं विदेहजे । सूत्र- वचनं मे त्वं दिव्यं ते प्रवदाम्यहम् । ६९ ॥ मयि ते शपथैरद्य प्रत्ययो न भविष्यति । दुर्घटं यद्ब्रवीषि त्वं तद्दिव्यं प्रवदाम्यहम् ॥ ७० ॥ वद शीघ्रं जनकजे मा क्रोधं भज भामिनि । इतिं रामवचः श्रुत्वा जानकी प्राह राघवम् ॥ ७१ ॥ जानक्युवाच राम ब्रूयामहं किं ते येन दिव्यं ददामि ते । अनलस्त्वन्मुखोद्भूतो नयने शशिभास्करौ ॥ ७२ ॥ वासस्ते जलधौ राम पृथ्वीयं विधृता त्वया । शेषस्तल्पस्तवैवाय लक्ष्मणस्तिष्ठते बहिः ॥ ७३ ॥ शास्त्राणि त्वन्नखजानि सर्वाण्यत्र न संशयः । यद्यत्पश्यामि तत्सर्व तव रूपं न सशयः ॥ ७४ ॥ न दुर्घटं ते दिव्यार्थं किंचित्पश्यामि राघव । किं ब्रूयामधुना तेऽत्र येन मे प्रत्ययो भवेत् ॥ ७५ ॥ एकमेवास्ति जानेऽहं तत्कुरुष्व रघूत्तम । इदानीमेव स्वगुरुं समाहूय रघूद्वह ॥ ७६ ॥ पदयोस्तस्य शपथं कृत्वा ते प्रत्ययो मम । भविष्यति न संदेहस्तं कुरुष्व रघूत्तम ॥ ७७ ॥ इति सीतावचः श्रुत्वा प्रहस्य रघुनन्दनः । दास्या सौमित्रिमाहूय वसिष्ठं प्रैषयत्तदा ॥ ७८ ॥ लक्ष्मणः शिबिकारूढः पुरद्वारान्तिकं ययौ । रामवाक्याद्द्वारपोऽपि द्वारमुद्धाटयत्तदा । ७९ ॥ गत्वापुर्यां लक्ष्मणः स गुरोर्द्वारि स्थितोऽभवत् । वसिष्ठद्वारपो दास्या वसिष्ठाय न्यवेदयत् ॥ ८० ॥ निशीथे लक्ष्मणं द्वारमागतं त्विति संभ्रमात् । अरुधत्या वसिष्ठोऽपि तच्छ्रुत्वा विह्वलोऽभवत् ॥ ८१ ॥ निशीथे लक्ष्मणश्चात्र किमर्थं मां समागतः । इति विह्वलचित्तः स समाहूयाथ लक्ष्मणम् ॥ ८२ ॥ पप्रच्छ गमनस्थाथ कारणं मुनिसत्तमः । तं नत्वा लक्ष्मणः प्राह रामेण स्मारितोऽसि हि ॥ ८३ ॥ कारणं नात्र जानामि समुत्तिष्ठाधुनैव हि । शिविकाऽधिष्ठिता द्वाराद्बहिस्ते मुनिसत्तम ॥ ८४ ॥ इति श्रत्वा रामवाक्यमरुंधत्याऽतिप्रार्थितः । शिबिकायामरुंधत्या स्थित्वा शीघ्रययौ गुरुः ॥ ८५ ॥ तत्पृष्ठे औशबिकासंस्थः सौमित्रिस्त्वरितो ययौ । रत्नदीपप्रकाशश्च वेष्टितो वेत्रपाणिभिः ॥ ८६ । समागतं गुरुं ज्ञात्वा प्रत्युद्गम्य रघूत्तमः । दत्त्वासनं वसिष्ठाय सीतया प्रणनाम सः ॥ ८७ । कृत्वा पूजां सविस्तारं वस्त्रैराभरणादिभिः । कथयामास सकलं पिंगलावृत्तमादरात् ॥ ८८ ॥ कथयामास सीतायाः क्रोधवाक्यान्यपि प्रभुः । दिव्यं दातुं न किंचिच्च दृष्ट्वाऽन्यत् सीतया मम ॥ ८९ ॥ विनिश्चितं ते पदयोर्दिव्यं तत्ते वदाम्यहम् । मनसाऽपि न भुक्ता सा मया वेश्याऽथवा परा ॥ ८० ॥ इद चेद्वचनं सत्यं स्पृशामि तर्हि त्वत्पदे । इत्युक्त्वा राघवः शीघ्रं वसिष्ठपदयोः करौ ॥ ९१ ॥ स्वीयां संस्थाप्य शिरसा प्रणनाम गुरुं पुनः । तद्दृष्ट्वा लज्जिता सीता ज्ञात्वा शुद्धं रघूत्तमम् ॥ ९२ ॥ प्रणम्य मेष्यराधं तं क्षमस्वेति प्रसादयत् । ततः सीता गुरोः पत्न्यै ददौ चित्राणि भक्तितः ॥ ९३ ॥ भूषणानि वराण्येव दिव्यवस्त्राणि सादरम् । रामेण पूजितश्चापि वसिष्ठः पूर्ववत्स्रिया ॥ ९४ ॥ सहितः शिबिकासंस्थस्तुष्टः स्वीयगृहं ययौ । ततः सीतां समालिंग्य रामो निद्रां चकार सः ॥ ९५ ॥ प्रभाते पिंगलां दास्या समाहुयाथ जानकी । धिग्धिक्कृत्वा सखीभिस्तां ताडयामास बंधिताम् ॥ ९६ ॥ सीतोवाच तदा वेश्यां यस्मान्मेद्यापराधितम् । भविष्यसि त्रिवक्रा त्वं मथुरायां हि कुत्सिता ॥ ९७ ॥ वेश्यया प्रार्थिता प्राह कृष्णस्त्वामुद्धरिष्यति ॥ ९८ ॥ श्रुत्वा तां बंधिता वेश्यां मोचयामास राघवः । एवं नानाकौतुकानि चकार रघुनंदनः । सीतां संरञ्जयामास स्वचरित्रैर्मनोरमैः ॥ ९९ ॥ इति श्रीमद् आनन्दरामायणे वाल्मीकीये विलासकांडे सीतालंकारवर्णनं नामाष्टमः सर्गः ॥ ८ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |