॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यात्राकाण्डम्
॥ सप्तमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच ततो रामः समुल्लंघ्य मत्स्यतीर्थ मनोरमम् । तीर्त्वा महानदीं कृष्णां पश्यन् पुण्यस्थलानि सः ॥ १ ॥ ततो ययौ नारसिंहं रामः पानकनामकम् । कृष्णाऽब्धिसंगमे स्नात्वा दत्त्वा दानानि विस्तरैः ॥ २ ॥ पश्यन्नानास्थलान्येव ययौ श्रीशैलपर्वतम् । स्नात्वा स नीलगङ्गायां दृष्ट्वा श्रीमल्लिकार्जुनम् ॥ ३ ॥ तत्रैव कृष्णा सा ज्ञेया नीलगङ्गेति नामतः । श्रीशैलशिखरं दृष्ट्वा पुनर्जन्मनिवारकम् ॥ ४ ॥ शिखरेश्वरस्य शिखराद्ब्रह्मकुण्डे विगाह्य च । भीमकुंडे ततः स्नात्वा तथा निर्वृतिसंगमे ॥ ५ ॥ तुंगभद्रासंगमेऽपि महानदीसरोवरे । विगाह्य भवनाशिन्यां ततो दृष्ट्वा ह्यहीबलम् ॥ ६ ॥ नारसिंहं ततो नत्वा कृत्वा स्तंभप्रदक्षिणाः । गत्वा पुष्पगिरौ तत्र पिनाकीमवगाह्य च ॥ ७ ॥ पश्यन् पुण्यस्थलानीशान् दृष्ट्वा पंपासरोवरम् । किष्किंधायां ततो गत्वा सुग्रीवाद्यैः सुपूजितः ॥ ८ ॥ सुग्रीवाद्यैर्वानरैश्च विमानेन विहायसा । प्रवर्षणगिरौ स्वीयगुहां रम्यां प्रदर्शयन् ॥ ९ ॥ वैदेहीं कौतुकाद्रामः किंचित्कृत्वा स्मिताननम् । द्वितीये भीमकुंडेऽथस्नात्वा गत्वा षडाननम् ॥ १० ॥ स्नात्वाऽगस्त्यकुंडमध्ये पश्यंस्तीर्थान्यनेकशः । कनकगिरिस्थं शंभुं नत्वा संपूज्य राघवः ॥ ११ ॥ वीरभद्रं ततो दृष्ट्वा नत्वाऽद्रिवेंकटं भुवि । गोविंदराजं तं नत्वा तृप्तिपत्तनसस्थितम् ॥ १२ ॥ स्नात्वा कपिलधारायां तीर्थश्चार्द्ध विधाय च । ततः शेषाचलं गत्वा स्नात्वा पुष्करिणीजले ॥ १३ ॥ वेंकटेशं पूजयित्वा पंचतीर्थौ विगाह्य सः । सुवर्णमुखहरीतीरसंस्थं श्रीकालहस्तिनम् ॥ १४ ॥ पूजयित्वा ययौ कांचीं रामः शिवहरिप्रियाम् । एकांबरेश्वरं पूज्य सर्वतीर्थे विगाह्य च ॥ १५ ॥ कामाक्षीमंबिकां नत्वा स्नात्वा वेगवतीजले । नत्वा वरदराजं च पक्षितीर्थं ततो ययौ ॥ १६ ॥ पूषाविधातृनामानौ पक्षिणौ पूज्य सीतया । पुष्पकेण ततः शीघ्रं क्षीरनद्यां विगाह्य च । १७ ॥ नत्वा त्रिविक्रमं तत्र ततोऽगादरुणाचलम् । मुक्तिर्यत्स्मरणादेव नत्वा तमरुणाचलम् ॥ १८ ॥ मणिमुक्तानदीतीरे वृद्धाचलमगात्ततः । वृद्धाचलेशं संपूज्य वटपालं ततो ययौ ॥ १९ ॥ वटपालेश्वरं पूज्य ततः श्रीमुष्टिमभ्यगात् । तत्र यज्ञवराहं च संपूज्य जगदीश्वरम् ॥ २० ॥ चिदम्बरमथागच्छद्दर्शनादेव मुक्तिदम् । लिखिता यत्र शेषेण शिलायां ताण्डवाकृतिः ॥ २१ ॥ कावेरीं च ततस्तीर्त्वा सिंहक्षेत्रं ततो ययौ । नत्वा ब्रह्मपुरेशं च वैद्यनाथं प्रणम्य सः ॥ २२ ॥ श्वेतारण्यं ततो गत्वा शंखमुख्यां विगाह्य च । छायावनं ततो दृष्ट्वा ययौ गौरीमयूरकम् ॥ २३ ॥ वेदारण्यं ततो गत्वा नत्वा मध्यार्जुनं शिवम् । स्नात्वाऽथ वृद्धकावेरीं कुंभकोण विलोक्य च ॥ २४ ॥ श्रीनिवासं ततो दृष्ट्वा दृष्ट्वा वृन्दावनं शुभम् । सारनाथं ततो दृष्ट्वा श्रीवत्सं च ददर्श सः ॥ २५ ॥ प्रयागमाधवं नत्वा गत्वाऽऽम्र शिरसः स्थलम् । भित्तावाकाशनीलाभं गत्वाऽथ कमलालयम् ॥ २६ ॥ त्यागेश्वरं समभ्यर्च्य गयातीर्थे विगाह्य च । दक्षिणद्वारकायां च श्रीगोविंदं प्रणम्य सः ॥ २७ ॥ जैपालाख्यं पुरं गत्वा गत्वा चाभयदेश्वरम् । विघ्नेश्वरं नमस्कृत्य पुरा संस्थापितं स्वयम् ॥ २८ ॥ स्नात्वा वै नवपाषाणे ययौ देव्याश्च पत्तनम् । स्नात्वा वेतालतीर्थे वै तीर्त्वौघं सागरस्य च ॥ २९ ॥ स स्नात्वा भैरवे तीर्थे प्रापैकांतस्थितं निजम् । अवरुह्य विमानाग्र्यात्पद्भ्यां सर्वैर्जनैः सह ॥ ३० ॥ गत्वा लक्ष्मणकुंडेऽथ स्वकुंडेऽपि विगाह्य च । अग्नितीर्थे ततः स्नात्वा धनुष्कोट्यां विगाह्य च ॥ ३१ ॥ स्नात्वा जटायूतीर्थे हि गत्वा तं गंधमादनम् । आदौ नत्वा विश्वनाथ पुराऽऽनीतं हनूमता ॥ ३२ ॥ रामेश्वरं ततो नत्वा कृत्वा गंगाभिषेचनम् । काचकुंभादिकं त्यक्त्वा धनुष्कोट्यां रघूत्तमः ॥ ३३ ॥ कोटितीर्थं धनुष्कोट्यां चकार कूपमुत्तमम् । क्षेत्रपापप्रशांत्यर्थं दृष्ट्वा श्रीसेतुमाधवम् ॥ ३४ ॥ नानादानादिकं कृत्वा मासमेकं विलंघ्य च । वाहनारूढदेवानां महोत्साहान्विधाय च ॥ ३५ ॥ क्षेत्रपापप्रशांत्यर्थं कोटितीर्थं विगाह्य च । नत्वा द्वारस्थगणपं तीर्त्वौघं जलधेः पुनः ॥ ३६ ॥ विहायसा विमानेन स दर्भशयनं ययौ । स्नात्वा निक्षेपिकातोयैस्ताम्रपर्ण्यब्धिसंगमे ॥ ३७ ॥ गत्वा स्नात्वा रामचंद्रो ददौ दानान्यनेकशः । ततोऽब्धेस्तीरसस्थं तं स्कन्दं संपूज्य राघवः ॥ ३८ ॥ ताम्रपर्णीतटेनैव पश्यन्पुण्यस्थलानि सः । नववेंकटनाथांस्तान्नत्वा तोताद्रिमाययौ ॥ ३९ ॥ कन्याकुमारिका दृष्ट्वा सिन्धुऽतीरनिवासिनीम् । प्रतीक्षन्तीं स्वीयमार्गं विभ्रतीं मालिकां करे ॥ ४० ॥ तामाह रघुवीरश्च वरं वरय सुव्रते । सा प्राह राघवं नत्वा चिरमस्मि व्रतस्थिता ॥ ४१ ॥ अहं मुनिसुता पित्रा सुरेन्द्राय विनिश्चिता । विवाहार्थं समानीतः सुरेन्द्रो योजने स्थितः ॥ ४२ ॥ तव यात्रोद्यमं श्रुत्वा मया चित्ते विनिश्चितम् । आगमिष्यति रामोऽत्र वरयिष्याम्यहं तदा ॥ ४३ ॥ पित्रा मन्निश्चयं ज्ञात्वा सुरेन्द्रो विनिवर्तितः । सोऽपि मत्खेदचित्तस्तु योजनेऽद्यापि वर्तते । ४४ ॥ विवाहोपकरणादि मन्मात्रा यत्कृतं पूरा । पित्रा तत्सागरे क्षिप्तं क्रोधाविष्टेन राघव ॥ ४५ ॥ अद्यापि दृश्यते पश्य तरंगैनिर्गतं बहिः । अद्य त्वया तारिताऽहं मां दासीं कर्तुमर्हसि ॥ ४६ ॥ ज्ञान्वा तस्या ह्यभिप्रायं तामाह रघुनन्दनः । एकपत्नीव्रतं मेऽस्मिञ्जन्मन्यस्ति कुमारिके ॥ ४७ ॥ अग्रे कृष्णावतारे त्वं भज मा नात्र सशयः । तद्रामवचनादेव यमैश्च नियमैरपि ॥ ४८ ॥ यावद्रामः स्थितो भूम्यां तावद्धृत्वा कलेवरम् । तपोबलेन देहांते जांबवती जनिष्यति ॥ ४९ ॥ जांबवतीति नाम्ना सा कृष्णपत्नी भविष्यति । रामो ययौ सुरेन्द्रं च पयोष्णीं संविगाह्य सः ॥ ५० ॥ आद्यनंतं ततो गत्वा तासु पर्णीतटे स्थितम् । विनिद्रितं शेषपृष्ठे लक्ष्मीगरुडसेवितम् ॥ ५१ ॥ ज्ञातव्या ताम्रपर्णी सा त्वन्या पश्चिमवाहिनी । अनन्तशयनं गत्वा पद्मतीर्थे विगाह्य च ॥ ५२ ॥ शंखतीर्थे मत्स्यनद्यां विगाह्य सीतया प्रभुः । ततो गना विमानेन धर्माधर्मसरोवरे ॥ ५३ ॥ स्नात्वा जनार्दनं गत्वा पश्चिमे ह्यब्धिरोधसि । दर्शेऽथ पौर्णिमायां च गंगाधाराब्धिसंगम ॥ ५४ ॥ स्नात्वा जनार्दनं पूज्य नारीराज्यं विलोक्य च । अग्रे श्रीरामचंद्रः स न ययौ लोकशिक्षया ॥ ५५ ॥ परिवृत्य ततो रामो घृतमालां विगाह्य च । कृतमालां ततः स्नात्वा सिन्धुनद्यां विगाह्य च ॥ ५६ ॥ गत्वा गजेन्द्रमोक्षं च ताम्रपर्णीतटस्थितम् । ताम्रपर्ण्युद्गमे स्नात्वा गत्वा मैरालतीर्थकम् ॥ ५७ ॥ गत्वा चंद्रकुमाराख्यं गिरिं श्रीरघुनन्दनः । तति ययौ विमानेन दृष्ट्वा दक्षिणकाशिकाम् ॥ ५८ ॥ नत्वा काशीविश्वनाथं चंपकारण्यमाययौ । चित्रगंगाजले स्नान्वा नत्वा हरिहरौ शुभौ ॥ ५९ ॥ ततो गमो विमानेन मधुपुर्यां विवेश सः । वेगवत्या जले स्नात्वा नत्वा तं सौन्दरेश्वरम् ॥ ६० ॥ मीनाक्षीमंबिकां नत्वा वेंकटं द्राविडे गिरौ । कावेरीमध्यनिलयं श्रीरंगशयनं ययौ ॥ ६१ ॥ मातृभूतेश्वरं नत्वा नत्वा तं जबुकेश्वरम् । रंगनाथं नमस्कृत्य ह्यविनाशीं ततो ययौ ॥ ६२ ॥ श्रीरंगपत्तनं गत्वा स्नात्वा हेमवतीजले । शालिग्रामं नमस्कृत्य रामनाथपुरं ययौ ॥ ६३ ॥ स्नात्वा कुमारधारायां सुब्रह्मण्यं प्रपूज्य च । उडुप्पाख्यं ततः कृष्णं नत्वा श्रुंगाश्रमं ययौ ॥ ६४ ॥ तुंगानदीतटे शृंगिगिरौ नन्वा त शारदाम् । कुम्भकाशीं ततो गत्वा गत्वा कोटीश्वरं शिवम् ॥ ६५ ॥ नत्वा मृकाबिकां देवीं नत्वा मुण्डेश्वरं हरम् । गुणवंतेश्वरं नत्वा नत्वा धारेश्वरं तनः ॥ ६६ ॥ गौरेश्वरं नमस्कृत्य नत्वा सर्गेश्वरं शिवम् । गोकर्णं च ततो गत्वा तं प्रणम्य महाबलम् ॥ ६७ ॥ हरीहरेश्वरं गत्वा पश्यंस्तीर्थान्यनेकशः । जामदग्न्यं महेन्द्राद्रौ नत्वा भीमेश्वरं ययौ ॥ ६८ ॥ धौमं महाबलं नत्वा ययौ कोलपुरं ततः । करवीरपुरं गत्वा कृष्णावेण्योस्तु संगमे । ६९ ॥ स्नात्वा रामो विमानेन गदालक्ष्मीश्वरं ययौ । स्नात्वा घटप्रभायां तु पश्यन् पुण्यस्थलानि हि ॥ ७० ॥ महादेवं नमस्कृत्य नत्वा मल्लारिमीश्वरम् । कारानदीतटस्थं तं वक्रतुंडं विलोक्य च ॥ ७१ ॥ नारानदीजले स्नात्वा नारसिंहं प्रयूज्य च । पाडुरंगं नमस्कृत्य चंद्रभागां विगाह्य च ॥ ७२ ॥ ययौ भीमासंगमं तु चंदल्लां च ततो ययौ । ततः प्रेमपुरं गत्वा नत्वा मार्तंडमीश्वरम् ॥ ७३ ॥ नीलदुर्गां विलोक्याथ नाना पश्यन्स्थलानि हि । तुलजापुरसंस्थां तां देवीं नत्वा ययौ ततः । ७४ ॥ माणिक्यामंबिकां दृष्ट्वा पश्यंस्तीर्थानि राघवः । योगीश्वरी वरामंबां दृष्ट्वा ह्यंबापुरस्थिताम् ॥ ७५ ॥ वैद्यनाथं नमस्कृत्य वंजरासंगमं ययौ । नागेशं च विलोक्याथ विमानेन स राघवः ॥ ७६ ॥ स्नात्वा पूर्णासंगमे तु गोदाया उत्तरे तटे । स्वनाम्नाऽथ पुरीं कृत्वा मुद्गलाश्रममाययौ ॥ ७७ ॥ बाणतीर्थे ततः स्नात्वा सिंधुफेनासुसंगमे । गोदानाभावब्जकेऽथ स्नात्वा नत्वा त्रिविक्रमम् ॥ ७८ ॥ कृत्वा परां स्वनाम्ना तु पुरीं गोदावरीतटे । अंबिकां तु नमस्कृत्य चंडिकां परिपूज्य च ॥ ७९ ॥ आत्मतीर्थे ततः स्नात्वा नत्वा विज्ञानमीश्वरम् । महालक्ष्मीं विलोक्याथ वडवासंगमं ययौ ॥ ८० ॥ प्रतिष्ठानं विलोक्याथ स्नात्वा वृद्धैलसंगमे । शिवनंदासंगमेऽथ नृसिंहं परिपूज्य सः ॥ ८१ ॥ स्वीयनाम्ना ख्याततीर्थे प्रवरासंगमं ययौ । सिद्धेश्वरं नमस्कृत्य निवासाख्यं पुरं ययौ ॥ ८२ ॥ नूपूराख्यं पूरं गत्वा पश्यन्नानास्थलानि सः । ययौ गोदातटेनैव पुण्यस्तंभं रघूद्वहः ॥ ८३ ॥ गन्वा कद्रूसंगमे तु विनतासंगमं ययौ । जनस्थानं ततो गत्वा ययौ त्र्यंबकमीश्वरम् ॥ ८४ ॥ दाक्षिणान्यैर्नृपतिभिर्मानितः पूजितोऽपि च । गृहीत्वा करभारं स्वं तेभ्यस्तैः सहितो ययौ ॥ ८५ ॥ एवं दक्षिणयात्रेयं या कृता राघवेण वै । सा मया विस्तरेणैव कथिता त्र्यंबकावधि ॥ ८६ ॥ इति श्रीमदानंदरामायणे यात्राकण्डे दक्षिणतीर्थयात्रावर्णनं नाम सप्तमः सर्गः ॥ ७ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |