॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विवाहकाण्डम्
॥ अष्टमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथैकदा दक्षिणे हि शिवकांत्यां महापुरि । कंबुकंठी नृपः श्रीमान्निजकन्यास्वयंवरम् ॥ १ ॥ कर्तुकामो नृपान्सर्वानाह्वयामास सादरम् । तदा ते पार्थिवाः सर्वे पत्राणि हि पृथक पृथक् ॥ २ ॥ पूर्ववैरमनुस्मृत्य कुशस्यापि लवस्य च । स्वयंवरे स्वीयमानभंगेनोद्भूतहृत्स्थितम् ॥ ३ ॥ प्रेषयामासुर्नृपतिं न ययुश्च स्वयंवरम् । तेषां पत्राणि सर्वाणि कंबुकंठो ददर्श सः ॥ ४ ॥ सर्वेषु लिखितस्त्वेक एवार्थस्तं वदाम्यहम् । यदि नायांति रामस्य बालकास्ते स्वयंवरे ॥ ५ ॥ वयं सर्वे तर्हि यामो जंबुद्वीपान्तरस्थिताः । तेषामेवमभिप्रायं ज्ञात्वा स नृपतिस्तदा ॥ ६ ॥ न समाहूय श्रीराममाह्वयामास पार्थिवान् । स्वयं चापि स्मरन्वेरं तदेवं रामपुत्रयोः ॥ ७ ॥ चंपिकासुमतिपाणिग्रहणीयं पुरातनम् । ततस्ते पार्थिवाः सर्वे श्रुत्वा रामं हि नागतम् ॥ ८ ॥ सप्तद्वीपांतरस्थाश्च ययुः कांतिपुरीं प्रति । अथ तां कंबुकंठस्य कन्यां मदनसुन्दरीम् ॥ ९ ॥ प्रासादसंस्थितां दृष्ट्वा नारदः खात्समाययौ । सखीभिः सा मुनिं पूज्य विनयात्पुरतः स्थिता ॥ १ ० ॥ पप्रच्छ नारदं भक्त्या विनयावनता शनैः । कुतः समागतः स्वामिन् गम्यते क्वाधुना वद ॥ ११ ॥ भवतां दर्शनेनाद्य पावित्र्यं परमं गता । इतितस्या वचः श्रुत्वा किंचित् स्मित्वा मुनिस्तदा ॥ १ २ ॥ तामाह बाले स्वर्लोकादागतोऽस्म्यधुना त्वहम् । अयोध्यायां राघवस्य पुत्राणां तु पृथक् पृथक् ॥ १३ ॥ गेहे संभोक्तुकामोऽद्य निर्गतोऽस्मि विहायसा । एतस्मिन्नंतरे कांतिपुर्याः सैन्यानि वै बहिः ॥ १४ ॥ दृष्ट्वा केषां हि सैन्यानि संतीति हृदि चितितम् । ततः पांथमुखाच्छ्रुत्वा तव चात्र स्वयंवरम् ॥ १५ ॥ तदा विनिश्चितं चित्ते मया रामः स्वयंवरे । अत्रैवास्ति ह्यागतश्चेत्तं पश्यामि सबालकम् ॥ १ ६ ॥ नैवास्ति ह्यागतश्चेद्वै तर्हि यास्याम्यतः परम् । स्वयंवरो विना रामं न भविष्यति सात्मजम् ॥ १७ ॥ पश्याम्यत्रैव तं रामं द्वथाऽग्रे गमनं मम । निश्चित्येत्थं समायातस्ततोऽदृष्ट्वा रघूत्तमम् ॥ १८ ॥ कथं रामो नागतोऽत्र चेति पृष्टा नृपा मया । नृपाभिप्रायमाकर्ण्य तदा खिन्नं मनो मम ॥ १९ ॥ सप्तद्वीपपतिं रामं बंधुबालकसंयुतम् । स्वयंवरमनाहूय त्वत्पित्रा निश्चितं नृपैः ॥ २० ॥ अधुनाऽह प्रगच्छामि साकेतस्थं रघूत्तमम् । मन्दभाग्याऽसि वाले त्वं स्नुषा राघवसत्पतेः ॥ २१ ॥ यतो जाताऽसि नैवात्र विचित्रा कर्मणो गतिः । इत्युक्त्वा वालिका पृष्ट्वा नारदो गन्तुमुद्यतः ॥ २२ ॥ ततः संप्रार्थयामास नारदं बालिका मुहुः । खिन्नचित्ताश्रुपूर्णाक्षी म्लानास्या स्फुरिताधरा ॥ २१ ॥ रोमांचिततनुर्मुग्धा गतश्रीर्गद्गदस्वरा । येनाहं मुनिवर्यात्र स्नुषा श्रीराघवस्य च ॥ २४ ॥ भविष्यामि तथा कार्यं त्वया त्वां शरणं गता । इत्युक्त्वा मुनिवर्यस्य पादयोः स्थाप्य साशिरः ॥ २५ ॥ चकार करुणं बाला तदा तां मुनिरब्रवीत् । मा चिन्तां कुरु रंभोरु समुत्तिष्ठस्व बालिके ॥ २६ ॥ भविष्यसि त्वं रामस्य स्नुषा यत्न करोम्यहम् । इत्युक्त्वा तां समाश्वास्य खमार्गेण मुनिर्ययौ ॥ २७ ॥ एतस्मिन्नन्तरेऽयोध्यापुर्याः स्यन्दनसंस्थितः । यूपकेतुर्वनं पश्यंस्तमसातीरमाययौ ॥ २८ ॥ किञ्चित्सैन्ययुतो बालस्तमसायां विगाह्य सः । यावत्संध्यादिकं कर्तुमुपविष्टस्तदा मुनिम् ॥ २९ ॥ ददर्श नारदं नत्वा पूजयामास सादरम् । ततः पप्रच्छ मुनये यूपकेतुः पुरःस्थितः ॥ ३० ॥ कुतः समागतं चेति तच्छ्रुत्वा नारदो मुनिः । सर्व वृत्तं सविस्तारं कथयामास बालकम् ॥ ३१ ॥ तच्छ्रुत्वा सकलं वृत्तं नत्वा तं नारदं मुनिम् । अब्रवीद्बालको वाक्यं सक्रोधः संभ्रमान्वितः ॥ ३२ ॥ मुने नृपाणां सर्वेषां द्वेषबुद्धिश्च राघवे । या जाता साऽद्य सर्वेषां ज्ञेयाऽनर्थकरी जवात् ॥ ३३ ॥ कंबुकंठादिभूपानां सारं पश्याम्यहं रणे । रणे त्वत्कृपया सर्वान् जित्वा तामानयाम्यहम् ॥ ३४ ॥ इत्युक्त्वा स ययौ कांतिं पञ्चमेऽहनि सेनया । नारदोऽपि ययौ रामं द्रष्टुं प्रीतमनास्तदा ॥ ३५ ॥ रामेण पूजितः प्रेम्णा भोजनार्थं निमंत्रितः । अथ भोजनवेलायां युपकेतुं रघूत्तमः ॥ ३६ ॥ अदृष्ट्वा लक्ष्मणं प्राह यूपकेतुर्न दृश्यते । बालेषु तं भोजनार्थं लक्ष्मणात्र समाह्वय ॥ ३७ ॥ तदा स मालतीं गत्वा प्रपच्छ लक्ष्मणो जवात् । सा प्राह वनमध्येऽद्य किञ्चित्सैन्ययुतो गतः ॥ ३८ ॥ वृत्तमेतद्यथावत्स गत्वा राम जगाद ह । अथ रामो भोजनादि संपाद्य मुनिना मुदा ॥ ३९ ॥ ययौ सभायामासीनस्तं मुनिं वाक्यमब्रवीत् । पञ्चसप्तदिनान्यत्र स्थेयं मद्वचनात्त्वया ॥ ४० ॥ तथेति नारदः प्राह सभायां संस्थितः सुखम् । अथ रात्रौ यूपकेतुमदृष्ट्वा रघुनन्दनः ॥ ४१ ॥ उपाहारं कर्तुकामः पुनर्लक्ष्मणमब्रवीत् । आकारय यूपकेतुं नायं दृष्टा मया शिशुः ॥ ४२ ॥ तथेति रामवचनात्पुनर्गत्वा तु मालतीम् । पप्रच्छ यूपकेतुं स सा प्राह नागतस्त्विति ॥ ४३ ॥ ततः स विह्वलो भूत्वा रामं वृत्तं न्यवेदयत । राभोऽपि नागतं श्रुत्वा बंधुभ्यां विह्वलोऽभवत् ॥ ४४ ॥ ततः सा जानकी श्रुत्वा विह्वला खिन्नमानसा । दुद्राव राघवाग्रे सा सर्वे तूष्णीं कथं स्थिताः ॥ ४५ ॥ इति तान् प्राह वैदेही तदा सर्वेऽतियिह्नलाः । त्यक्त्वोपाहारान् वेगेन तच्छोधार्थं समुद्यताः ॥ ४६ ॥ तदा तान्विह्वलान्दृष्ट्वा नारदः प्राह राघवम् । कांतिवृत्तं यूपकेतोः प्रयाणादिकमादरात् ॥ ४७ ॥ तत्सर्व राघवः श्रुत्वा किंचित्तुष्टमनास्तदा । लक्ष्मणं प्राह वेगेन शत्रुघ्नोऽद्यैव गच्छतु ॥ ४८ ॥ सेनया चतुरंगिण्या जवात्कांतिं कुशादिभिः । तथेति लक्ष्मणश्चोक्त्वा चोपाहारान्विधाय सः ॥ ४९ ॥ सेनया बालकैवगाच्छत्रुघ्नं प्रैषयन्निशि । रामं नत्वाऽथ शत्रुध्नः शीघ्रं स्यन्दनसंस्थितः ॥ ५० ॥ ययौ कांतिसमीपं स षष्ठेऽहनि मुदान्वितः । एतस्मिन्नंतरे कातिपुर्यां तत्र स्वयंवरे ॥ ५१ ॥ सभायां राजशार्दूलाः संस्थितास्ते मुदान्विताः । अच सा शिबिकारूढाऽऽययौ मदनसुन्दरी ॥ ५२ ॥ किंचिन्म्लानमुखी दुःखात्स्मरंती नारदेरितम् । वृद्धोपमाता तां सर्वान् दर्शयामास पार्थिवान् ॥ ५३ ॥ यूपकेतुस्तदा वेगाद्गत्वा तूष्णीं सभांगणम् । मोहनास्त्रं विसृज्याथ मेहयामास तां सभाम् ॥ ५४ ॥ मोहितैर्मोहनास्त्रेण न्यस्तां तद्वाहकैर्भुवि । रथेन शिबिकां गत्वा धृत्वा मदनसुन्दरीम् ॥ ५५ ॥ निजाभिधानं संश्राव्य तां तुष्टामकरोत्तदा । अथ सा वरयामास वीरं मदनसुन्दरी ॥ ५६ ॥ मुमोच मालां तत्कण्ठे नवरत्नमयीं शुभाम् । ततः स यूपकेतुर्हि रथे मदनसुन्दरीम् ॥ ५७ ॥ निवेश्य कांतिपुर्याः स बहिर्गत्वा स्थिरोऽभवत् । तामाह दयितां वीरस्त्विदानीं त्वं भयं त्यज ॥ ५८ ॥ जित्वा सर्वान्नृपानद्य त्वया गच्छाम्यह पुरीम् । तत्तस्य वचनं श्रुत्वा सा प्राह वचनं तदा ॥ ५९ ॥ बहवः सति राजानस्त्वमेकः स्वल्पसेनया । असंख्यातानि सैन्यानि तेषां पश्य समन्ततः ॥ ६० ॥ कथं युद्धं भवेदत्र मा कुरुष्वाद्य संगरम् । शीघ्रं मां नय साकेतं ततो रामेण सेनया ॥ ६१ ॥ युद्धं कुरु नृपैर्घोरं शृणु मद्वचनं प्रभो । मा साहसं कुरुष्वात्रार्थये त्वां मुहुर्मुहुः ॥ ६२ ॥ इति तस्या वचः श्रुत्वा तामाश्वास्यपुनः पुनः । उपसंहारयामास मोहनास्त्रं स लीलया ॥ ६३ ॥ तदा ते पार्थिवाः सर्वे श्रुत्वा नीतां वधूं बलात् । शत्रुघ्नतनयेनेति स्त्रीवाक्यैः स्यंदने स्थिताः ॥ ६४ ॥ निर्ययुः कोटिशो योद्धुं स्वस्वसेनावृता जवात् । चंपिकायाः सुमत्याश्च पूर्ववैरेण दर्पिताः ॥ ६५ ॥ दुद्रुवुर्नेमिमार्गेण ददृशुस्तं रथस्थितम् । युक्तं मदनसुन्दर्या बिभ्रंतं मालिकां हृदि ॥ ६६ ॥ ततस्तं मुमुचुः सर्वे नानाशस्त्राणि सैनिकाः । यूपकेतुस्तदा वेगाट्टणत्कृत्य महद्धनुः ॥ ६७ ॥ वायव्यास्त्रेण तान्सर्वानुद्धय दशदिक्षु सः । प्राक्षिपत्पार्थिवान् सैन्यैर्नानावाहनसंस्थितान् ॥ ६८ ॥ तदा स कंबुकण्ठोऽपि पूर्ववैरमनुस्मरन् । चंपिकायाः सुमत्याश्च स्वयंवरसमुद्भवम् ॥ ६९ ॥ निमेषान्निजकन्याया वैरतो हरणं बलात् । महाक्रोधान्निर्ययौ स स्वसैन्येन परिवेष्टितः ॥ ७० ॥ कुर्वन् दुंदुभिघोषांश्च युद्धार्थं यूपकेतुना । यपूकेतुरपि श्रुत्वा दुन्दुभीनां महत्स्वनम् ॥ ७१ ॥ कांतिपुर्युत्तरद्वारपुरतः संस्थितो रथी । टणत्कृत्य महच्चापं सन्दधे शरमुत्तमम् ॥ ७२ ॥ ये ये वीराः पुरद्वारान्निर्गताश्च बहिः शनैः । तान् जघान क्षणादेव प्रेतैर्द्वारं रुरोध सः ॥ ७३ ॥ तं दृष्ट्वा यूपकेतोश्च कंबुकण्ठः पराक्रमम् । ययौ स्वयं स्यन्दनेन प्रेतसंघं विदार्य च ॥ ७४ ॥ शेषसैन्येन संयुक्तो यपूकेतुं क्रुधा जवात् । तदाऽऽह यूपकेतुं स मया त्वं सङ्गरं कुरु ॥ ७५ ॥ किमेतान्मशकान् हत्वा पौरुष मन्यसे जड । इत्युक्त्वा सप्तभिर्बाणैर्यूपकेतुं जघान सः ॥ ७६ ॥ तान्बाणानागतान् दृष्ट्वा यूपकेतुर्निजैः शरैः । तांश्छित्वा नवबाणैस्तच्चापसारथिनं ध्वजम् ॥ ७७ ॥ कवचं मुकुटं छित्वा जघान तुरगानपि । पद्भ्यां तदा कंबुकण्ठो गदामादाय दुद्रुवे ॥ ७८ ॥ तावत्सहस्रधा बाणैर्यूपकेतुश्चकार ताम् । ततो बद्ध्वा दृढां मुष्टिं कम्बुकठस्त्वरान्वितः ॥ ७९ ॥ हृदये यूपकेतोस्तां जघानाचलसन्निभाम् । तदा स यूपकेतुस्तं श्वशुरं स्यंदनोपरि ॥ ८० ॥ ध्वजे बबंध वेगेन खङ्गं जग्राह सम्भ्रमात् । कंबुकण्ठशिरश्छेद कर्तुं तं समुपस्थितम् ॥ ८१ ॥ दृष्ट्वा धृत्वा करे तस्य सखड्गं सम्भ्रमान्विता । तमाह नत्वा साध्वक्षी तदा मदनसुन्दरी ॥ ८२ ॥ विह्वला विगतोत्साहा वेपती ह्यश्रुलोचना । मम तातं कंबुकण्ठमेनं हंसि कथं प्रभो ॥ ८३ ॥ मक्षिकापतनं पूर्वं ग्रासे यद्वत्त्वया कृतम् । सुखारम्भे पूर्वमेव दुःखकर्भावलम्बितम् ॥ ८४ ॥ मद्वाक्यान्नैव हंतव्यस्तस्मात्त्वां प्रार्थयाम्यहम् । एवं मदनसुन्दर्या वचः श्रुत्वा विहस्य सः ॥ ८५ ॥ कराद्विसृज्य तं खड्गं स्वसूतं चोदयन्मुदा । सेनया स ययौ यावत्पथाऽयोध्यां पुरीं प्रति ॥ ८६ ॥ तावद्दुंदुभिनिर्घोषानग्रे शुश्राव सेनया । पुनश्चापं दृढीकृत्य यूपकेतुस्तदा पथि ॥ ८७ ॥ कस्याग्रे वाहिनी चेति चिंतयामास चेतसि । ततः शरं मुमोचैकं निजनामांकितं बलात् ॥ ८८ ॥ योजनांतरसेनायां शरः शत्रुघ्नसन्निधौ । पपात तत्पदाग्रे तं दृष्ट्वा स चकितस्तदा ॥ ८९ ॥ शरपुच्छे यपूकेतोर्नाम दृष्ट्वाथ शत्रुहा । निश्चितवान्यपूकेतुर्मार्गेऽग्रे वर्तते ध्रुवम् ॥ ९० ॥ ततश्चापे स शत्रुघ्नः स्वनामांकितमुत्तमम् । शरं संधाय विमुखं यूपकेतुं मुमोच ह ॥ ९१ ॥ स शरो यूपकेतोश्च मस्तकादूर्ध्वतस्तदा । अपतत्पृष्ठभागे स तं ददर्श पितुः शरम् ॥ ९२ ॥ तदा हृष्टो यूपकेतुः कुर्वन्दुदुभिनिःस्वनान् । गत्वा वेगेन शत्रुघ्नं दृष्ट्वोत्प्लुत्य रथादधः ॥ ९३ ॥ ननाम पितरं पत्न्या कंबुकंठं प्रदर्शयन् । तदा तं सुहृदं ज्ञात्वा मोचयामास शत्रुहा ॥ ९४ ॥ कंबुकंठमुखाच्छ्रुत्वा सर्वं वृत्तं सविस्तरम् । शत्रुघ्नः प्रार्थितस्तेन सुहृदा तत्पुरीं ययौ ॥ ९५ ॥ कांतिपुर्या बहिः स्थित्वा कंबुकठमतेन सः । आकारणार्थ लग्नाय रामं दूतान्प्रचोदयत् ॥ ९६ ॥ तदा ते कंबुकंठस्य शत्रुघ्नस्यापि वेगतः । आकारणार्थं श्रीरामं ययुर्दूता मुदान्विताः ॥ ९७ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे विवाहकाण्डे मदनसुन्दरीहरणं नामाष्टमः सर्गः ॥ ८ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |