|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ द्वात्रिंशोऽध्यायः ॥
श्रीपराशर उवाच
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां क्वथितास्तव । भानुभौमेरिकाद्यंश्च सत्यभामा व्यजायत ॥ १ ॥ दीप्तिमत्ताम्रपक्षाद्य रोहिण्यां तनया हरेः । बभूवुर्जाम्बवत्यां च साम्बाद्या बाहुशालिनः ॥ २ ॥ तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः । सङ्ग्रामजित्प्रधानास्तु शैव्यायां च हरेःसुताः ॥ ३ ॥ वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् । अवाप लक्ष्माणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ ४ ॥ अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः । अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ ५ ॥ प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः । प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ ६ ॥ अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः । उषाम्बाणस्य तनयामुपयेमे द्विजोत्तम ॥ ७ ॥ यत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् । छिन्नं सहस्रं बाहूनां यत्र बाणस्य चाक्रिणा ॥ ८ ॥ मैत्रेय उवाच कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः । कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ९ ॥ एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि । महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ १० ॥ श्रीपराशर उवाच उषा बाणसुता विप्र पार्वतीं सह शम्भुना । क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ॥ ११ ॥ ततःसकलचित्तज्ञा गौरी तामाह भामिनीम् । अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ॥ १२ ॥ इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः । को वा भर्ता ममेत्याह पुनस्तामाह पार्वती ॥ १३ ॥ पार्वत्युवाच वैशाखशुक्लद्वादश्यां स्वप्ने योऽभिभवं तव । करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ १४ ॥ श्रीपराशर उवाच तस्यां तिथावुषास्वप्ने यथा देव्या समीरितम् । तथैवाभिभवं चक्रे कश्चिद्रागं च तत्र सा ॥ १५ ॥ ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्मुका । क्व गतेसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ॥ १६ ॥ बाणस्य मन्त्री कुम्भाण्डः चित्रलेखा च तत्सुता । तस्याःसख्यभवत्सा च प्राह कोऽयं त्वयोच्यते ॥ १७ ॥ यदा लज्जाकुला नास्यै कथयामास सा सखी । तदा विश्वासमानीय सर्वमेवाभ्यवादयत् ॥ १८ ॥ विदितार्थां तु तामाह पुनश्चोषा यथोदितम् । देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम् ॥ १९ ॥ चित्रलेखोवाच दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न शक्यते । तथापि किञ्चित्कर्तव्यमुपकारं प्रिये तव ॥ २० ॥ सप्ताष्टदिनपर्यन्तं तावत्कालः प्रतीक्ष्यताम् । इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत् ॥ २१ ॥ श्रीपराशर उवाच ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः । मनुष्यांश्च विलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥ २२ ॥ अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् । मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २३ ॥ कृष्णरामौ विलोक्यासीत् सुभ्रूर्लज्जाजडेव सा । प्रद्युम्नदर्शने व्रीडादृष्टिं निन्येऽन्यतो द्विज ॥ २४ ॥ दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज । दृष्टत्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ २५ ॥ सोऽयं सोऽयमितीत्युक्ते तया सा योगगामिनी । चित्रलेखाब्रजीदेनामुषां बाणसुरां तदा ॥ २६ ॥ चित्रलेखोवाच अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः । अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ २७ ॥ प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् । दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ २८ ॥ तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि । रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ २९ ॥ अचिरादागमिष्यामि सहस्व विरहं मम । ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ३० ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे द्वात्रिंशोऽध्यायः (३२) |