॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विवाहकाण्डम्

॥ षष्ठः सर्गः ॥
[ द्वादशविवाहविनिश्चयः ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


गन्धर्वपन्नगा ऊचुः
राम कंजानन स्वामिन्मोचिता बालिकास्त्वया ।
विवाहानरजस्कानां पुत्रैस्त्वं कर्तुमर्हसि ॥ १ ॥
अथ धन्या वयं सर्वे नः कुलं पावनं कृतम् ।
त्वया राम महाबाहो तारिताः स्मो वयं प्रभो ॥ २ ॥
सप्तजन्मसु यत्पुण्यं कृतमस्ति रघूद्वह ।
अस्माभिस्तेन सम्बन्धस्त्वयाऽद्य भवतु प्रभो ॥ ३ ॥
श्रीरामदास उवाच
इति तेषां वचः श्रुत्वा सीतया स रघूद्वहः ।
अङ्‌गीकृत्य वचस्तेषामगस्तिमवलोकयत् ॥ ४ ॥
तदा प्राह कुम्भजन्मा राघवं वचनं मुनिः ।
रामान्याग्रे कुमुदस्य स्वमा नाम्ना कुमुद्वती ॥ ५ ॥
त्वयि प्राप्ते हि वैकुण्ठं कुशपत्नी भविष्यति ।
चपिकायां न तनयो भो भविष्यति रघूद्वह ॥ ६ ॥
कुशात्पुत्रः कुमुद्वत्यामतिथिस्तु भविष्यति ।
राज्यकर्ता वंशकर्ता स एवाग्रे भविष्यति ॥ ७ ॥
अतस्त्वमधुना राम नागकन्याः कुशं विना ।
सप्त स्वसप्तपुत्रेभ्यः प्रयच्छ विधिना द्विजैः ॥ ८ ॥
पञ्चगंधर्वकन्याश्च यूपकेतुं कुशं लवम् ।
विना स्वपञ्चपुत्रेभ्यः प्रयच्छ रघुनन्दन ॥ ९ ॥
राक्षसेन विवाहेन यूपकेतुः शिशुस्ततः ।
अग्रे पत्नी महानेष करिष्यत्यपरां शुभाम् ॥ १० ॥
एवं रामसुताः सर्वे स्वस्वस्त्रीभ्यां यथासुखम् ।
क्रीडयिष्यंति पौत्रास्तान् भविष्यंति प्रपौत्रकाः ॥ ११ ॥
प्रपौत्रस्य प्रपौत्रं त्वं दृष्ट्‍वा सीतासमन्वितः ।
सुखं यास्यसि वैकुण्ठं बन्धुभिर्नगरीस्थितैः ॥ १२ ॥
एवं श्रुत्वा मुनेर्वाक्यमंगीकृत्य रघूदह ।
तासां नामानि पप्रच्छ गन्धर्वान्पन्नगानपि ॥ १३ ॥
तदाऽब्रवीत्स गधर्वः स्वपुत्रीणां सविस्तरात ।
तासां नामानि रामाग्रे पञ्चानां सरसस्तटे ॥ १ ४ ॥
चंद्रिका चंद्रवदना चञ्चला चपला चला ।
एवं नामानि पंचानां क्रमेण रघुनंदनः ॥ १५ ॥
श्रुत्वाऽवलोकयामास पन्नगांस्तेऽपि चाब्रुवन् ।
कंजानना कंजनेत्रा कंजांघ्री च कलावती ॥ १६ ॥
कलिका कमला चैव मालती सप्त कीर्तिताः ।
एवं नामानि पंचानां क्रमेण रघुनंदनः ॥ १७ ॥
श्रुत्वा ताः पुष्पके स्थाप्य तैर्निद्रामकरोन्निशि ।
अथ प्रभाते श्रीरामः हुत्वा स्नात्वा यथाविधि ॥ १८ ॥
गन्धर्वपन्नगांश्चाति तदा वचनमब्रवीत् ।
एभिजनैर्मया साकं विवाहार्थं रसातलम् ॥ १९ ॥
नैव योग्यं समागन्तुं मर्त्यलोकनिवासिना ।
तस्माच्छृणुध्वं मद्वाक्यं सुहृदः सकलाः शुभम् ॥ २० ॥
ययू गन्वा निजस्थानं स्वस्त्रीभिश्च सुहृञ्जनैः ।
आगतव्यं विवाहार्थंमयोध्यां मे यथासुखम् ॥ २१ ॥
अधुनाऽहं तु गच्छामि पुरीमग्रे क्षणेन हि ।
विहायसा विमानेन पताकाध्वजमालिना ॥ २२ ॥
तथेति रामवचनात्ते गता स्वस्थलानि हि ।
रामोऽपि मुनिना ताभिर्बालिकाभिः सुतैः स्त्रिया ॥ २३ ॥
विहायसा पुष्पकस्थो ययौ पश्यन्वनानि सः ।
अयोध्यां प्रहरेणैव मुदा प्राप रघूद्वहः ॥ २४ ॥
नीराजितः पुरस्त्रीभिर्विवेश निजमंदिरम् ।
वसिष्ठगेहे ताः सर्वाः प्रेषयामास राघवः ॥ २५ ॥
अथ रामः सभामध्ये सौमित्रिमिदमब्रवीत् ।
आकारणीया राजानः सुहृदश्च मुनीश्वराः ॥ २६ ॥
सांतःपुराः सपौराश्च स्वस्वजानपदैः सह ।
शृङ्‌गारणीयाऽयोध्येयं परिखाः सप्त सादरम् ॥ २७ ॥
शोधनीयास्तथा सौधसमूहेषु सुधा शुभा ।
देया चित्राणि लेख्यानि प्रासादेषु समंततः ॥ २८ ॥
देवालयेषु सर्वेषु सुधा देया मनोरमा ।
लेखनीयानि चित्राणि बलयः स्थाप्यतां पृथक् ॥ २९ ॥
बंधनीयाः पताकाश्च रोपणीया ध्वजा अपि ।
समंततस्तोरणानि बंधनीयानि लक्ष्मण ॥ ३० ॥
वेद्यः कार्या रुक्ममय्यो बंधनीयाश्च मण्डपाः ।
शृंगारणीया हस्त्यश्वशिबिकाश्च सहस्रशः ॥ ३१ ॥
गंधर्वेभ्यः पन्नगेभ्यो वस्तुं गेहानि वै पृथक् ।
कुरुष्व नूतनान्यन्नवस्त्राद्यैः पूरितानि च ॥ ३२ ॥
अन्यच्चापि यथायोग्यं यद्यञ्जानासि लक्ष्मण ।
तत्तत्कुरुष्व यन्नोक्तं मया तव रघूद्वह ॥ ३३ ॥
तद्‌रामवचनं श्रुत्वा तथेत्युक्त्वा स लक्ष्मणः ।
तथा चकार तत्सर्वं यथा रामेण शिक्षितः ॥ ३४ ।
अथ गन्धर्वराजस्तु तथा वै सप्त पन्नगाः ।
सुहृद्‌भिः सावरोधास्ते ययुः शीघ्रं मुदान्विताः ॥ ३५ ॥
सर्पा मानवरूपेण हस्त्यश्वरथसंस्थिताः ।
गन्धर्वाश्चापि सैन्यैस्ते साकेतोपवनं ययुः ॥ ३६ ॥
ततस्तानागतान् श्रुत्वा प्रत्युद्‍गम्य रघूद्वहः ।
नानावाद्यानि नादैश्च नृत्यैरप्सरसां पुरीम् ॥ ३७ ॥
नीत्वा संस्थापयामास विस्तीर्णेषु गृहेषु सः ।
अश तैरेकदा रामः सभायां संस्थितः सुखम् ॥ ३८ ॥
ज्योतिर्विदः समाहूय वसिष्ठं तत्पुरोधसः ।
पृथग्विवाहान्कर्तुं स मुहूर्तानतिमंगलान् ॥ ३९ ॥
सम्यग्विचारयामास वर्षमध्ये सविस्तरम् ।
ज्योतिर्विदस्तदा प्रोचुर्मुहुर्तानतिसौख्यदान् ॥ ४० ॥
पक्षांतरेण वैशाखे द्वौ मुहूर्तौ शुभावहौ ।
तथा ददुर्मुहुर्तौ द्वौ ज्येष्ठे पक्षांतरेण ते ॥ ४१ ॥
द्वावेव मार्गशीर्षेऽपि त्रीन् माघेफाल्गुनेऽपि च ।
एवं द्वादशनारीणां चक्रुर्लग्नविनिश्चयम् ॥ ४२ ॥
लवस्याथांगदस्यापि विवाहौ तैर्विनिश्चितौ ।
ज्योतिर्विद्‌भिर्वसिष्ठेन वैशाखे राघवाग्रतः ॥ ४३ ॥
चित्रकेतोः पुष्करस्य विवाहौ तैर्विनिश्चितौ ।
ज्येष्ठे मासि क्रमेणैवं पक्षे पक्षे पृथक पृथक ॥ ४४ ॥
तक्षस्याथ सुबाहोश्च विवाहौ मार्गशीर्षके ।
पक्षांतरेण रामाग्रे ज्योतिर्विद्‌भिर्विनिश्चितौ ॥ ४५ ॥
यूपकेतोरंगदस्य चित्रकेतोर्विनिश्चिताः ।
माघमासे विवाहाश्च ज्योतिःशास्त्रविशारदैः ॥ ४६ ॥
पुष्करस्याथ तक्षस्य सुबाहोः फाल्गुने शुभे ।
विवाहा निश्चिताः शिष्य रामाग्रे गणकैस्तदा ॥ ४७ ॥
एवं विनिश्चिताः सर्वे विवाहा द्वादश क्रमात् ।
ज्योतिर्विद्‌भिर्निश्चिताश्च श्रुत्वा तानर्चयद्विभुः ॥ ४८ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनंदरामायणे वाल्मीकीये
विवाहकाडे द्वादशविवाहविनिश्चयो नाम षष्ठः सर्गः ॥ ६ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP