श्रीमद्‌भागवत महापुराण

एकादशः स्कंधः - प्रथमोऽध्यायः

ऋषीणां यदुकुलसंहाराय शापः -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।
भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ १ ॥
( वसंततिलका )
ये कोपिताः सुबहु पाण्डुसुताः सपत्‍नै-
     र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ।
कृत्वा निमित्तमितरेतरतः समेतान्
     हत्वा नृपान् निरहरत् क्षितिभारमीशः ॥ २ ॥
भूभारराजपृतना यदुभिर्निरस्य
     गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ।
मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं
     यद् यादवं कुलमहो अविषह्यमास्ते ॥ ३ ॥
नैवान्यतः परिभवोऽस्य भवेत् कथञ्चि-
     न्मत्संश्रयस्य विभव उन्नहनस्य नित्यम् ।
अन्तः कलिं यदुकुलस्य विधाय वेणु-
     स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४ ॥
( अनुष्टुप् )
एवं व्यवसितो राजन् सत्यसङ्‌कल्प ईश्वरः ।
शापव्याजेन विप्राणां संजह्रे स्वकुलं विभुः ॥ ५ ॥
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम्
गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥ ६ ॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।
तमोऽनया तरिष्यन्तीत्यगात् स्वं पदमीश्वरः ॥ ७ ॥
राजोवाच -
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्रशापः कथमभूद् वृष्णीनां कृष्णचेतसाम् ॥ ८ ॥
यन्निमित्तः स वै शापो यादृशो द्विजसत्तम ।
कथं एकात्मनां भेद एतत् सर्वं वदस्व मे ॥ ९ ॥
शुक उवाच -
( वसंततिलका )
बिभ्रद्‍ वपुः सकलसुंदरसन्निवेशं
     कर्माचरन्‌ भुवि सुमङ्‍‍गलमाप्तकामः ।
आस्थाय धाम रममाण उदारकीर्तिः
     संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥ १० ॥
कर्मानि पुण्यनिवहानि सुमङ्‌गलानि
     गायत् जगत् कलिमलापहराणि कृत्वा ।
कालात्मना निवसता यदुदेवगेहे
     पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ ११ ॥
( अनुष्टुप् )
विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्‌गिराः ।
कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादयः ॥ १२ ॥
क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः ।
उपसङ्‌गृह्य पप्रच्छुरविनीता विनीतवत् ॥ १३ ॥
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वो विप्रा अन्तर्वत्‍न्यसितेक्षणा ॥ १४ ॥
प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघदर्शनाः ।
प्रसोष्यन्ती पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ १५ ॥
एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप ।
जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥ १६ ॥
तच्छ्रुत्वा ते अतिसंत्रस्ता विमुच्य सहसोदरम् ।
साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥ १७ ॥
किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः ।
इति विह्वलिता गेहानादाय मुसलं ययुः ॥ १८ ॥
तच्चोपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥ १९ ॥
श्रुत्वामोघं विप्रशापं दृष्ट्‍वा च मुसलं नृप ।
विस्मिता भयसंत्रस्ता बभूवुः द्वारकौकसः ॥ २० ॥
तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः ।
समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥ २१ ॥
कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः ।
उह्यमानानि वेलायां लग्नान्यासन् किलैरकाः ॥ २२ ॥
मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे ।
तस्य उदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥ २३ ॥
भगवाञ्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा ।
कर्तुं नैच्छद् विप्रशापं कालरूप्यन्वमोदत ॥ २४ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे प्रथमोध्याऽयः ॥ १ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP