॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ अष्टमः सर्गः ॥
[ पश्चिमयात्रावर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


विष्णुदास उवाच
गुरो जातोऽस्ति संदेहो मम चित्ते वदाम्यहम् ।
स तया छिद्यतां स्वामिन् साधवो हि कृपालवः ॥ १ ॥
यानारूढा न कर्तव्या यात्रा चेति श्रुतं मया ।
कथं यानेन रामेण कृता यात्रा त्वयेरिता ॥ २ ॥
इति जातोऽस्ति संदेहो मम तं त्वं निवारय ।
इति शिष्यवच श्रुत्वा गुरुः प्राहाथ तं पुनः ॥ ३ ॥
श्रीरामदास उवाच
पदा यात्रा न कर्तव्या छत्रचामरधारिणी ।
राज्ञा द्वापाधिपत्येन कार्या मांडलिकेन तु ॥ ४ ॥
पृथिवीशस्य देवस्य लग्नोद्युक्तवरस्य च ।
तया मथाधिपस्यापि गमनं न पदा स्मृतम् ॥ ५ ॥
तस्मान्नात्र त्वया कार्यः संदेहो राघवं प्रति ।
आज्ञया रामचंद्रस्य कृपयाऽपि च तैर्जनैः ॥ ६ ॥
अधिष्ठितं पुष्पकं तु को वेदेश्वरचेष्टितम् ।
इदानीं रामचंद्रस्य शृणु तां प्राक्तनीं कथाम् ॥ ७ ॥
त्र्यंबकाद्‌रामचंद्रस्तु पुरा यत्र तु निद्रितम् ।
सीतया पर्वते तत्र गत्वा स्थित्वा दिनत्रयम् ॥ ८ ॥
सप्तशृंगगिरौ गत्वा गत्वाऽगस्तेस्तु चाश्रमम् ।
सुतीक्ष्णस्याश्रमं गत्वा ययौ चैलपुरं ततः ॥ ९ ॥
घृष्णेश्वरं नमस्कृत्य शिवतीर्थे विगाह्य च ।
दृष्ट्‍वा रम्य देवगिरिं विरजाक्षेत्रमाययौ ॥ १० ॥
मातापुरस्थां देवीं तां नत्वा पश्यन्स्थलानि सः ।
देववाटे नारसिंह नत्वा रामश्च सीतया ॥ ११ ॥
चकार विधिवत्स्नानं पयोष्ण्यां बंधुभिर्जनैः ।
स्नात्वा ताप्युद्‌गमं रामः स्वनाम्ना पर्वतोत्तमम् ॥ १२ ॥
गत्वा स्नात्वाऽथ रेवायामोंकारं परिपूज्य च ।
पश्चिमाभिमुखः पश्यन्नानापुण्यस्थलानि हि ॥ १३ ॥
ताप्याश्च संगमे स्नात्वा नर्मदायाश्च संगमे ।
महानदीजले स्नात्वा प्रभासं च ततो ययौ ॥ १४ ॥
पंचसरस्वतीनां च संगमेषु विगाह्य च ।
सौराष्ट्रस्थं सोमनाथं दृष्ट्‍वा स भ्रमतीं नदीम् ॥ १५ ॥
पश्यन्नानास्थलान्येवं शंखोद्धारं ययौ ततः ।
गोमत्यां विधिवत्स्नात्वा द्वारावत्यां विवेश सः ॥ १६ ॥
अनादिसिद्धां सप्तसु पुरीषु प्रथितां शुभाम् ।
दृष्ट्‍वा कृत्वा तीर्थविधिं दत्त्वा दानान्यनेकशः ॥ १७ ॥
पश्यंस्तीर्थानि सर्वाणि पुण्यानि रघुनंदनः ।
पाश्चिमात्यैनृपतिभिर्मानितः पूजितोऽपि च ॥ १८ ॥
गृहीत्वा करभारं स्वं तेभ्यस्तैः सहितो ययौ ।
सरस्वत्यास्तटेनैव पश्यन्पुण्यस्थलानि सः ॥ १९ ॥
पुष्पकस्थः शनैः सीतां दर्शयन् कौतुकानि च ।
ययौ पुष्करतीर्थं वै नृपैः सर्वत्र संवृतः ॥ २० ॥
विमाने प्रत्यहं रामः कोटिशो ब्राह्मणान् सदा ।
भोजयामास दिव्यान्नैः पायसैः शर्करादिभिः ॥ २१ ॥
विमाने ये स्थिताः पूर्वमयोध्यापुरवासिनः ।
तथा ये पूर्वदेशीया दाक्षिणात्या नृपाश्च ये ॥ २२ ॥
पाश्चिमात्या नृपा एवं ते बलैर्वाहनैः सह ।
रामेणातिथिवत्सर्वे वस्त्रान्नाभरणादिभिः ॥ २३ ॥
पूजिता मानिता आसन् सादरं ते यथासुखम् ।
न कश्चिद्भिन्नपाकं हि चकार पुष्पके नरः ॥ २४ ॥
चिंता काष्ठतृणादीनां जलस्यापि न कस्यचित् ।
एका चिंता तु तत्रास्ति क्षुद्बोधो मे कथं भवेत् ॥ २५ ॥
वांछन्ति सर्वे तत्रैकं भिषक् चूर्णं प्रदास्यति ।
निद्रायास्तत्र दारिद्र्यं वाद्यघोषैर्निरंतरम् ॥ २६ ॥
त्रामस्तत्र महानासीद्विमाने वारयोषिताम् ।
गीतैनेत्रकटाक्षैश्च क्रीडाभिर्वचनादिभिः ॥ २७ ॥
मणिदीपैर्दिनं रात्रिं न जानाति स्म तत्र वै ।
गच्छद्दिने कदा यानं याति रात्रावपि क्वचित् ॥ २८ ॥
एतस्मिन्नन्तरे शिष्य पुष्करस्थैर्जनैस्तदा ।
महानादः श्रुतो रम्यो मंजुलः श्रुतितोषकृत् ॥ २९ ॥
वारस्त्रीनूपुरोद्‌भूतः क्वणत्कंकणजोऽपि च ।
करताडनगीतादिमृदंगपणवोद्भवः ॥ ३० ॥
नववाद्यसमुद्‌भूतो घटीयंत्रसमुद्भवः ।
यानघटाकिंकिणीनां पताकारवसंभवः ॥ ३१ ॥
वारांगनाकटितटकिंकणीसंभवोऽपि च ।
वारणाश्वायुधोष्ट्रादिमयूरकपिसम्भवः ॥ ३२ ॥
वीरेभ्यो वेदघोषेभ्यः शिष्येभ्यश्च समुत्थितः ।
नटनाटकबंदिभ्यो मागधेभ्यः समुत्थितः ॥ ३३ ॥
गोदोहसंभवश्चापि ह्यजामहिषिदोहजः ।
दधिमंथनसंभूतः शिशूनां रोदनोद्भवः ॥ ३४ ॥
शिशुमचकसंबद्धशृंखलाभ्यः समुत्थितः ।
नानातूर्योद्भवश्चापि पिष्टचक्रसमुद्भवः ॥ ३५ ॥
घृतपाचितपक्वान्नप्रकारकरणोद्भपः ।
नारदादिमुनिश्रेष्ठधृतवीणादिसंभवः ॥ ३६ ॥
पुराणकथनोद्भूतो हरिकीर्तनसंभवः ।
रामनामसहस्रादिस्तोत्रपाठसमुद्भवः ॥ ३७ ॥
नारीपूरणपेषणकार्ये कंकणसंभवः ।
पादप्रक्षालनाद्यादिनानाकार्यसमुद्भवः ॥ ३८ ॥
एवं नानाविधं श्रुत्वा पुष्करस्था जना ध्वनिम् ।
निशांते पश्चिमामाशां किमेतदिति विह्वलाः ॥ ३९ ॥
केचिदूचुर्नन्दिघंटास्वरोऽयं श्रूयते महान् ।
केचिदूचुर्विमानेन गच्छतींद्रो दिवं प्रति ॥ ४० ॥
केचिदूचुः समायांति रंभाद्यप्सरसश्च खे ।
केचिन्मेघध्वनिं प्रोचुः केचिदैरावतं त्विति ॥ ४१ ॥
केचित्प्रोचुः समायाति सागरः किं लयं विना ।
केचित्प्रोचुस्त्विदं ज्ञेयं वायुपुत्रस्य शब्दितम् ॥ ४२ ॥
केचित्पतत्त्रिराजस्य शब्दितं प्रोचुरुत्तमम् ।
केचित्प्रोचुश्च गंधर्वा विमानस्था अटति खे ॥ ४३ ॥
केचित्प्रोचुर्नागकन्याः कुर्वन्तीदं सुगायनम् ।
कुर्वन्तश्चेति तर्कांश्च ददृशुः पुष्पकं महत् ॥ ४४ ॥
राममागतमाज्ञाय तोषपूर्णा बभूविरे ।
उपायनानि संगृह्य प्रेमनिर्भरमानसाः ॥ ४५ ॥
प्रत्युज्जग्मुस्तदा रामं दृष्ट्‍वा नत्वा रघूत्तमम् ।
मेनिरे जन्मसाफल्यं राघवेणातिमानिताः ॥ ४६ ॥
राधवोऽपि विमानाग्रयादवरुह्य द्विजोत्तमान् ।
प्रणिपत्य समाभाष्य प्रतिपूज्य सविस्तरम् ॥ ४७ ॥
तैस्तीर्थवासिभिर्मुक्तो ययौ पुष्करमुत्तमम् ।
स्नात्वा सचैलं विधिना तीर्थश्राद्धं विधाय च ॥ ४८ ॥
दत्त्वादानान्यनेकानि काश्याःकोट्यधिकानि तु ।
द्रव्यालंकारवस्त्रान्नैस्तोषयामास भूसुरान् ॥ ४९ ॥
ततस्तेरभ्यनुज्ञातो विमानेन ययौ पुनः ।
एवं पश्चिमयात्रा ते वर्णिता राघवस्य हि ॥ ५० ॥
इति श्रीमदानन्दरामायणे यात्राकाण्डे
पश्चिमयात्रावर्णनं नामाष्टमः सर्गः ॥ ८ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP