॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यात्राकाण्डम्
॥ तृतीयः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
पार्वत्युवाच को रामदासः कुत्रस्थो विष्णुदासश्च कः स्मृतः । कथं वदिष्यति गुरुस्तन्मां कथय विस्तरात् ॥ १ ॥ श्रीशिव उवाच भारते दण्डकारण्ये गोदानाभौ विराजिते । क्षेत्रेऽब्जके नृसिंहाख्यो मुनिरग्रे भविष्यति ॥ २ ॥ रामनामा तु तत्पुत्रस्तच्छिष्यो विष्णुरित्यपि । गुरुशिष्यौ गमसेवासक्तौ नित्यं भविष्यतः ॥ ३ ॥ दास्यत्वाज्जानकीजानेस्तावुभो भूसुरोर्रमौ । रामदासविष्णुदामाविति लोके परां प्रथाम् ॥ ४ ॥ गमिष्यतोऽग्रे भो देवि गौतम्या दक्षिणे तट । रामदासः पितुः श्राद्धं गयायां संविधाय च ॥ ५ ॥ पृथिव्यां यानि तीर्थानि तानि गत्वा यथाक्रमम् । अध्यापयिष्यति च्छात्रान् गोदानाभौ गृहाश्रमी ६ ॥ एकदाविष्णुदासः स श्रुत्वा नानाविधाः कथाः । रामदासमुखात्सारकाण्डं रामायणोद्भवम् ॥ ७ ॥ श्रुत्वा किंचित्प्रष्टुमना रामदासं वदिष्यति । विष्णुदास उवाच गुरो ते प्रष्टुमिच्छामि तत्त्वं वक्तुमिहार्हसि ॥ ८ ॥ सारकाण्डं मया त्वत्तः श्रुतं रामायणस्थितम् । न किञ्चित्सौख्यलेशोऽपि जानक्याराघवस्य च ॥ ९ ॥ श्रुतोऽत्र कापि राज्यस्य विस्तारोऽपि च न श्रुतः । कथं यागाः कृतास्तेन सन्ततिस्तस्य न श्रुता ॥ १० ॥ सुतानां बंधुपुत्राणां विवाहादिकमश्रुतम् । तत्सर्व विस्तरात्त्वत्तः श्रोतुमिच्छाऽस्ति मे गुरो । ११ ॥ तत्त्वं वद महाभाग रघुवीरस्य चेष्टितम् । रम्यं पवित्रमानन्ददायकं पातकापहम् ॥ १२॥ रामदास उवाच सम्यक् पृष्टं त्वया वत्स रामचन्द्रकथानकम् । मंगलं रघुनाथस्य प्रोच्यते यत्सविस्तरम् ॥ १३ ॥ सावधानमनास्त्वं तच्छृणु पातकनाशनम् । यथा श्रुतं मया पूर्वं तुष्ट्यर्थं तै वदाम्यहम् ॥ १४ ॥ हत्वा दशाननं रामो राज्यं निहतकंटकम् । अयोध्यायां मुक्तिपुर्यां शशास नीतिमत्तमः ॥ १५ ॥ न दुर्भिक्षं न चौर्यं च नापमृत्युर्न चेतयः । न दारिद्र्यं भयं चिन्ता व्याधयश्च कदाचन ॥ १६ ॥ न भिक्षार्थी न दुर्वृत्तो नु पापात्मा न निष्ठुरः । न क्रोधी न कृतघ्नोऽपि रामे राज्यं प्रशासनि ॥ १७ ॥ एकदा जानकी कान्तमेकान्ते प्राह लज्जिता । स्मितवक्त्रा चारुनासा दिव्यालङ्कारमण्डिता ॥ १८ ॥ चामरव्यग्रहस्ता सा विनयावनतानना । राम राजीवपत्राक्ष रावणारे मम प्रभो ॥ १९ ॥ किञ्चिद्विज्ञप्तुमिच्छामि यद्यनुज्ञां करोषि हि । विज्ञापयामि तर्हि त्वां धर्ममूलं महोदयम् ॥ २० ॥ तत्सीतावचनं श्रुत्वा जानकी प्राह राघवः । हे सीते कंजनयने मम प्राणसुखास्पदे ॥ २१ ॥ शीघ्रं वदस्व यत्तेऽस्ति चित्ते तत्कारवाण्यहम् । इति राघवसम्मानवचनैर्जनकात्मजा ॥२२ ॥ नितरां तोषपूरौघपरिपूर्णाऽब्रवीत्पतिम् । श्रीसीतोवाच यदा त्वं राघवश्रेष्ठ दण्डकं वचनात्पितुः ॥ २३ ॥ मया सौमित्रिणा साकं पूर्वं स्वनगराद्गतः । शृंगवेरपुरं गत्वा जाह्नव्यास्तरणे यदा ॥ २४ ॥ नौकायां स्थितमस्माभिर्भागीरथ्यां तदा पुरा । संकल्पितं मया किंचित्तत्त्वां वक्ष्याम्यहं प्रभो ॥ २५ ॥ देवि गंगे नमस्तेऽस्तु निवृत्ता वनवासतः । रामेण सहिताऽहं त्वां लक्ष्मणेन च पूजये ॥ २६ ॥ सुरामांसोपहारैश्च नानावलिभिरादृता । इत्युक्तं वचनं पूर्व तज्ज्ञातं भवताऽपि च ॥ २७ ॥ ततश्चतुर्दशे वर्षे विमानेन यदाऽऽगतम् । तदा भरतशत्रुघ्नकौसल्याविरहातुरा ॥ २८ ॥ अहं तद्विस्मृता रामा स्मृतिजाताऽद्य मे प्रभो । तन्मत्संकल्पपूर्त्यर्थं गन्तुमर्हसि जाह्नवीम् ॥ २९ ॥ मया मातृबंधुभिस्त्वमिति ते प्रार्थयाम्यहम् । रोचते यदि ते चित्ते न त्वामात्तापयाम्यहम् ॥ ३० ॥ इति सीतावचः श्रुत्वा प्रहस्य रघुनन्दनः । सीतामालिंग्य बाहुभ्यां हर्षयन् तामुवाच सः ॥ ३१ ॥ एतद्वचनचातुर्यं कुतो जानासि मैथिलि । न तत्ते वचनं देवि गङ्गां प्रति ममैव तत् ॥ ३२ ॥ वचनात्तव वैदेहि श्वो गन्ता जाह्नवीं प्रति । क्व ते वांछाऽस्ति दयिते गङ्गां गन्तुं वदस्व मे ॥ ३३ ॥ तच्छ्रुत्वा तत्र वै स्थातुं सेनायोग्यसमं मृदु । ऋजुं कर्तु हि पन्थानं दूतानाज्ञापयाम्यहम् ॥ ३४ ॥ ततः सीताऽब्रवीद्वाक्यं पुनः श्रीरामचोदिता । यत्र गङ्गा च सरयू संगताऽस्ति रघूद्वह ॥ ३५ ॥ तत्र गङ्गोत्तरे देशे गंतुमिच्छति मे मनः । इति सीतावचः श्रुत्वा तथेत्युक्त्वा रघूद्वहः ॥ ३६ ॥ द्वारपालं समाहूय पटैराच्छाद्य जानकीम् । आज्ञापयच्च तं रामः शीघ्रं गच्छ ममाज्ञया ॥ ३७ ॥ लक्ष्मणं वचनं मे त्वं कथयस्व सविस्तरम् । ज्ञायव्यः श्वो ममोद्योगः सीतायाश्चैव कौतुकात् ॥ ३८ ॥ सरयूसङ्गमे गङ्गापूजनार्थं त्वया सह । मातृभिर्मन्त्रिभिः सैन्यैः सुहद्भिर्भरतेन च ॥ ३९ ॥ शत्रुघ्नेन पुरिस्थैश्च जनैर्विप्रैर्यथासुखम् । सेनानिवेशस्थानानि योजनार्द्धान्तराणि च ॥ ४० ॥ पूरितामन्नतोयाद्यैः कल्पनीयानि वै पृथक् । इति रामवचः श्रुत्वा स तथेति त्वरान्वितः ॥ ४१ ॥ आज्ञाप्रमाणमित्युक्त्वा नत्वा रामं पुनः पुनः । कथयामास सौमित्रिं रामवाक्यं सविस्तरम् ॥ ४२ ॥ तद्रामवचनं श्रुत्वा यौवराज्यपदस्थितः । सभायां मन्त्रिभिर्युक्तो लक्ष्मणो दूतवचनं ॥ ४३ ॥ अङ्गीकृतं रामवाक्यमिति रामं वदस्व तत् । तच्छ्रत्वा त्वरितं दूतः कथयामास राघवम् ॥ ४४ ॥ सभायां लक्ष्मणश्चापि दूतानाज्ञापयत्तदा । रुक्मदण्डकरान् चित्रोष्णीषयुक्तान् विभूषितान् ॥ ४५ ॥ गच्छध्वं त्वरिता यूयं कथयध्वं जनान्पुरि । अयोध्यायां राघवस्य श्वो यात्रार्थं –समुद्यमः ॥ ४६ ॥ तथेत्युक्त्वा जवाद्दूता राजमार्गेषु सर्वतः । दीर्घस्वरेण ते प्रोचुश्चोर्ध्वं कृत्वाऽऽत्मसत्कृतम् ॥ ४७ ॥ हे जनाः शृणुत स्वस्थाः श्वः सीतारामयोर्मुदा । समुद्योगोऽस्ति पूजार्थं सरय्वाः सङ्गमं प्रति ॥ ४८ ॥ भागीरथ्यां सुहृद्भिश्च सावरोधैर्बलैः सह । इति संश्राव्य सकलान् जनान साकेतवासिनः ॥ ४९ ॥ ते दूता राजभवने लक्ष्मणं तं पुनर्ययुः । संश्राव्य ते जनांश्चारा रामोद्योगं न्यवेदयन् ॥ ५० ॥ सभायां लक्ष्मणश्चापि समाहूयानुजैर्जवात् । तक्षकानिष्टिकाकारान् दृषत्कर्मसु नैष्ठिकान् ॥ ५१ ॥ लोहकारांश्चर्मकारान् भित्तिकर्मादिनैष्ठिकान् । क्रयविक्रयकर्तृंश्च काष्ठनिर्जीवकारिणः ॥ ५२ ॥ वासोगृहविदग्धाश्च महिषैर्जलवाहिनः । नानाकर्मसु निष्णाता रज्जुकुद्दालधारिणः ॥ ५३ ॥ एतानाज्ञापयामास तोषणाद् वसनादिभिः । संमानितान्स सौमित्रिः कथयामास सादरम् ॥ ५४ ॥ समुद्योगं राघवस्य सीतायाः श्वो बलैः सह । ऋजुर्मार्गो विधातव्यः समः कर्करवर्जितः ॥ ५५ ॥ निम्ना भूमिः समाकार्यां उच्चा भूमिः समाऽपि च । छिद्यंतां पार्वता वृक्षा मार्गस्था दुःखदायकाः ॥ ५६ ॥ वाप्यः कूपास्तडागाश्च शोधनीयाः सहस्रशः । नवीनाश्चापि कर्तव्याः सताया निर्जले वने ॥ ५७ ॥ सेनानिवेशस्थानानि योजनार्द्धे सविस्तरे । कल्पनीयानि युष्माभिः पूरितान्यन्नवारिभिः ॥ ५८ ॥ चुल्ल्यो रम्या विधातव्याः पाकशालाः सभित्तयः । वस्त्रैर्गृहाणि कार्याणि तृणैश्चापि सहस्रशः ॥ ५९ ॥ आरक्तखर्परैराच्छादितानि चित्रितानि हि । नानागृहाणि कार्याणि पूरितान्यन्नवारिभिः ॥ ६० ॥ पुष्पाणां वाटिकाः कार्यो शतशोऽथ सहस्रशः । मार्गे मार्गे कौतुकार्थं भित्तौ चित्राण्यनेकशः ॥ ६१ ॥ नरस्कंधगताश्चित्रवाटिकाश्च सहस्रशः । पुष्पाणां वाटिकाश्चारुमृत्पात्रनिर्मिताः शुभा ॥ ६२ ॥ मार्गे मार्गे गायकानां स्थलान्यपि सहस्रशः । सेनानिवासस्थानेषु हस्त्यश्वरथवाजिनाम् ॥ ६३ ॥ सहस्रशो विधातव्याः शालाः पूर्णास्तृणादिभिः । सुगंधचदनैमार्गाः सेचनीयाः समंततः ॥ ६४ ॥ नेमिरेखाऽपि ग मार्गे विचित्रवसनैर्गृहाः । पुष्पंराच्छादनीयास्ते दृढाः सन्तु समंततः ॥ ६५ ॥ शृंगारैरतिचित्रैश्च हस्त्युष्टरथवाजिनः । वस्त्रालङ्कारघण्टाभिः शोभनीयाः सहस्रशः ॥ ६६ ॥ शकटेषु तथोष्ट्रैषु वारणेषु रथादिषु । शतघ्न्यः परिघा बाणाः शक्तयः कार्मुकान्यपि ॥ ६७ ॥ स्थापनीयानि शतशा विधातव्या ध्वजा अपि । चतुर्ष्वपि विधातव्या ध्वजा रामरथेषु हि ॥ ६८ ॥ हनुमत्कोविदाराण्डजेशबाणांकिताः शुभाः । चतुर्ष्वपि बंधनीयाः पताकाः स्यंदनेषु हि ॥ ६९ ॥ हरितश्वेतपीतनीलवर्णाः परमशोभनाः । गजपृष्ठे राघवार्थं हरिद्वर्णाङ्कितासनम् ॥ ७० ॥ रुक्ममाणिक्यरचितं सितच्छत्रोपशोभितम् । स्थापनीयं महादिव्यं मुक्ताहारविराजितम् ॥ ७१ ॥ सीतार्थ करिणीपृष्ठे नीलवर्णं महासनम् । क्क्मविद्रुमवेदूर्यरत्नमुक्ताविराजितम् ॥ ७२ ॥ मुक्ताफलहेमतंतुगणैराच्छादितं वरम् । सिद्ध कार्यं महादिव्यं स्वर्णकुंभविराजितम् ॥ ७३ ॥ पुष्पमालास्तोरणनि बंधनीयानि वै पथि । नृत्यंतु वारवेश्याश्च स्तुतिं कुर्वन्तु वन्दिनः ॥ ७४ ॥ द्रव्यैर्वस्त्रैराभरणैः पूजाद्रव्यैश्च गोरसैः । पात्रैनानाविधैर्दिव्यैः पूग्णीया रथोत्तमाः ॥ ७५ ॥ अन्यच्चापि मया नोक्तं यद्यद्योग्यं हि तत्पथि । सिद्ध कार्यं हि योगेन येन तुष्यति राघवः ॥ ७६ ॥ इति सन्दिश्य मेधावी लक्ष्मणः सह मंत्रिभिः । सायं सन्ध्यादिकं कर्तुं जगाम निजमन्दिरम् ॥ ७७ ॥ सौमित्रेराज्ञया तेऽपि तथा चक्रुर्यथोदिताः । संतुष्टास्ते यथायोग्यं रामसंतोषहेतवे ॥ ७८ ॥ रामोऽपि सीतया सार्द्धं मन्दिरे रत्ननिर्मिते । मञ्चके पुष्पशय्यायां सीतामालिङ्ग्य वे दृढम् ॥ ७९ ॥ रुक्मनेपथ्ययुक्ताभिर्दासीभिश्च मुहुर्मुहुः । वीजितो वालव्यजनैर्निशि सुप्तः सुखं तदा ॥ ८० ॥ इति श्रीमदानन्दरामायणे यात्राकाण्डे दूताज्ञाकरणं नाम तृतीयः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु |