॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ द्वितीयः सर्गः ॥
[ रामायणविस्तारकथनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीशिव उवाच
वाल्मीकिना कृतं देवि शतकोटिप्रविस्तरम् ।
रामायणं महाकाव्यं जग्मुहुर्मुनयश्च ते ॥ १ ॥
आश्रमे तत्पठंति स्म कथयंति स्म ते मुदा ।
तच्छ्रोतुममराः सर्वे विमानश्च दिवि स्थिताः । २ ॥
श्रुत्वा सर्वं सविस्तारं वाल्मीकिं पुष्पवृष्टिभिः ।
ववपुर्जयशब्दैस्ते प्रशशंसुर्मुनीश्वरम् ॥ ३ ॥
ततो देवाः सगन्धर्वा यथा नागाः सकिन्नराः ।
मुनीश्वरा गुह्यकाश्च पार्थिवाः पद्मभूस्त्वहम् ॥ ४ ॥
परस्परं ते कलहं चक्रुः कार्य्यार्थमादरात् ।
ब्रह्माद्या निर्जराः सर्वे पन्नगान्दितिजान्नरान् ॥ ५ ॥
वयंकाव्यं विनेष्यामो दिवं वाल्मीकिना कृतम् ।
दितिजाः पन्नगाः प्रोचुर्विनेष्यामो रसातलम् ॥ ६ ॥
वयं काव्यं राघवस्य चरित्रं पावनं शुभम् ।
ऋषीश्वराः सभूपालाः प्रोचुः काव्य हि भूतलात् ॥ ७ ॥
नेतुं रसातलं स्वर्गं न दास्यामो वयं त्विदम् ।
काव्यार्थमिति ते चक्रुः कलहं रोमहर्षणम् ॥ ८ ॥
ततो देवि जनान् सर्वान्निवार्य वचनैर्निजैः ।
गत्वाऽहं तैस्तु क्षीराब्धौ शेषपर्यङ्कशायिनम् ॥ ९ ॥
विष्णुं स्तुत्वा तु वैदोक्तैर्मन्त्रैर्नानाविधैरपि ।
नानापूजोपहारैश्च पूजयित्वा सविस्तरम् ॥ १० ॥
कृतवान् गीतवाद्यादि तेन विष्णुरबुध्यत ।
पप्रच्छ मां तदाविष्णुः किमर्थं बोधितोऽस्म्यहम् ॥ ११ ॥
वृत्तं सर्वं मया देवि कथितं तत्सविस्तरम् ।
काव्यार्थं कलहं श्रुत्वा प्रहस्य जगदीश्वरः ॥ १२ ॥
त्रिधा विभज्य काव्यं तत् क्षणेन भक्तवत्सलः ।
त्रयस्त्रिंशत्कोटिलक्षसहस्राणि पृथक् पृथक् ॥ १३ ॥
शतानि स्त्रोणि श्लोकांश्च त्रयस्त्रिंशच्छुभावहान् ।
दशाक्षरमितान्मत्रान्व्यभज्यत रमापतिः । १४॥
द्वेऽक्षरे याचमानाय मह्यं शेषे ददौ हरिः ।
उपादिशाम्यहं काश्यां तेऽन्तकाले नृणां श्रुतौ ॥ १५ ॥
रामेति तारक मन्त्रं तमेव विद्धि पार्वति ।
लक्ष्मीगरुडशेषेभ्यो याचमानेभ्य आदरात ॥ १६ ॥
मन्त्रत्रयं पृथक् विष्णुर्ददौ नेभ्योऽतिहर्षितः ।
शेषान् निनाय पातालं लक्ष्मीर्वैकुण्ठमादरात् ॥ १ ७॥
पृथिव्यामेव गरुडस्तं दधार महामनुम् ।
प्रापुः शेषात्पन्नगाद्याः सर्वे पातालवासिनः ॥ १८ ॥
स्वर्गे प्रापुर्महालक्ष्म्यास्तं मनुं निर्जरादयः ।
तार्क्ष्यात्प्रापुर्महामन्त्रं सर्वे भूतलवासिनः ॥ १९ ॥
म्स्न्त्रशास्त्रात्तत्स्वर्रूपं ज्ञेयं गुह्यं गिरीन्द्रजे ।
ततः पूर्वविभागान्स ददौ विष्णुः पृथक् पृथक् ॥ २० ॥
एवं विभागं देवेभ्यो द्वितीयं परमेश्वरः ।
मुनीश्वरेभ्योः नागेभ्यस्तृतीयं भागमुत्तमम् ॥ २१ ॥
ततो देवा निजं भागं स्वर्गं निन्युर्मुदान्विताः ।
पाताले पन्नगाद्याश्च निन्युर्भागं मुदा निजम् ॥ २२ ॥
आसीद्‌भागो मुनीनां हि पृथिव्यां गिरिवरात्मजे ।
तस्यापि विस्तरं वक्ष्ये विभक्तो विष्णुना यथा ॥ २३ ॥
सप्तद्वीपेषु सर्वेषु विभक्तः सप्तधा पुनः ।
कोट्यश्चत्वारि लक्षाणि षट्सप्ततिमितानि हि ॥ २४ ॥
सहस्राणि तथैकानविंशच्चैव तथा पुनः ।
सप्तचत्वारिंशन्मिताः श्लोकाश्चेति पृथक पृथक ॥ २५ ॥
विभक्तं सप्तधा देवि सप्तद्वीपेषु विष्णुना ।
चतुःश्लोकाः शेषभूता याचमानाय वेधसे ॥ २६ ॥
ददौ विष्णुस्तुष्टमना निजभक्ताय भक्तितः ।
पुष्करद्वीपभागश्च वर्षयोर्द्विविधः कुतः ॥ २७ ॥
कोट्या द्वे ह्यष्टत्रिंशच्च लक्षाणि हि तथा पुनः ।
सहस्राणि नवैवाथ तथा पचषतानि हि ॥ २८ ॥
त्रयोविंशाश्च ते श्लोकाः षोडशाक्षरजो मनुः ।
एवं द्विधा कृतौ भागौ विष्णुना वर्षयोस्त्विह ॥ २९ ॥
शाकद्वीपादिद्वीपानां पंचानां च पृथक् पृथक् ।
सप्तस्वपि च वर्षेषु सप्तैव हरिणा यथा ।
तत्तद्भागा विभक्ताश्च ताञ्छृणुध्व ब्रवीम्यहम् ॥ ३० ॥
अष्टषष्टि हि लक्षाणि सहस्रे द्वे शतानि हि ।
सप्तैव च तथा श्लोका एकविंशच्छुभप्रदाः ॥ ३१ ॥
विभज्य षट्सु द्वीपेषु हरिणेव यथाक्रमम् ।
जम्बूद्वीपगतो भागो नववर्षेषु सादरम् ॥ ३२ ॥
विभक्ती विष्णुना देवि यथा त्वां च ब्रवीम्यहम् ।
द्विपंचशात्तु लक्षाणि तथा गिरिवरात्मजे ॥ ३३ ॥
सहस्राण्येकनवतिंश्लोकाः पञ्च तथा पुनः ।
सप्ताक्षरमिता मंत्रास्त्वेव हि नवधा कृतः, ॥ ३४ ॥
शेषमेकमक्षरं श्रीरिति सर्वत्र विष्णुना ।
नवखण्डेषु तत्त्यक्तं तत्सर्वत्र न्योजयत् ॥ ३५ ॥
नानानामसु मंत्रेषु न तस्य नियमः कृतः ।
विभज्येति महाविष्णुरदृश्यमगमत्तदा ॥ ३६ ॥
अग्रे कालांतरे देवि दशास्यो बुद्धिमत्तरः ।
निजबुद्धिबलादेव वेदानां च पृथक् पृथक् ॥ ३७ ॥
शतशश्चैव खण्डानि करिष्यति ऋजूनि च ।
ज्ञात्वा मदधियो विप्रा भविष्यन्तीति वै कलौ ॥ ३८ ॥
क्षीणायुषो व्यग्रचित्तास्तेषां योग्यानि रावणः ।
श्रीकृष्णोऽपि पुनर्देवि व्यासरुपधरो भुवि ॥ ३९ ॥
मानवानां हितार्थाय काव्याद्‌रामायणान्पुनः ।
भागाद्‌भारतवर्षान्तर्गताश्च विविधानि हि ॥४०॥
पृथक् पृथक् सप्तदश पुगणानि करिषवति ।
भारतं त्वितिहासं च महच्छ्रेष्ठं करिष्यति ॥४१ ॥
भागाद्भारतवर्षान्तर्गतात्सारं विगृह्य च ।
स व्यासो भारताद्यैश्च यदा शान्ति न गच्छति ॥४२॥
सरस्वत्यास्तटे व्यासो व्यग्रचित्तो भविष्यति ।
एतस्मिन्नन्तरे ब्रह्मा नारदाय महात्मने ॥४३ ॥
चतुःश्लोकैर्विष्णुदत्तैरुपदेशं करिष्यति ।
लब्ध्वा तान् नारदश्चापि सुवीणां रणयन्मुहुः ॥४४॥
कीर्तयन् सुस्वरं गत्वा मुनिं सत्यवतीसुतम् ।
ताञ्श्लोकान् व्याममुनये स तदा ह्युपदेक्ष्यति ॥४५ ॥
लब्ध्वा व्यासमुनिः श्लोकास्तान्‌रामायणसंस्थितान् ।
शान्तिं लब्ध्वा ततस्तेषां विस्तार च करिष्यति ॥ ४६ ॥
तेषामेवार्थमादाय पुराणं परमोदयम् ।
अष्टादशसहस्रं हि श्रीमद्भागवताभिधम् ॥ ४७ ॥
करिष्यत्यष्टादशमं रम्यं जनमनोहरम् ।
भागवतस्यात एव वाणी भिन्ना भविष्यति ॥ ४८ ॥
पुराणानां च सर्वेषां वाल्मीकायैव गीः प्रिये ।
पृथक्कर्ता स्मृतो व्यासः श्रीमद्‌रामायणं शतम् ॥ ४९ ॥
करिष्पति तथान्यानि स व्यासो विविधानि च ।
रम्याण्युपपुराणानि सारं सारं विगृह्य च ॥ ५० ॥
भागाद्भारतखण्डान्तर्गताद्‌रामायणाद्‌भुवि ।
करिष्यंति तथान्येऽपि षट्शास्त्राणि मुनीश्वराः ॥ ५१ ॥
तस्माद्‌रामायणादेव सारमुद्धृत्य सादरात् ।
यत्किञ्चिद्गिरिजे भूम्यां कीर्त्यते वै कथानकम् ॥ ५२ ॥
रामायणांशजं विद्धि श्लोकमात्रमपीह यत् ।
पार्वत्युवाच -
शंभो ते प्रष्टुमिच्छामि व्यासाय नारदो मुनिः ॥ ५३ ॥
स्वयं ज्ञात्वा विधिमुखाद्‌रम्यान्पातकनाशनान् ।
तान् रामचरितश्लोकांश्चतुरश्चोपदेक्ष्यति ॥ ५४ ॥
यैः करिष्यति स व्यासो मुनिर्भागवतं वरम् ।
ताञ्श्लोकाश्चतुरस्त्वं मां कृपया वक्तुमर्हसि ॥ ५५ ॥
श्रीशिव उवाच
सम्यक पृष्टं त्वया देवि सावधानमनाः शृणु ।
नारदोक्तांश्चतुःश्लोकांस्तवाग्रे प्रवदाम्यहम् ॥ ५६ ॥
नारदायापि कथिता विधिना ये पूरा शुभाः ।
ब्रह्मणे विष्णुना पूर्वं श्रीरामचरितं यदा ॥ ५७ ॥
विभक्तं हि तदा दत्ताः शेषभूताः सुपुण्यदाः ।
तान् शृणुष्व चतुःश्लोकान् विष्णुनोक्तान्स्वयंभुवे ॥ ५८ ॥
श्रीभगवानुवाच
अहमेवासमेवाग्रे नान्यद्‌यत्सदसत्परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ५९ ॥
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ६० ॥
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ६१ ॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ६२ ॥
श्रीशिव उवाच
एवं श्लोका भगवता चत्वारश्च प्रकीर्तिताः ।
वेधसे ये तवाग्रे ते कीर्तिता देवि वै मया ॥ ६३ ॥
एते पवित्राः पापघ्ना मर्त्यानां ज्ञानदायकाः ।
अज्ञाननाशनाः सद्यः कीरतनीया नरोत्तमैः ॥ ६४ ॥
एवं देवि त्वया पृष्टं यथा तत्ते निवेदितम् ।
कथामारंभिता पूर्वमधुना शृणु वच्म्यहम् ॥ ६५ ॥
ततो रामायणं व्यासो विध्वस्तं मुनिभिः पुनः ।
कृत्वैकत्र शेषभूतं सप्तकांडमितं शुभम् ॥ ६६ ॥
चतुर्विंशति साहस्रं रक्षिष्यति मुनिस्तदा ।
आदावन्ते ततस्तस्य श्लोकास्तत्र क्रियन्ति हि ॥ ६७ ॥
चतुविशतिसाहस्रं व्यासस्य रचिता अपि ।
भविष्यन्ति गिरिजेऽग्रे मंजलाचरणादिषु ॥ ६८ ॥
रामायणान्यनेकानि पृथगग्रे मुनीश्वराः ।
भागाद्‌भारतखण्डान्तर्गतात्कुंभोद्धवादयः ॥ ६९ ॥
करिष्यंत्यत्र शतशस्तानि सर्वाणि पार्वति ।
वान्मीकीयाद्विना देवि न ज्ञेयानि मनीषिभिः॥ ७० ॥
सारकाण्डं पुरा देवि यदुक्तं च मया तव ।
वाल्मीकीयाच्च तच्चापि सारमुद्धत्य वै मया ॥ ७१ ॥
निवेदितं च ह्यधुना पृष्टं रामकथानकम् ।
सविस्तारं वदस्वेति त्वया तस्मान्मयोदितम् ॥ ७२ ॥
मानं रामचरित्रस्य शतकोटिप्रविस्तरम् ।
पचाननोऽप्यहं देवि दिव्यैर्वर्षार्बुदैरपि ॥ ७३ ॥
रामायणं सविस्तारं व्याख्यातुं न क्षमस्त्विह ।
यन्निर्मितं च मुनिना स्वतपोभिरनुत्तमम् ॥ ७४ ॥
अतः संक्षेपमात्रं हि सारं सारं विगृह्य च ।
कथयिष्यामि त्वत्प्रीत्यै यात्राकाण्डं शुभावहम् ॥ ७५ ॥
रामदासो यथाऽग्रे हि विष्णुदासं वदिष्यति ।
शतकोटिमितान् ज्ञानदृष्ट्या चाहं तथा तव ॥ ७६ ॥
इति श्रीशतकोटिरामचरितान्तर्गतश्रीमदानंदरामायणे यात्राकाण्डे
रामायणविस्तारकथनं नाम द्वितीयः सर्गः ॥ २ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP