श्रीमद्‌भागवत महापुराण

एकादशः स्कंधः - द्वितीयोऽध्यायः

वसुदेवाय देवर्षि नारदोपदेश, तत्र निमि-नवयोगेश्वर संवादरूपेण
पूर्वं भागवतधर्मस्य भागवतलक्षणस्य च वर्णनम् -

[ Right click to 'save audio as' for downloading Audio ]

शुक उवाच -
( अनुष्टुप् )
गोविंदभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥
को नु राजन्निद्रियवान् मुकुंदचरणाम्बुजम् ।
न भजेत् सर्वतोमृत्युरुपास्यममरोत्तमैः ॥ २ ॥
तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।
अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥
श्रीवसुदेव उवाच -
भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ४ ॥
भूतानां देवचरितं दुःखाय च सुखाय च ।
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥
ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव ।
याञ्छ्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात् ॥ ७ ॥
अहं किल पुरानंतं प्रजार्थो भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥
यथा विचित्रव्यसनाद् भवद्‌भिर्विश्वतोभयात् ।
मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९ ॥
शुक उवाच -
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता ।
प्रीतस्तमाह देवर्षिः हरेः संस्मारितो गुणैः ॥ १० ॥
श्रीनारद उवाच -
सम्यगेतद् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥ ११ ॥
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः ।
स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४ ॥
प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।
तस्याग्नीध्रस्ततो नाभिर्ऋषभस्तत्सुतः स्मृतः ॥ १५ ॥
तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥
तेषां वै भरतो ज्येष्ठो नारायणपरायणः ।
विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्‍भुतम् ॥ १७ ॥
स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।
उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८ ॥
तेषां नव नवद्वीपपतयोऽस्य समन्ततः ।
कर्मतंत्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९ ॥
नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः ।
श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २० ॥
कविर्हरिरन्तरीक्षः प्रबुद्धः पिप्पलायनः ।
आविहोत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१ ॥
त एते भगवद्‌रूपं विश्वं सदसदात्मकम् ।
आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥
( वसंततिलका )
अव्याहतेष्टगतयः सुरसिद्धसाध्य-
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताश्चरन्ति मुनि-चारण-भूतनाथ-
विद्याधरद्विजगवां भुवनानि कामम् ॥ २३ ॥
( अनुष्टुप् )
त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया ।
वितायमानमृषिभिरजनाभे महात्मनः ॥ २४ ॥
तान् दृष्ट्‍वा सूर्यसंकाशान् महाभागवतान् नृप ।
यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५ ॥
विदेहस्तानभिप्रेत्य नारायणपरायणान् ।
प्रीतः संपूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६ ॥
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव ।
पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७ ॥
श्रीविदेह उवाच -
मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः ।
विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥
दुर्लभो मानुषो देहो देहिनां क्षणभङ्‌गुरः ।
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९ ॥
अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः ।
संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्‌गः शेवधिर्नृणाम् ॥ ३० ॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥ ३१ ॥
श्रीनारद उवाच -
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२ ॥
कविरुवाच -
( इंद्रवज्रा )
मन्येऽकुतश्चिद्‌भयमच्युतस्य
     पादाम्बुजोपासनमत्र नित्यम् ।
उद्विग्नबुद्धेरसदात्मभावाद्
     विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥
( अनुष्टुप् )
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।
अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥
यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५ ॥
( मिश्र )
कायेन वाचा मनसेन्द्रियैर्वा
     बुद्ध्याऽऽत्मना वानुसृतस्वभावात् ।
करोति यद् यत् सकलं परस्मै
     नारायणायेति समर्पयेत्तत् ॥ ३६ ॥
भयं द्वितीयाभिनिवेशतः स्या-
     दीशादपेतस्य विपर्ययोऽस्मृतिः ।
तन्माययातो बुध आभजेत्तं
     भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥
अविद्यमानोऽप्यवभाति हि द्वयो-
     र्ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
तत्कर्मसङ्‌कल्पविकल्पकं मनो
     बुधो निरुन्ध्यादभयं ततः स्यात् ॥ ३८ ॥
शृण्वन् सुभद्राणि रथाङ्‌गपाणे-
     र्जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
     गायन् विलज्जो विचरेदसङ्‌गः ॥ ३९ ॥
एवंव्रतः स्वप्रियनामकीर्त्या
     जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गाय-
     त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४० ॥
खं वायुमग्निं सलिलं महीं च
     ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्समुद्रांश्च हरेः शरीरं
     यत् किञ्च भूतं प्रणमेदनन्यः ॥ ४१ ॥
भक्तिः परेशानुभवो विरक्ति-
     रन्यत्र चैष त्रिक एककालः ।
प्रपद्यमानस्य यथाश्नतः स्यु-
     स्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥
इत्यच्युताङ्‌घ्रिं भजतोऽनुवृत्त्या
     भक्तिर्विरक्तिर्भगवत्प्रबोधः ।
भवन्ति वै भागवतस्य राज-
     स्ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥
राजोवाच -
( अनुष्टुप् )
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।
यथाचरति यद्‍ ब्रूते यैर्लिङ्‌गैर्भगवत्‌प्रियः ॥ ४४ ॥
हरिरुवाच -
सर्वभूतेषु यः पश्येद्‍ भगवद्‍‌भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ।। ४५ ॥
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥
अर्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्‍भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥
( इंद्रवज्रा )
देहेन्द्रियप्राणमनोधियां यो
     जन्माप्ययक्षुद्‌भयतर्षकृच्छ्रैः ।
संसारधर्मैरविमुह्यमानः
     स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
( अनुष्टुप् )
न कामकर्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५० ॥
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जतेऽस्मिन्नहं भावो देहे वै स हरेः प्रियः ॥ ५१ ॥
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।
सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२ ॥
( पुष्पिताग्रा )
त्रिभुवन-विभवहेतवेऽप्यकुण्ठ-
     स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दा- ।
     ल्लव निमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३ ॥
भगवत उरुविक्रमाङ्‌घ्रिशाखा-
     नखमणिचंद्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः स
     प्रभवति चंद्र इवोदितेऽर्कतापः ॥ ५४ ॥
विसृजति हृदयं न यस्य साक्षा-
     द्धरिरवशाभिहितोऽप्यघौघनाशः ।
प्रणयरशनया घृताङ्‌घ्रिपद्मः
     स भवति भागवतप्रधान उक्तः ॥ ५५ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP