॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यागकाण्डम्
॥ अष्टमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ चैत्रसिते पक्षे नवम्यां रामजन्मनि । तदाऽवभृथस्नानार्थं वाजिमेधफलाप्तये ॥ १ ॥ चकार सूचना राज्ञे राघवाय गुरुः स्वयम् । त्वरयामास तं रामं रवितापभयान्मुनिः ॥ २ ॥ वसिष्ठवचनं श्रुत्वा रामो लक्ष्मणमब्रवीत् । अद्यावभृथस्नानार्थमुत्सवैर्गमनं मम ॥ ३ ॥ रामतीर्थं त्वया ज्ञात्वा करणीयं मयोच्यते । आज्ञापनीया राजानो निजसैन्येगजादिभिः ॥ ४ ॥ सञ्जीभूताः सावरोधास्तिष्ठध्वमिति मंडपे । सिद्धं कार्यं निजं सैन्यं शिबिकारथवारणम् ॥ ५ ॥ अश्वपत्तिसमायुक्तं तुरगोष्ट्रगजैर्युतम् । नववाद्यध्वनिः कार्या तूर्यादीनां स्वनोऽपि च ॥ ६ ॥ पताकाश्च ध्वजाश्चापि तोरणादि समंततः । मुक्ताप्रवालपुष्पाणि हाराश्चाध्वरमंडपात् ॥ ७ ॥ बन्धनीया रामतीर्थपर्यंतं सैकतेऽपि च । कदलीनां महास्तंभाश्चेक्षुदंतथा ॥ १० ॥ अन्यच्चापि यथायोग्य यन्नोक्तं च मया तव । तत्कुरुष्वाविलंबेन मामपृष्ट्वाऽविचारितम् ॥ ११ ॥ तथेत्युक्त्वालक्ष्मणोऽपि तथा सर्वं चकार सः । अथ तं ऋत्विजश्चक्रुगमनेष्टि सविस्तराम् ॥ १२ ॥ वाजिवाहे रथे वह्निं पात्राणि स्थाप्य राघवम् । सीतां चारोह्य स गुरुश्चारुरोहर्त्विजैः सह ॥ १३ ॥ मुनयो वेदघोषांश्च सर्वे चक्रुः समन्ततः । स सम्राड्रथमारूढः सदश्वै रुक्ममालिनम् ॥ १४ ॥ यमौ शनैः शनैर्मार्गे मुदा वन्दिजनैः स्तुतः । अग्रे गजाः पताकाभिर्जग्मुरश्वास्ततः परम् ॥ १५ ॥ ततस्ते तूर्यघोषाणां कर्तारस्तुरगस्थिताः । ततस्ते राजदूताश्च चित्रोष्णीषाः सुदंडिनः ॥ १६ ॥ ततो वंदिनटाद्याश्च वारस्त्रीणां ततो गणाः । ततो देवाः सगन्धर्वास्ततो रामः स सीतया ॥ १७ ॥ ऋत्विग्जनैर्ययौ वह्निसंयुतः स्यन्दनस्थितः । ततो मुनीश्वराः सर्वे ऋषिपत्न्यस्ततो ययुः ॥ १८ ॥ ततः क्षत्रियपत्न्याद्याः स्त्रियः सर्वाः शनैर्ययुः । ततस्ते क्षत्रियाः सर्वे नानावाहनसस्थिताः ॥ १९ ॥ ततस्तेषां हि सैन्यानि ततोऽन्ते राजसेवकाः । नयवाद्यध्वनीनां च वारणाद्यास्ततः परम् ॥ २० ॥ ततश्चोष्ट्रास्तु बाणानां शकटाः शस्त्रपूरिताः । लोहकारास्तक्षकाश्च चर्मकारास्ततः परम् ॥ २१ ॥ भूमिमानप्रकर्तारो रज्जुकुद्दालहस्तकाः । ययुर्यथाक्रम सर्वे तदैव परमोत्सवैः ॥ २२ ॥ तदा निनेदुर्वाद्यानि ननृतुर्वारयोषितः । मुनिपार्थिवपत्न्यम्तं ववर्षुः पुष्पवृष्टिभि ॥ २३ ॥ मार्गे वन्दिजनाद्याश्च तुष्टव रघुनन्दनम् । षड्जादिस्वरान् गंधर्वाः प्रजगुः पथि ते मुदा ॥ २४ ॥ चक्रुस्ते वेदघोषाँश्च मुनयः स्वरपूर्वकान् । एवं रामः शनैमार्गे कौतुकानि समन्ततः ॥ २५ ॥ पश्यन् जनकनन्दिन्या ययौ चामरवीजितः । तत्र रामस्य मार्गे हि सीताया मुखपङ्कजम् ॥ २६ ॥ द्रष्टुं कोलाहलं चक्रुः संमर्दात्सकला जनाः । ततस्तास्ताडयामासुः शतशो वेत्रपाणयः ॥ २७ ॥ विशेषेण तदासीत्स महान् कोलाहलो द्विज । तत्सर्वं राघवो दृष्ट्वा श्रुत्वा च प्राह लक्ष्मणम् ॥ २८ ॥ एते सर्वे पुष्पकस्था जनाः सीतां च मां सुखम् । पश्यतु कलहो माऽस्तु तथास्त्विति स लक्ष्मणः ॥ २९ ॥ सर्वानारोहयामास पुष्पके तान् जनान् मुदा । ततस्ते पुष्पकारूढा जना रामं मनोरमम् ॥ ३० ॥ जानकीसहित यान्तं ददृशुः पथि वै शनैः । केचिदूचुर्वयं धन्याः परिपूर्णमनोरथाः ॥ ३१ ॥ अद्य राम ससीतं च पश्यामोऽत्र महोत्सवे । केचिदूचुश्च तौ धन्यौ पितरो नः सुजन्मदौ ॥ ३२ ॥ ययोः पुण्यचयैरद्य नः सीतारामदर्शनम् । एवं गच्छति श्रीरामे स्त्रियः सर्वाः परस्परम् ॥ ३३ ॥ समंत्र्य पुष्पके स्थातुं प्रार्थयति स्म जानकीम् । तदा सा जानकी प्राह लक्ष्मण पुरतः स्थितम् ॥ ३४ ॥ स्त्रियः सर्वास्त्वया शीघ्रं नारीशालासु पुष्पके । श्रोहणीया मे वाक्यात् प्रार्थयंत्यत्र मां मुहुः ॥ ३५ ॥ लक्ष्मणोऽपितथेत्युक्त्वा ताः स्त्रीः सर्वाश्चपुष्पके । त्वरयाऽऽरोहयामास स्त्रीशालासु यथासुखम् ॥ ३६ ॥ ततस्ताः पुष्पकारूढास्तृणजालपटान्तरैः । ददृशुः सीतया रामं ववर्षुः पुष्पवृष्टिभिः ॥ ३७ ॥ मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखाः । वादित्राणि विचित्राणि नेदुश्चावभृथोत्सवे ॥ ३८ ॥ नर्तक्यो ननृतुर्हष्टा गायका यूथशो जगुः । वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥ ३९ ॥ चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः । स्वलंकृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥ ४० ॥ यदुसृंजयकाम्बोजकुरुकैकयकोसलाः । कम्पयन्तो भुवं सैन्येयजमानपुरःसराः ॥ ४१ ॥ सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा । देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवृष्टिभिः ॥ ४२ ॥ स्वलंकृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः । विलिंपन्त्योऽभिषिंचन्त्यो विजह्रुर्विविधे रसैः ॥ ४३ ॥ तैलगोरसगन्धोदहरिद्रासान्द्रकुंकुमैः । पुंभिर्लिप्ताः प्रलिंपन्त्यो विजह्रुर्वारयोषितः ॥ ४४ ॥ एवं नानासमुत्साहैः श्रीरामश्च ससीतया । पश्यन्नानाकौतुकानि स्यन्दनेन शनैः शनैः ॥ ४५ ॥ अगमत्सरयूतीरे रामतीर्थं शुभावहम् । प्रवरुह्य रथाद्रामः सीतया सरयूजले ॥ ।४६ ॥ स चकार जलेष्टिं तैर्ऋत्विग्भिः परिवारितः । पत्नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विजः ॥ ४७ ॥ सर्वे रामह्रदे विप्रा यजमानपुरःसराः । आचान्तं स्नापयाञ्चक्रुः सरय्वां सहसीतया ॥ ४८ ॥ शत्रुघ्नेन पुराऽऽनीतैर्नानातीर्थजलैस्तदा । रामाभिषेकं ते चक्रुर्मुदा मंत्रैर्मुनीश्वराः ॥ ४९ ॥ देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम् । मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ ५० ॥ सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः । महापातकिनश्चापि स्नात्वा मुक्ताः स्वपातकात् ॥ ५१ ॥ अथ रामोऽहते क्षौमे परिधाय स्वलंकृतः । शुशुभे नितरां दिव्यकंकणाभ्यां सुमंडितः ॥ ५२ ॥ केयूराभ्यां कुण्डलाभ्यां मुक्ताहारैर्विचित्रितैः । नानावसूनैर्हारैश्च रत्नानां नूपुरादिभिः ॥ ५३ ॥ हृदि चिंतामणियुतः कंठे कौस्तुभमंडितः । चिंतामणिकौस्तुभयोः प्रभया दीपितो?? ॥ ५४ ॥ कोटिसूर्यप्रतीकाशः सिकतायां वरासने । तस्थौ जनकनंदिन्या ऋत्विग्भिः परिवेष्टितः ॥ ५५ ॥ अथर्त्विग्भ्योऽददात्काले यथाम्नायं स दक्षिणाः । स्वलंकृतेभ्योऽलंकृत्य गोभृतुरगकारणान् ॥ ५६ ॥ कामधेनुमलंकृत्य गुरुं दातुं समुद्यतः । तज्ज्ञात्वा चिंतयामास वसिष्ठः स स्वचेतसि ॥ ५७ ॥ अस्ति मां नंदिनी नाम्नी कामधेनुसुतासुता । नास्याः प्रयोजनं मेऽद्य ह्यत्रापूर्वं करोम्यहम् ॥ ५८ ॥ अस्यैवास्तु कामधेनुरस्यै योग्यो रघूत्तमः । तां वर्जयित्वा रामस्य कीर्त्यर्थं जगतीतले ॥ ५९ ॥ याचाम्यहं शुभां सीतां सालंकारा सदक्षिणाम् । औदार्यं राघवस्याद्य दर्शयिष्याम्यहं जनान् ॥ ६० ॥ इति निश्चित्य स गुरुस्तदा प्राह रघूत्तमम् । करोमि किं धनुदानं तेन तृप्तिर्न मे भवेत् ॥ ६१ ॥ यदि दास्यसि देया मे सीताऽलंकारमंडिता । तया तृप्तिभवेन्मेद्य नान्यैर्नारीशतैरपि ॥ ६२ ॥ तन्मुनेर्वचनं श्रुत्वा वसिष्ठस्य जनास्तदा । हाहाकारं महच्चक्रुर्विषण्णा भयविह्वलाः ॥ ६३ ॥ केचिदूचुर्वसिष्ठोऽयं किं भ्रांतो जठरोऽद्य हि । केचिदूचुर्विनोदोऽयं कृतोऽस्त्रि मु निनाऽत्र हि ॥ ६४ ॥ केचिदूचू राघवस्य धैर्य पश्यत्ययं मुनिः । केचिदूचू राघवोऽद्य किं करिष्यति पश्यताम् ॥ ६५ ॥ एतस्मिन्नंतरे रामः श्रुत्वा तच्च गुरोर्वचः । प्रहस्य संज्ञया सीतामाहूय गुरुसन्निधौ ॥ ६६ ॥ सीतायाः स्वकरेणैव धृत्वा वामकरं मुदा । सभायां राघवः प्राह वसिष्ठं तोषयन्मुदा ॥ ६७ ॥ स्त्रीदानमन्त्रो वक्तव्यः सीतादानं करोमि ते । तथेति मुनिवृन्देषु वसिष्ठश्च यथाविधि ॥ ६८ ॥ अङ्गीचकार स्त्रीदानं राघवेण समर्पितम् । चकितं च तदाऽभूद्वै सर्वं स्थावरजङ्गमम् ॥ ६९ ॥ देहभानं न कस्यासीत्तदासीदतिचित्रयत् । तदा सीता मुनिः प्राह मत्पृते तिष्ठ बालिके ॥ ७० ॥ ममार्पिताऽसि रामेण त्वां मन्येऽहं सुतोपमाम् । तन्मुनेवचनं श्रुत्वा सीता सा खिन्नमानसा ॥ ७१ ॥ रामन्यस्तेक्षणा साध्वी मुनेः पृष्ठे ह्युपाविशत् । बभूवाश्रूपूर्णनेत्रा सा रोमांचितविग्रहा । ७२ ॥ ततो रामः पुनः ग्राह वसिष्ठं विनयान्वितः । गृहाण सुरभिं चापि सीतायै ह्यर्पितां पुरा ॥ ७३ ॥ मया तोषेण कैलासे मन्मणेस्तोषदायिनी । मयाऽपि दातुमानीता तच्छ्रुत्वा गुरुरब्रवीत् ॥ ७४ ॥ राम राम महाबाहो तवौदार्यं च दर्शितम् । याचिता तव पत्नीयं मया तेऽस्तु पुनः शुभा ॥ ७५ ॥ अस्याः कुरु तुलामद्य सुवर्णेन रघूत्तम । अष्टवारं प्रतुलितं सीतया रुक्ममुत्तमम् ॥ ७६ ॥ मां दत्त्वेयं त्वया ग्राह्या पुनः सपदि मद्गिरा । अन्यत्किंचिच्छृणुष्व त्वं वचनं यन्मयोच्यते ॥ ७७ ॥ धेनुं चिंतामणि सीतां कौस्तुभं पुष्पकं पुरीम् । स्वयं राज्यमयोध्यायां त्वं चेत्कस्य प्रदास्यसि ॥ ७८ ॥ अग्रे कदा तदाऽऽज्ञा मे त्वया लुप्ता भविष्यति । ममाज्ञाभङ्गदोषेण बहुक्लेशो भविष्यसि ॥ ७९ ॥ मदुक्तैः सप्तभी राजन् विना यद्यत्त्वमिच्छसि । तत्तद्ददस्व विप्रेभ्यो त्वं सुखं ह्यविचारतः ॥ ८० ॥ तद्गुरोर्वचनं श्रुत्वा तथेत्युक्त्वा रघूत्तमः । सीतां तुलायामारोप्य सुवर्णेनाष्टसंख्यया ॥ ८१ ॥ तुलितां प्रतिजग्राह गुरोः साध्वीं स्मिताननाम् । दिव्यालंकारहीनां तां कंचुकीवस्त्रसंयुताम् ॥ ८२ ॥ तदा निनेदर्वाद्यानि ववर्षुः पुष्पवृष्टिभिः । सुरस्त्रियो विमानस्थाः सीतारामौ मुदान्विता ॥ ८३ ॥ पूर्वाधिकानलंकारान्स्वदेहे जानकी दधौ । जनाः सर्वे सुसंतुष्टास्तदाऽऽसन्मुदिताननाः ॥ ८४ ॥ अथ सीता पतिं नत्वा तत्पार्श्वेसंस्थिताऽभवत् । स्मिताननाऽऽनंदमग्ना लज्जिता रामलोचना ॥ ८५ ॥ ततोरामोप्यनेकानि कृत्वा दानानि विस्तरात् । ऋत्विक्सदस्यमुख्यादीनानर्च्याभरणाबरैः ॥ ८६ ॥ स्वीयज्ञातीन्नृपान्मित्रसुहृऽदोऽन्यांश्च सर्वशः । अभीक्ष्णं पूजयामास वस्त्रालंकारभूषणैः ॥ ८७ ॥ सर्वे जनाः सुललितोन्मणिकुण्डलस्र- गुष्णीषकंचुकदुकूमहार्घहाराः । नार्यश्च कुडलयुगालकवृदजुष्ट- वक्त्रश्रियः कनकमेखलया विरेजुः ॥ ८८ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये यागकाण्डे अवभृथोत्सववर्णनं नामाष्टमः सर्गः ॥ ८ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |